________________
SNSARSURANGABAR
से भिक्खू वा से जं० मंसं वा मच्छं वा भजिजमाणं पेहाए तिल्लपूयं वा आएसाए उवक्खडिजमाणं पेहाए नो खद्धं २ उवसंकमित्तु ओभासिज्जा, नन्नत्थ गिलाणणीसाए ॥ (सू० ५१) स पुनः साधुर्यदि पुनरेवं जानीयात् , तद्यथा-मांसं वा मत्स्यं वा 'भज्यमान'मिति पच्यमानं तैलप्रधानं वा पूपं, तच्च किमर्थ क्रियते इति दर्शयति-यस्मिन्नायाते कण्यादिश्यते परिजनः स आदेशः-प्राघूर्णकस्तदर्थ संस्क्रियमाणमाहारं प्रेक्ष्य लोलुपतया 'नो' नैव 'खद्धं २'ति शीघ्रं २, द्विर्वचनमादरख्यापनार्थमुपसंक्रम्यावभाषेत-याचेत, अन्यत्र ग्लानादिकार्यादिति ॥
से भिक्खू वा० अन्नयरं भोयणजायं पडिगाहित्ता सुभि सुभि भुच्चा दुभि २ परिहवेइ, माइट्ठाणं संफासे, नो एवं करिज्जा । सुभि वा दुभि वा सव्वं भुंजिज्जा नो किंचिवि परिट्ठविज्जा ॥ (सू० ५२) स भिक्षुरन्यतरद् भोजनजातं परिगृह्य सुरभि सुरभि भक्षयेत् दुर्गन्धं २ परित्यजेत् , वीप्सायां द्विर्वचनं, मातृस्थानं चैवं संस्पृशेत् , तच्च न कुर्यात्, यथा च कुर्यात् तदर्शयति-सुरभि वा दुर्गन्धं वा सर्व भुञ्जीत न परित्यजेदिति ॥
से भिक्खू वा २ अन्नयरं पाणगजायं पडिगाहित्ता पुर्फ २ आविइत्ता कसायं २ परिहवेइ, माइट्ठाणं संफासे, नो एवं
करिजा । पुष्पं पुप्फेइ वा कसायं कसाइ वा सव्वमेयं भुंजिज्जा, नो किंचिवि परि० ।। (सू० ५३) एवं पानकसूत्रमपि, नवरं वर्णगन्धोपेतं पुष्पं तद्विपरीतं कषायं, वीप्सायां द्विर्वचनं, दोषश्चानन्तरसूत्रयोराहारगाात् सूत्रार्थहानिः कर्मबन्धश्चेति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org