Book Title: Acharangsutram Part 02
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 226
________________ श्रुतस्कं०२ श्रीआचाराङ्गवृत्तिः (शी०) चूलिका ४ | विमुक्त्य. ॥४२९॥ POSS4UCORISHIA जो चेव होइ मुक्खो सा उ विमुत्ति पगयं तु भावेणं । देसविमुक्का साहू सव्वविमुक्का भवे सिद्धा ३४३ य एव मोक्षः सैव विमुक्तिः, अस्याश्च मोक्षवन्निक्षेप इत्यर्थः, प्रकृतम्-अधिकारो भावविमुक्त्येति, भावविमुक्तिस्तु देशसर्वभेदावधा, तत्र देशतः साधूनां भवस्थकेवलिपर्यन्तानां, सर्वविमुक्तास्तु सिद्धा इति, अष्टविधकर्मविघटनादिति ॥ सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्____ अणिचमावासमुर्विति जंतुणो, पलोयए सुच्चमिणं अणुत्तरं । विउसिरे विन्नु अगारबंधणं, अभीरु आरंभपरिग्गहं चए ॥ १॥ . आवसन्त्यस्मिन्नित्यावासो-मनुष्यादिभवस्तच्छरीरं वा तमनित्यमुप-सामीप्येन यान्ति-गच्छन्ति जन्तवः-प्राणिन इति, चतसृष्वपि गतिषु यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्तीत्यर्थः, एतच्च मौनीन्द्रं प्रवचनमनुत्तरं श्रुत्वा 'प्रलोकयेत्' पर्यालोचयेद्, यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तथैव लक्ष्यते-दृश्यते इत्यर्थः, एतच्च श्रुत्वा प्रलोक्य च विद्वान् । 'व्युत्सृजेत्' परित्यजेत् 'अगारवन्धनं' गृहपाशं पुत्रकलत्रधनधान्यादिरूपं, किम्भूतः सन् ? इत्याह'अभीरुः' सप्तप्रकारभयरहितः परीषहोपसर्गाप्रधृष्यश्च 'आरम्भ' सावद्यमनुष्ठानं परिग्रहं च सबाह्याभ्यन्तरं त्यजेदिति ॥१॥ साम्प्रतं पर्वताधिकारे, तहागय भिक्खुमणंतसंजयं, अणेलिसं विन्नु चरंतमेसणं । तुदंति वायाहि अभिवं नरा, सरेहिं संगामगयं व कुंजरं ॥ २॥ .. तथाभूतं साधुम्-अनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यक्तारम्भपरिग्रह, तथाऽनन्तेष्वेकेन्द्रियादिषु सम्यग् यतः संयतस्तम् 'अनीदृशम्' अनन्यसदृशं 'विद्वांसं' जिनागमगृहीतसारम् 'एषणायां चरन्तं' परिशुद्धाहारादिना वर्तमानं, ॥४२९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232