________________
| 'पूर्वसंस्तुताः' पितृव्यादयः 'पश्चात्संस्तुता वा' श्वशुरादयः, ते च तत्र बद्धगृहाः प्रबन्धेन प्रतिवसन्ति, ते चामी-गृहपतिर्वा यावत्कर्मकरी वा, तथाप्रकाराणि च कुलानि भक्तपानाद्यर्थ न प्रविशेत् नापि निष्क्रामेत् , स्वमनीषिकापरिहारार्थमाह-केवली ब्रूयात्कर्मोपादानमेतत्, किमिति?, यतः पूर्वमेवैतत् 'प्रत्युपेक्षेत' पर्यालोचयेत्, तथा 'एतस्य' भिक्षोः कृते 'परः' गृहस्थोऽशनाद्यर्थम् 'उपकुर्यात्' ढोकयेदुपकरणजातम् , 'उवक्खडेज'त्ति तदशनादि पचेद्वेति, 'अर्थ' अनन्तरं भिश्रूणां पूर्वोपदिष्टमेतत्प्रतिज्ञादि, यथा-नो तथाप्रकाराणि स्वजनसम्बन्धीनि कुलानि पूर्वमेव-भिक्षाकालादारत एव भक्ताद्यर्थ प्रविशेद्वा निष्कामेद्वेति । यद्विधेयं तदर्शयति-'सें तमादाय'ति 'सः' साधुः 'एतत्' स्वजनकुलम् 'आदाय' ज्ञात्वा केनचित्स्वजनेनाज्ञात एवैकान्तमपक्रामेद्, अपक्रम्य च स्वजनाद्यनापातेऽनालोके च तिष्ठेत् , स च तत्र स्वजनसम्बद्धग्रामादौ 'कालेन' भिक्षाऽवसरेणानुप्रविशेत् , अनुप्रविश्य च 'इतरेतरेभ्यः कुलेभ्यः' स्वजनरहितेभ्यः 'एसिय'ति एषणीयम्-उद्गमादिदोषरहितं 'वेसियंति वेषमात्रादवाप्तमुत्पादनादिदोषरहितं 'पिण्डपातं' भिक्षाम् 'एषित्वा' अन्विष्य एवंभूतं ग्रासैषणादोषरहितमाहारमाहारयेदिति । ते चामी उत्पादनादोषाः, तद्यथा-"धाई १ दूइ २ निमित्ते ३ आजीव ४| वणीमगे ५ तिगिच्छा ६ य । कोहे ७ माणे ८ माया ९ लोभे १० य हवन्ति दस एए॥१॥ पुचिपच्छासंथव ११ विज्जा |१२ मंते १३ अ चुण्ण १४ जोगे १५ य । उप्पायणाय दोसा सोलसमे मूलकम्मे य १६ ॥२॥” तत्राशनाद्यर्थं दातुरपत्योपकारे वर्तत इति धात्रीपिण्डः १, तथा कार्यसङ्घट्टनाय दौत्यं विधत्ते इति दूतीपिण्डः २, निमित्तम्-अङ्गुष्ठप्रश्नादि तदवाप्तो निमित्तपिण्डः ३, तथा जात्याद्याजीवनादवाप्त आजीविकापिण्डः ४, दातुर्यस्मिन् भक्तिस्तत्प्रशंसयाऽवाप्तो व
dan Education International
For Personal & Private Use Only
www.jainelibrary.org