________________
भाषैव, यथा कपालावस्थायां घटोऽघट इति, तदनेन प्रागभावप्रध्वंसाभावौ शब्दस्यावेदिताविति ॥ इदानीं चतसृणां भाषाणामभाषणीयामाहं स भिक्षुर्या पुनरेवं जानीयात्, तद्यथा-सत्यां १ मृषां २ सत्यामृषाम् ३ असत्यामृषां ४, तत्र मृषा सत्यामृषा च साधूनां तावन्न वाच्या, सत्याऽपि या कर्कशादिगुणोपेता सा न वाच्या, तां च दर्शयति-सहावद्येन वर्त्तत इति सावद्या तां सत्यामपि न भाषेत, तथा सह क्रियया - अनर्थदण्डप्रवृत्तिलक्षणया वर्त्तत इति सक्रिया तामिति तथा 'कर्कश' चर्विताक्षरां तथा 'कटुकां' चित्तोद्वेगकारिणीं तथा 'निष्ठुरां' हक्काप्रधानां 'परुषां' मर्मोद्घाटनपराम् ' अण्हयकरि 'न्ति कर्माश्रवकरीम् एवं छेदनभेदनकरीं यावदपद्रावणकरीमित्येवमादिकां 'भूतोपघातिनी' प्राण्युपतापकारिणीम् 'अभिकाङ्क्षय' मनसा पर्यालोच्य सत्यामपि न भाषेतेति ॥ भाषणीयां त्वाह-स भिक्षुर्या पुनरेवं जानीयात्, तद्यथा-या च भाषा सत्या 'सूक्ष्मे'ति कुशाग्रीयया बुद्ध्या पर्यालोच्यमाना मृषाऽपि सत्या भवति यथा सत्यपि मृगदर्शने लुब्धकादेरपलाप इति, उक्तञ्च – “अंलिअं न भासिअव्वं अत्थि हु सच्चंपि जं न वत्तव्वं । सच्वंपि होइ अलिअं जं परपीडाकरं वयणं ॥ १ ॥” या चासत्यामृषा - आमन्त्रण्याज्ञापनादिका तां तथाप्रकारां भाषामसावद्यामक्रियां यावदभूतोपघातिनीं मनसा पूर्वम् 'अभिकाङ्क्षय' पर्यालोच्य सर्वदा साधुर्भाषां भाषेतेति ॥ किञ्च -
से भिक्खू वा पुमं आमंतेमाणे आमंतिए वा अपडिसुणेमाणे नो एवं वइज्जा - होलित्ति वा गोलित्ति वा वसुलेत्ति वा कुपक्खेत्ति वा घडदासित्ति वा साणेत्ति वा तेणित्ति वा चारिएत्ति वा माईत्ति वा मुसावाइति वा, एयाई तुमं ते जणगा वा, १ अलीकं न भाषितव्यं अस्त्येव सत्यमपि यन्न वक्तव्यम् । सत्यमपि भवत्यलीकं यत् परपीडाकरं वचनम् ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org