________________
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका १
र्याध्य०३ उद्देशः ३
॥३८२॥
पुक्खरिणीओ वा दीहियाओ वा गुंजालियाओ वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा नो बाहाओ पगिज्झिय २ जाव निज्झाइजा, केवली०, जे तत्थ मिगा वा पसू वा पंखी वा सरीसिवा वा सीहा वा जलचरा वा थलचरा वा खहचरा वा सत्ता ते उत्तसिज वा वित्तसिज वा वाडं वा सरणं वा कंखिज्जा, चारित्ति मे अयं समणे, अह भिक्खू णं पु०
जं नो बाहाओ पगिज्झिय २ निज्झाइजा, तओ संजयामेव आयरिउवज्झाएहिं सद्धिं गामाणुगाम दूइज्जिज्जा ।। (सू०१२७) | स भिक्षुामानामान्तरं गच्छन् यद्यन्तराले एतत्पश्येत्, तद्यथा-परिखाः प्राकारान् 'कूटागारान्' पर्वतोपरि गृहाणि, 'नूमगृहाणि' भूमीगृहाणि, वृक्षप्रधानानि तदुपरि वा गृहाणि वृक्षगृहाणि, पर्वतगृहाणि-पर्वतगुहाः, 'रुक्खं वा| चेइअकर्ड'ति वृक्षस्याधो व्यन्तरादिस्थलकं 'स्तूपं वा' व्यन्तरादिकृतं, तदेवमादिकं साधुना भृशं बाहुं 'प्रगृह्य' उत्क्षिप्य तथाऽङ्गलीः प्रसार्य तथा कायमवनम्योन्नम्य वा न दर्शनीयं नाप्यवलोकनीयं, दोषाश्चात्र दग्धमुषितादौ साधुराश
येताजितेन्द्रियो वा संभाव्येत तत्स्थः पक्षिगणो वा संत्रासं गच्छेत् , एतद्दोषभयात्संयत एव 'दूयेत्' गच्छेदिति ॥ तथास भिक्षुामान्तरं गच्छेत् , तस्य च गच्छतो यद्येतानि भवेयुः, तद्यथा-कच्छाः' नद्यासन्ननिम्नप्रदेशा मूलकवालुकादिवाटिका वा 'दवियाणि'त्ति अटव्यां घासार्थ राजकुलावरुद्धभूमयः 'निम्नानि' गर्लादीनि 'वलयानि' नद्यादिवेष्टितभूमिभागाः 'गहनं' निर्जलप्रदेशोऽरण्यक्षेत्रं वा 'गुञ्जालिकाः दीर्घा गम्भीराः कुटिलाः श्लक्षणाः जलाशयाः 'सरःपतयः' प्रतीताः 'सरःसरःपतयः' परस्परसंलग्नानि बहूनि सरांसीति, एवमादीनि बाह्वादिना न प्रदर्शयेद् अवलोकयेद्वा, यतः केवली ब्रूयात्कर्मोपादानमेतत् , किमिति ?, यतो ये तत्स्थाः पक्षिमृगसरीसृपादयस्ते त्रासं गच्छेयुः, तदावासितानां वा
AAAAAAA
॥ ३८२।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org