________________
रोमासानतिवाह्य तत्रैव पुनः कारणमन्तरेणासते, अयमायुष्मन्! कालातिक्रमदोषः संभवति, तथा च रूयादिप्रतिवन्धः स्नेहादुद्गमादिदोषसम्भवो वेत्यतस्तथा स्थानं न कल्पत इति १॥ इदानीमुपस्थानदोषमभिधित्सुराह___ से आगंतारेसु वा ४ जे भयंतारो उडु० वासा० कप्पं उवाइणावित्ता तं दुगुणा दु(ति)गुणेण वा अपरिहरित्ता तत्थेव
भुजो० अयमाउसो! उवट्ठाणकि० २॥ (सू० ७९) ये 'भगवन्तः' साधव आगन्तागारादिषु ऋतुबद्धं वर्षा वाऽतिवाह्यान्यत्रमासमेकं स्थित्वा 'द्विगुणत्रिगुणादिना' मास(सादि)कल्पेन अपरिहृत्य-द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वसन्ति, अयमेवंभूतः प्रतिश्रय उपस्थानक्रियादोषदुष्टो भवत्यतस्तत्रावस्थातुं न कल्पत इति २॥ इदानीमभिकान्तवसतिप्रतिपादनायाह
इह खलु पाईणं वा ४ संतेगइया सड़ा भवंति, तंजहा-गाहावई वा जाव कम्मकरीओ वा, तेसिं च णं आयारगोयरे नो सुनिसंते भवइ, तं सद्दहमाणेहिं पत्तियमाणेहिं रोयमाणेहिं बहवे समण माहण अतिहिकिवणवणीमए समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइयाई भवंति, तंजहा–आएसणाणि वा आयतणाणि वा देवकुलाणि वा सहाओ वा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुहाकम्मंताणि वा दब्भकम्मंताणि वा वद्धकं० वक्यकं० इंगालकम्म० कट्ठक० सुसाणक० सुण्णागारगिरिकंदरसंतिसेलोवट्ठाणकम्मंताणि वा भवणगिहाणि वा, जे भयंतारो तहप्पगाराई
आएसणाणि वा जाव गिहाणि वा तेहिं उवयमाणेहिं उवयंति अयमाउसो ! अभिकंतकिरिया यावि भवइ ३ ॥ (सू०८०) इह प्रज्ञापकाद्यपेक्षया प्राच्यादिषु दिक्षु श्रावकाः प्रकृतिभद्रका वा गृहपत्यादयो भवेयुः, तेषां च साध्वाचारगोचरः 'णो
Jain Education International
For Personal & Private Use Only
www.janelibrary.org