Book Title: Agam 03 Ang 03 Sthanang Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३२
स्थानाङ्गसूत्रे पंतजीवी ४, लहजीवी ५॥ पंचठाणाइं जाव अब्भणुण्णायाई भवंति, तं जहा-ठाणाइए १, उक्कुडुआणिए २, पडिमठाई ३, वीरासणिए ४ णेसज्जिए ५। पंच ठाणाइं जाव अब्भणुण्णायाई भवंति, तं जहा-दंडायइए १, लगंडसाई २, आयावए ३, अवाउडए ४, अकंड्यए ५। ॥ सू० ९ ॥
छाया--पश्चमिः स्थानैः पूर्वपश्चिमकानां जिनानां दुर्गमं भवति, तद्यथादुराख्येयं १, दुर्विभाज्यं २, दुदैर्श ३, दुस्तितिक्षं ४, दुरनुचरम् ५ । पञ्चसु स्थानेषु मध्यमकानां जिनानां सुगमं भवति, तद्यथा-स्वाख्येयं १, सुविभाज्यं २, सुदर्श ३, सुतितिक्षं ४, स्वनुचरम् ५। पञ्च स्थानानि श्रमणेन भगवता महावीरेण श्रमणानां निर्ग्रन्थानां नित्यं वर्णितानि नित्यं कीर्तित्तानि नित्यम् उक्तानि नित्यं प्रशंसितानि नित्यमभ्यनुज्ञातानि भवन्ति, तद्यथा-क्षान्तिः १, मुक्तिः २, आर्जवं ३, मार्दवं ४, लाघवम् ५। पञ्च स्थानानि श्रमणेन भगवता महावीरेण यावत् अभ्यनुज्ञातानि भवन्ति, तद्यथा-सत्यं १, संयमः २ तपः ३ त्यागो ४ ब्रह्म चर्यवासः ५। पञ्च स्थानानि श्रमणेन यावत् अभ्यनुज्ञातानि भवन्ति, तद्यथाउत्क्षिप्तचरकः १, निक्षिप्तचरकः २, अन्तचरकः ३, प्रान्तचरकः ४, रूक्षचरकः ५। पञ्च स्थानानि यावत् अभ्युनुज्ञातानि भवन्ति, तद्यथा-अज्ञातचरकः १, अन्नग्लायकचरकः २, मौनचरकः ३, संसृष्टकल्पिकः ४, तज्जातसंसृष्टकल्पिकः ५। पश्च स्थानानि यावत् अभ्यनुज्ञातानि भवन्ति, तद्यथा-औपनिधिकः १ शुद्धष. णिकः २ संख्यादत्तिक: ३ दृष्टलाभिकः ४ पुष्टलाभिकः ५। पञ्च स्थानानि यावत् अभ्यनुज्ञातानि भवन्ति, तद्यथा-आचामाम्लिका १, निर्विकृतिकः २ पौर्वादिकः ३, परिमितपिण्डपातिकः ४ भिन्नपिण्डपातिकः ५। पञ्च स्थानानि यावत् अभ्यनुज्ञातानि भवन्ति, तद्यथा-अरसाहारः १ विरसाहारः २ अन्ताहारः ३ प्रान्ताहारः ४, रूक्षाहारः ५। पञ्च स्थानानि यावत् अभ्यनुज्ञातानि भवन्ति, तपथा-अरसजीवी १ विरसजीवी २ अन्तजीवी ३ पान्तजीवी ४ रूक्षनीवी ५। पश्च स्थानानि यावत् अभ्यनुज्ञातानि भवन्ति, तद्यथा-स्थानातिगः १ उत्कुटुकासनिकः २ प्रतिमास्थायी ३ वीरासनिकः ४, नैषधिकः ५। पञ्च स्थानानि यावत् अभ्यनुज्ञातानि भवन्ति, तद्यथा-दण्डायतिकः १, लगाण्डशायी ३ आतापकः ३ अमातृतकः ४ अकण्डूयकः ५॥सू० ९॥
श्री. स्थानांग सूत्र :03