Book Title: Acharangsutram Part 02
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
अथ भावनाख्या तृतीया चूलिका। उक्ता द्वितीया चूला, तदनन्तरं तृतीया समारभ्यते, अस्याश्चायमभिसम्बन्धः-इहादितः प्रभृति येन श्रीवर्द्धमानस्वामिनेदमर्थतोऽभिहितं तस्योपकारित्वात्तद्वक्तव्यतां प्रतिपादयितुं तथा पञ्चमहाव्रतोपेतेन साधुना पिण्डशय्यादिकं ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थ भावनाः प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं चूडेति, अस्याश्चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽयमर्थाधिकारः, तद्यथा-अप्रशस्तभावनापरित्यागेन प्रशस्ता भावना भावयितव्या इति, नामनिष्पन्ने निक्षेपे भावनेति नाम, तस्याश्च नामादि चतुर्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिनिक्षेपार्थ नियुक्तिकृदाह
दव्वं गंधंगतिलाइएम सीउण्हविसहणाईसु । भावंमि होइ दुविहा पसत्थ तह अप्पसत्था य ॥ ३२७॥
तत्र 'द्रव्य मिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्गैः-जातिकुसुमादिभिव्यस्तिलादिषु द्रव्येषु या वासना |सा द्रव्यभावनेति, तथा शीतेन भावितः शीतसहिष्णुरुष्णेन वा उष्णसहिष्णुर्भवतीति, आदिग्रहणाव्यायामक्षुण्णदेहो व्यायामसहिष्णुरित्याद्यन्येनापि द्रव्येण द्रव्यस्य या भावना सा द्रव्यभावनेति, भावे तु-भावविषया प्रशस्ताऽप्रशस्तभेदेन द्विरूपा भावनेति ॥ तत्राप्रशस्तां भावभावनामधिकृत्याह
पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । कोहे माणे माया लोभे य हवंति अपसत्था ॥ ३२८ ॥ प्राणिवधाद्यकार्येषु प्रथम प्रवर्त्तमानः साशङ्कः प्रवर्तते पश्चासौनःपुन्यकरणतया निशङ्कः प्रवर्तते, तदुक्तम्-"क
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232