________________
वा अन्नयरं वा कार्यसि इंदियजालं लूसिज वा पाणाणि वा ४ अभिहणिज वा वित्तासिज्ज वा लेसिज वा संघसिज्ज वा संघट्टिज वा परियाविज वा किलामिज वा ठाणाओ ठाणं संकामिज वा, तं तहप्पगारं मालोहडं असणं वा ४ लाभे संते नो पडिगाहिज्जा, से भिक्खू वा २ जाव समाणे से जं. असणं वा ४ कुट्ठियाओ वा कोलेज्जाउ वा अस्संजए मिक्खुपडियाए उक्कुज्जिय अवउजिय ओहरिय आहटु दलइजा, तहप्पगारं असणं वा ४ लाभे संते नो पडिगाहिज्जा ॥ (सू० ३७)॥ स भिक्षुर्भिक्षार्थं प्रविष्टः सन् यदि पुनरेवं चतुर्विधमप्याहारं जानीयात् , तद्यथा-स्कन्धे' अर्द्धप्राकारे 'स्तम्भे वा' शैलदारुमयादौ, तथा मञ्चके वा माले वा प्रासादे वा हर्म्यतले वा अन्यतरस्मिन् वा तथाप्रकारेऽन्तरिक्षजाते स आहारः 'उपनिक्षिप्तः' व्यवस्थापितो भवेत् , तं च तथाप्रकारमाहारं मालाहृतमिति मत्वा लाभे सति न प्रतिगृह्णीयात् , केवली ब्रूयाद्यत आदानमेतदिति, तथाहि-असंयतो भिक्षुप्रतिज्ञया साधुदानार्थ पीठकं वा फलक वा निश्रेणिं वा उदूखलं वाऽऽहत्य-ऊर्ध्व व्यवस्थाप्यारोहेत्, स तत्रारोहन प्रचलेद्वा प्रपतेद्वा, स तत्र प्रचलन् प्रपतन् वा हस्तादिकमन्यतरद्वा काये इन्द्रियजातं 'लूसेज्जत्ति विराधयेत्, तथा प्राणिनो भूतानि जीवान् सत्त्वानभिहन्याद्वित्रासयेद्वा लेषयेद्वा-संश्लेषं वा कुर्यात् तथा संघर्ष वा कुर्यात् तथा सङ्घट्ट वा कुर्यात्, एतच्च कुर्वस्तान् परितापयेद्वा क्लामयेद्वा स्थानात्स्थानं
सङ्कामयेद्वा, तदेतज्ज्ञात्वा यदाहारजातं तथाप्रकारं मालाहृतं तल्लाभे सति नो प्रतिगृह्णीयादिति ॥ स भिक्षुर्यदि पुनरेवंदभूतमाहारं जानीयात्, तद्यथा-'कोष्ठिकातः' मृन्मयकुशूलसंस्थानायाः तथा 'कोलेजाओ'त्ति अधोवृत्तखाताकाराद् |
असंयतः 'भिक्षुप्रतिज्ञया' साधुमुद्दिश्य कोष्ठिकातः 'उक्कुन्जियत्ति ऊर्द्धकायमुन्नम्य ततः कुब्जीभूय, तथा कोलेज्जाओ
25%
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org