Book Title: Acharangsutram Part 02
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
वा कणगकताणि वा कणगपट्टाणि वा कणगखइयाणि वा कणगफुसियाणि वा वग्घाणि वा विवग्याणि वा [विगाणि वा] ..
आभरणाणि वा आभरणविचित्ताणि वा, अन्नयराणि तह. आईणपाउरणाणि वत्थाणि लाभे संते नो० ॥ (सू० १४५) | स भिक्षुर्यानि पुनर्महाधनमूल्यानि जानीयात् , तद्यथा-'आजिनानि मूषकादिचर्मनिष्पन्नानि श्लक्ष्णानि-सूक्ष्माणि च तानि वर्णच्छव्यादिभिश्च कल्याणानि-शोभनानि वा सूक्ष्मकल्याणानि, 'आयाणि'त्ति क्वचिद्देशविशेषेऽजाः सूक्ष्मरोमवत्यो भवन्ति तत्पश्मनिष्पन्नानि आजकानि भवन्ति, तथा क्वचिद्देशे इन्द्रनीलवर्णः कर्पासो भवति तेन निष्पन्नानि कायकानि, 'क्षौमिक' सामान्यकासिकं 'दुकूल' गौडविषयविशिष्टकासिक पट्टसूत्रनिष्पन्नानि पट्टानि 'मलयानि' मलयजसूत्रोत्पन्नानि 'पन्नुन्नं'ति वल्कलतन्तुनिष्पन्नम् अंशुकचीनांशुकादीनि नानादेशेषु प्रसिद्धाभिधानानि, तानि च महापमूल्यानीतिकृत्वा ऐहिकामुष्मिकापायभयाल्लाभे सति न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यानि पुनरेवंभूतानि अजिननिष्पनानि 'प्रावरणीयानि' वस्त्राणि जानीयात् , तद्यथा-'उद्दाणि वत्ति उदाः-सिन्धुविषये मत्स्यास्तत्सूक्ष्मचर्मनिष्पन्नानि उद्राणि 'पेसाणि'त्ति सिन्धुविषय एव सूक्ष्मचर्माणः पशवस्तञ्चमनिष्पन्नानीति 'पेसलाणि'त्ति तच्चमसूक्ष्मपक्ष्मनिष्पन्नानि कृष्णनीलगौरमृगाजिनानि-प्रतीतानि 'कनकानि च' इति कनकरसच्छुरितानि, तथा कनकस्येव कान्तिर्येषां तानि कनककान्तीनि तथा कृतकनकरसपट्टानि कनकपट्टानि एवं 'कनकखचितानि' कनकरसस्तबकाञ्चितानि कनकस्पृष्टानि तथा व्याघ्रचर्माणि एवं 'वग्याणि'त्ति व्याघ्रचर्मविचित्रितानि 'आभरणानि आभरणप्रधानानि 'आभरणविचित्राणि' गिरिवि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232