Book Title: Acharangsutram Part 02
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 171
________________ अथ सप्तममवग्रहप्रतिमाख्यमध्ययनम् । ___ उक्तं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः-पिण्डशय्यावस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं यथा साधुना विशुद्धोऽवग्रहो ग्राह्य इति, नामनिष्पन्ने तु निक्षेपेऽवग्रहप्रतिमेति नाम, तत्रावग्रहस्य नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिचतुर्विधं निक्षेपं दर्शयितुकामो नियुक्तिकार आहदव्वे खित्ते काले भावेऽवि य उग्गहो चउद्धवाउादेविंद १ रायउग्गह २ गिहवइ ३ सागरिय ४ साहम्मी ॥३१॥ । द्रव्यावग्रहः क्षेत्रावग्रहः कालावग्रहो भावावग्रहश्चेत्येवं चतुर्विधोऽवग्रहः, यदिवा सामान्येन पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रस्य लोकमध्यवर्तिरुचकदक्षिणार्द्धमवग्रहः १, राज्ञश्चक्रवादेर्भरतादिक्षेत्रं २, गृहपतेाममहत्तरादेमपाटकादिकमवग्रहः ३, तथा सागारिकस्य-शय्यातरस्य घवशालादिकं ४, साधर्मिकाः-साधवो ये मासकल्पेन तत्राव-IN स्थितास्तेषां वसत्यादिरवग्रहः सपादं योजनमिति ५, तदेवं पञ्चविधोऽवग्रहः, वसत्यादिपरिग्रहं च कुर्वता सर्वेऽप्येते | यथाऽवसरमनुज्ञाप्या इति ॥ साम्प्रतं द्रव्याद्यवग्रहप्रतिपादनायाह दव्वुग्गहो उ तिविहो सचित्ताचित्तमीसओ चेव । खित्तुग्गहोऽवितिविहो दविहो कालुग्गहो होइ ॥३१७॥ द्रव्याद्यवग्रहस्त्रिविधः, शिष्यादेः सचित्तो रजोहरणादेरचित्तः शिष्यरजोहरणादेमिश्रः, क्षेत्रावग्रहोऽपि सचित्तादि Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232