Book Title: Agam Suttani Satikam Part 28 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
-
७६
उत्तराध्ययन-मूलसूत्रम्-१-२/४९ कथञ्चिदनित्यत्वप्रसङ्गाद्, अर्थाथप्रत्यायनापेक्षम्, एवं कृतसङ्केता बालादयोऽपि ततोऽर्थं प्रतिपोरन्निति नापोरुषेयागमसम्भव इति ।
ते च कीदृशा इत्याह-'यानि ति परीषहान् 'भिक्षुः' उक्तनिरुक्तम्, 'श्रुत्वा' आकर्ण्य, गुर्वन्तिक इति गम्यते, 'ज्ञात्वा' यथावदवबुद्ध, 'जित्वा' पुनः पुनरभ्यासेन परिचितान् कृत्वा 'अभिभूय' सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षोश्चर्या-विहितक्रियासेवनं भिक्षुचर्या तथा परिव्रजन्' समन्ताद्विहरन् ‘स्पृष्टः' आश्लिष्टः, प्रक्रमात्परीषहैरेव, 'नो' नैव विनिहन्येत' विविधैः प्रकारैः संयमशरीरोपघातेन विनाशं प्राप्नुयात्, पठन्ति च 'भिक्खायरियाए परिव्वयंतो'त्ति भिक्षाचर्यायां-भिक्षाटने परिव्रजन्, उदीर्यन्ते हि भिक्षाटने प्राय: परीषहाः, उक्तं हि-"भिक्खाय-, रियाए बावीसं पिसहा उदीरिजंति"त्ति, शेषं प्राग्वत्।। इत्युक्तः उद्देश्ः पृच्छामाह
मू. (४९-२) कयरे तु खलु बावीसंप० जे० वृ. 'कयरे' किंनामानः 'ते' अनन्तरसूत्रोद्दिष्टाः 'खलुः' वाक्यालङ्कारे, शेषं प्राग्वदिति । मू. (४९-३) इमे खलु ते बावीसं प० जे० .
वृ. 'इमे' अनन्तरं वक्ष्यमाणत्वात् हृदि विपरिवर्तमानतया प्रत्यक्षाः इमे 'ते' इति ये त्यया पुष्टाः, शेषं पूर्ववत्।
मू.(४९-४) तंजहा दिगिंछापरिसहे १ पिवासापरीसहे २ सीयपरीसहे ३ उसिणपरीसहे ४ दंसमसगपरीसहे५ अचेलपरीसहे६ अरइपरीसहे७ इत्थीपरीसहे८ चरियापरीसहे ९ निसीहियापरीसहे १० सिज्जापरीसहे ११ अक्कोसपरीसहे १२ वहपरीसहे १३ जायणापरीसहे १४ अलाभपरीसहे १५ रोगपरीसहे १६ तणफासपरीसहे १७ जल्लपरीसहे १८ सक्कारपुरक्कारपरीसहे १९ पन्नापरीसहे २० अन्नाणपरीसहे २१ सम्मत्तपरीसहे २२
वृ. 'तद्यथे'त्युदाहरणोपन्यासार्थ: दिगिञ्छापरीषहः १, पिपासापरीषहः २, शीतपरीषहः ३, उष्णपरीषहः ४, दंशमशकपरीषहः ५, अचेलपरीषहः ६, अरतिपरीषह:७, स्त्रीपरीषहः ८, चर्यापरीषह: ९, नैषेधिकीपरीषह: १०, शय्यापरीषहः ११, आक्रोशपरीषह: १२, वधपरीषहः १३, याचनापरीषहः १४, अलाभपरीषहः १५, रोगपरीषह: १६, तृणस्पर्शपरीषहः १७, जल्लपरीषहः १८, सत्कारपुरस्कारपरीषहः १९, प्रज्ञापरीषहः २०, अज्ञानपरीषहः २१, दर्शनपरीषहः २२।
इह च 'दिगिछ'त्ति देशवचनेन बुभुक्षोच्यते, सैवात्यन्तव्याकुलत्वहेतुरप्यसंयमभीरुतया आहारपरिपाकादिवाञ्छाविनिवर्त्तनेन परीति-सर्वप्रकारं सह्यत इति परीषह: दिगिंछापरीषहः?, एवं पातुमिच्छा पिपासा सैव परीषहः पिपासापरीषहः २, 'श्यैडस्पर्श' इति नत्वाभावे शीतंशिशिरः स्पर्शस्तदेव परीषहः शीतपरीषह: ३, 'उष दाह' इत्यस्यौणादिकनक्प्रत्ययान्तस्य उष्णं-निदाघादितापात्मकं तदेव परीषहः उष्णपरीषहः ४, दशन्तीति दंशाः पचादित्वादच्, मारयितुं शक्नुवन्ति मशकाः, दंशाश्च मशकाश्च दंशमशकाः, यूकाद्युपलक्षणं चैतत्, त एव परीषहो दंशमशकपरीषहः ५, चेलाभावो जिनकल्पिकादीनाम् अन्येषां तु भिन्नमल्पमूल्यं च चेलमप्यचेलमेव, अवस्त्राशीलादिवत्, तदेव परीषहोऽचेलपरीषह:६, रमणं रतिः-संयमविषया धृतिः तद्विपरीता त्वरतिः, सैव परीषहः अरतिपरीषह: ७, स्त्यायतेः स्तृणोतेर्वा टिटित्त्वाच्च
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org