Book Title: Acharangsutram Part 02
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 224
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका ३ भावनाध्य. ॥४२८॥ AAAAAAACCREASCARE न त्वसमितो भवेत् , किमिति ?, यतः केवली ब्रूयात्कर्मोपादानमेतद् , गमनक्रियायामसमितो हि प्राणिनः 'अभिहन्यात्' पादेन ताडयेत्, तथा 'वर्तयेत्' अन्यत्र पातयेत् , तथा 'परितापयेत्' पीडामुत्पादयेत् , 'अपद्रापयेद्वा' जीवितान्यपरोपयेदित्यत ईयोसमितेन भवितव्यमिति प्रथमा भावना, द्वितीयभावनायां तु मनसा दुष्प्रणिहितेन न भाव्यं, तद्दर्शयति-यन्मनः 'पापक' सावधं सक्रियम् 'अण्हयकर ति कर्माश्रवकारि, तथा छेदनभेदनकरं अधिकरणकरं कलहकरं प्रकृष्टदोषं प्रदोषिकं तथा प्राणिनां परितापकारीत्यादि न विधेयमिति, अथापरा तृतीया भावना-दुष्प्रसक्ता या वाक् प्राणिनामपकारिणी सा नाभिधातव्येति तात्पर्यार्थः, तथा चतुर्थी भावना-आदानभाण्डमात्रनिक्षेपणासमितिः, तत्र च निर्ग्रन्थेन साधुना समितेन भवितव्यमिति, तथाऽपरा पञ्चमी भावना-'आलोकितं' प्रत्युपेक्षितमशनादि भोक्तव्यं, तदकरणे दोषसम्भवादिति, इत्येवं पञ्चभिर्भावनाभिः प्रथमं व्रतं स्पर्शितं पालितं तीर्ण कीर्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति । द्वितीयव्रतभावनामाह, तत्र प्रथमेयम्-अनुविचिन्त्यभाषिणा भवितव्यं, तदकरणे दोष सम्भवात् , द्वितीय ४ भावनायां तु क्रोधः सदा परित्याज्यो, यतः क्रोधान्धो मिथ्याऽपि भाषत इति, तृतीयभावनायां तु लोभजयः कर्त्तव्यः, तस्यापि मृषावादहेतुत्वादिति हृदयम्, चतुर्थ्यां पुनर्भयं त्याज्यं, पूर्वोक्तादेव हेतोरिति, पञ्चमभावनायां तु हास्यमिति, एवं पञ्चभिर्भावनाभिर्यावदाज्ञयाऽऽराधितं भवतीति । तृतीयव्रते प्रथमभावनैषा-अनुविचिन्त्य शुद्धोऽवग्रहो याचनीय इति, द्वितीयभावना त्वाचार्यादीननुज्ञाप्य भोजनादिकं विधेयम्, तृतीया त्वेषा-अवग्रहं गृह्णता निर्ग्रन्थेन साधुना परिमित एवावग्रहो ग्राह्य इति, चतुर्थभावनायां तु 'अभीक्ष्णम्' अनवरतमवग्रहपरिमाणं विधेयमिति, पञ्चम्यां त्वनु ॥४२८॥ Jain Education Inter nal For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232