Book Title: Acharangsutram Part 02
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 208
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका ३ भावनाध्य. ॥४२०॥ MSRLMARCH उच्छाहपालणाए इति (एव) तवे संजमे य संघयणे । वेरग्गेऽणिचाई होइ चरित्ते इहं पगयं ॥ ३४१॥ तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तश्च-"तित्थयरो चउनाणी सुरमहिओ सिज्झिअव्वयधुवम्मि । अणिगृहिअबलविरिओ सव्वत्थामेसु उज्जमइ ॥१॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उजमिअव्वं सपञ्चवायंमि माणुस्से? ॥२॥” इत्येवं तपसि भावना विधेया । एवं 'संयम' इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा 'संहनने' वज्रर्षभादिके तपोनिर्वाहनासमर्थे भावना विधेयेति, वैराग्यभावना त्वनित्यत्वादिभावनारूपा, तदुक्तम्-"भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता ३ ऽन्यत्वे ४ । अशुचित्वं ५ संसारः ६ कर्माश्रव ७ संवर ८ विधिश्च ॥१॥ निर्जरण ९ लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ता च ११॥ बोधेः सुदुर्लभत्वं च १२ भावना द्वादश विशुद्धाः॥२॥" इत्यादिका अनेकप्रकारा भावना भवन्तीति, इह पुनश्चारित्रे प्रकृतं-चरित्रभावनयेहाधिकार इति ॥ नियुक्त्यनुगमानन्तरं सूत्रमुच्चारणीयं, तच्चेदम् तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे यावि हुत्था, तंजहा-हत्थुत्तराई चुए चइत्ता गम्भं वक्रते हत्थुत्तराहिं गब्भाओ गम्भं साहरिए हत्थुत्तराहिं जाए हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए हत्थुत्तराहिं कसिणे पडिपुन्ने अव्वाघाए निरावरणे अणंते अणुत्तरे केवलवरनाणदंसणे समुप्पन्ने, साइणा भगवं परिनिव्वुए। (सू० १७५) १ तीर्थकर चतुर्ज्ञानी सुरमहितो ध्रुवे सेधितव्ये । अनिगूहितबलवीर्यः सर्वस्थाम्नोद्यच्छति ॥१॥ किं पुनखशेषैर्दुःखक्षयकारणात् सुविहितैः । भवति नोद्यमितव्यं सप्रत्यपाये मानुष्ये ॥२॥ ॥४२०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232