Book Title: Acharangsutram Part 02
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
विचिन्त्य मितमवग्रहं साधर्मिकसम्बन्धिनं गृह्णीयात् , इत्येवमाज्ञया तृतीयव्रतमाराधितं भवतीति । चतुर्थव्रते प्रथमेयम्-स्त्रीणां सम्बन्धिनी कथां न कुर्यात्, द्वितीयायां तु तदिन्द्रियाणि मनोहारीणि नालोकयेत् , तृतीयायां तु पूर्वक्रीडितादिन स्मरेत् , चतुर्थ्यां नातिमात्रभोजनपानासेवी स्यात् , पञ्चम्यां तु स्त्रीपशुपण्डकविरहितशय्याऽवस्थानमिति । पञ्चमवतभावना पुनरेषा-श्रोत्रमाश्रित्य मनोज्ञान् शब्दान् श्रुत्वा न तत्र गाझं विदध्यादिति, एवं द्वितीयतृतीयचतुर्थपञ्चमभावनासु यथाक्रम रूपरसगन्धस्पर्शेषु गाय न कार्यमिति, शेषं सुगमं यावदध्ययनं समाप्तमिति ॥ भावनाख्यं पञ्चदशमध्ययनं । तृतीया चूडा समाप्तेति ॥ २-३-१५ ।
उक्तं तृतीयचूडात्मक भावनाख्यमध्ययनं, साम्प्रतं चतुर्थचूडारूपं विमुक्त्यध्ययनमारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरं महाव्रतभावनाः प्रतिपादिताः तदिहाप्यनित्यभावना प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतमर्थाधिकार दर्शयितुं नियुक्तिकृदाह| अणिच्चे पव्वए रुप्पे भुयगस्स तहा (या) महासमुद्दे य। एए खलु अहिगारा अज्झयणंमी विमुत्तीए ३४२ | अस्याध्ययनस्यानित्यत्वाधिकारः तथा पर्वताधिकारः पुना रूप्याधिकारः तथा भुजगत्वगधिकार एवं समुद्राधिका|रश्च, इत्येते पञ्चार्थाधिकारास्तांश्च यथायोगं सूत्र एव भणिष्याम इति ॥ नामनिष्पन्ने तु निक्षेपे विमुक्तिरिति नाम, अस्य |च नामादिनिक्षेपः उत्तराध्ययनान्तःपातिविमोक्षाध्ययनवदित्यतिदेष्टुं नियुक्तिकार आह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232