________________
अथ सप्तममवग्रहप्रतिमाख्यमध्ययनम् ।
___ उक्तं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः-पिण्डशय्यावस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं यथा साधुना विशुद्धोऽवग्रहो ग्राह्य इति, नामनिष्पन्ने तु निक्षेपेऽवग्रहप्रतिमेति नाम, तत्रावग्रहस्य नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिचतुर्विधं निक्षेपं दर्शयितुकामो नियुक्तिकार आहदव्वे खित्ते काले भावेऽवि य उग्गहो चउद्धवाउादेविंद १ रायउग्गह २ गिहवइ ३ सागरिय ४ साहम्मी ॥३१॥ । द्रव्यावग्रहः क्षेत्रावग्रहः कालावग्रहो भावावग्रहश्चेत्येवं चतुर्विधोऽवग्रहः, यदिवा सामान्येन पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रस्य लोकमध्यवर्तिरुचकदक्षिणार्द्धमवग्रहः १, राज्ञश्चक्रवादेर्भरतादिक्षेत्रं २, गृहपतेाममहत्तरादेमपाटकादिकमवग्रहः ३, तथा सागारिकस्य-शय्यातरस्य घवशालादिकं ४, साधर्मिकाः-साधवो ये मासकल्पेन तत्राव-IN स्थितास्तेषां वसत्यादिरवग्रहः सपादं योजनमिति ५, तदेवं पञ्चविधोऽवग्रहः, वसत्यादिपरिग्रहं च कुर्वता सर्वेऽप्येते | यथाऽवसरमनुज्ञाप्या इति ॥ साम्प्रतं द्रव्याद्यवग्रहप्रतिपादनायाह
दव्वुग्गहो उ तिविहो सचित्ताचित्तमीसओ चेव । खित्तुग्गहोऽवितिविहो दविहो कालुग्गहो होइ ॥३१७॥ द्रव्याद्यवग्रहस्त्रिविधः, शिष्यादेः सचित्तो रजोहरणादेरचित्तः शिष्यरजोहरणादेमिश्रः, क्षेत्रावग्रहोऽपि सचित्तादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org