Book Title: Acharangsutram Part 02
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, एवं रथावर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमद्वर्द्धमानमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम् , एतेषु च स्थानेषु यथासम्भवमभिगमनवन्दनपूजनोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्श-| नशुद्धिर्भवतीति ॥ किञ्च
गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं । इय एगंतमुवगया गुणपच्चइया इमे अत्था ॥ ३३३ ॥ गुणमाहप्पं इसिनामकित्तणं सुरनरिंदपूया य । पोराणचेइयाणि य इय एसा दंसणे होइ ॥ ३३४ ॥
प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति, तद्यथा-गणितविषये-बीजगणितादौ परं पारमुपगतोऽयं, तथाऽष्टाङ्गस्य निमित्तस्य पारगोऽयं, तथा दृष्टिपातोता नानाविधा युक्तीः-द्रव्यसंयोगान् हेतून्वा वेत्ति, तथा सम्यग्-अविपरीता दृष्टि:-दर्शनमस्य त्रिदशैरपि चालयितुमशक्या तथाऽवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैवेत्येवं प्रावचनिकस्या|चार्यादेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवतीति, एवमन्यदपि गुणमाहात्म्यमाचार्यादेवर्णयतः तथा पूर्वमहर्षीणां च नामोकीतेनं कुवेतः तेषामेव च सुरनरेन्द्रपूजादिकं कथयतः तथा चिरन्तनचैत्यानि पूजयतः इत्येवमादिकां क्रियों कुर्वतस्तद्वासनावासितस्य दर्शनविशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावनेति ॥ ज्ञानभावनामधिकृत्याहतत्तं जीवाजीवा नायव्वा जाणणा इहं दिट्ठा । इह कजकरणकारगसिद्धी इह बंधमुक्खो य ॥ ३३५ ॥ बद्धो य बंधहेऊ बंधणबंधप्फलं सुकहियं तु । संसारपवंचोऽवि य इहयं कहिओ जिणवरेहिं ॥ ३३६ ॥ नाणं भविस्सई एवमाइया वायणाइयाओ य । सज्झाए आउत्तो गुरुकुलवासो य इय नाणे ॥ ३३७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232