________________
श्रीआचारावृत्तिः (शी०)
॥३८६॥
साधुभिरनाचीर्णपूर्वान् साधुर्जानीयात् , तद्यथा-ये केचन क्रोधाद्वा वाचं 'विउंजन्ति विविधं व्यापारयन्ति-भाषन्ते श्रुतस्कं०२ यथा चौरस्त्वं दासस्त्वमित्यादि तथा मानेन भाषन्ते यथोत्तमजातिरहं हीनस्त्वमित्यादि तथा मायया यथा ग्लानो- चूलिका १ ऽहमपरसन्देशकं वा सावद्यक केनचिदुपायेन कथयित्वा मिथ्यादुष्कृतं करोति सहसा ममैतदायातमिति तथा लोभे- भाषा०४ नाहमनेनोक्तनातः किञ्चिल्लप्स्य इति तथा कस्यचिद्दोषं जानानास्तदोषोद्घटनेन परुषं वदन्ति अजानाना वा, सर्व चैत- | उद्देशः १ क्रोधादिवचनं सहावयेन-पापेन गर्येण वा वर्तत इति सावधं तद्वर्जयेत् विवेकमादाय, विवेकिना भूत्वा सावधं वचनं में वर्जनीयमित्यर्थः, तथा केनचित्सार्द्ध साधुना जल्पता नैव सावधारणं वचो वक्तव्यं यथा 'ध्रुवमेतत्' निश्चितं वृष्ट्यादिकं भविष्यतीत्येवं जानीयाद् अध्रुवं वा जानीयादिति । तथा कथञ्चित्साधुं भिक्षार्थं प्रविष्टं ज्ञातिकुलं वा गतं चिरयन्तमुद्दिश्यापरे साधव एवं ब्रवीरन् यथा-भुमहे वयं स तत्राशनादिकं लब्ध्वैव समागमिष्यति, यदिवा ध्रियते तदर्थं किञ्चित् नैवासौ तस्माल्लब्धलाभः समागमिष्यति, एवं तत्रैव भुक्त्वाऽभुक्त्वा वा समागमिष्यतीति सावधारणं न वक्तव्यम् , अथ चैवंभूतां सावधारणां वाचं न ब्रूयाद् यथाऽऽगतः कश्चिद्राजादिनों वा समागतः तथाऽऽगच्छति न वा समागच्छति एवं समागमिष्यति न वेति, एवमत्र पत्तनमठादावपि भूतादिकालत्रयं योज्यं, यमर्थ सम्यग् न जानीयात्तदेवमेवैतदिति न ब्रूयादिति भावार्थः, सामान्येन सर्वत्रगः साधोरयमुपदेशो, यथा-'अनुविचिन्त्य' विचार्य सम्यग्निश्चित्यातिशयेन श्रुतोपदेशेन वा प्रयोजने सति 'निष्ठाभाषी' सावधारणभाषी सन् 'समित्या' भाषासमित्या ॥३८६॥ 'समतया वा' रागद्वेषाकरणलक्षणया पोडशवचनविधिज्ञो भाषां भाषेत । याहग्भूता च भाषा भाषितव्या तां पोडश-|
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org