Book Title: Acharangsutram Part 02
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 207
________________ साहुमहिंसाधम्मो सच्चमदत्तविरई य बंभं च । साहु परिग्गहविरई साहु तवो बारसंगो य ॥ ३३८ ॥ वेरग्गमप्पमाओ एगत्ता (ग्गे) भावणा य परिसंगं । इय चरणमणुगयाओ भणिया इत्तो तवो वुच्छं ॥३३९॥ साधु-शोभनोऽहिंसादिलक्षणो धर्म इति प्रथमवतभावना, तथा सत्यमस्मिन्नेवाहते प्रवचने साधु-शोभनं नान्यत्रेति द्वितीयव्रतस्य, तथाऽदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति, तथा परियहविरतिश्चेहैव साध्वीति, एवं द्वादशाङ्गं तप इहैव शोभनं नान्यत्रेति ॥ तथा वैराग्यभावना-सांसारिकसुखजुगुप्सारूपा, एवमप्रमादभावना-मद्यादिप्रमादानां कर्मबन्धोपादानरूपाणामनासेवनरूपा, तथैकाग्रभावना-"एको मे सासओ अप्पा, णाणदसणसंजुओ । सेसा मे बहिरा भावा, सव्वे संजोगलक्खणा ॥१॥" इत्यादिका भावनाः (इति प्रकृष्टमृषित्वाङ्ग) 'चरणमुपगताः' चरणाश्रिताः, इत ऊर्ध्वं तपोभावनां 'वक्ष्ये' अभिधास्य इति ॥ किह मे हविजऽवंझो दिवसो? किंवा पहू तवं काउं? को इह दवे जोगो खित्ते काले समयभावे?॥३४॥ 'कथं केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्ध्यो भवेत् ? कतरद्वा तपोऽहं विधातुं 'प्रभुः' शक्तः, तच्च कतरत्तपः कस्मिन् द्रव्यादौ मम निर्वहति ? इति भावनीयं, तत्र द्रव्ये उत्सर्गतो वल्लचणकादिके क्षेत्रे स्निग्धरूक्षादौ काले शीतोष्णादौ भावेऽग्लानोऽहमेवंभूतं तपः कर्तुमलम्, इत्येवं द्रव्यादिकं पर्यालोच्य यथाशक्ति तपो विधेयं “शक्तितस्त्यागतपसी" (तत्त्वार्थे अ०६ सू० २३ दर्शन०) इति वचनादिति ॥ किञ्च १एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः । शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232