________________
श्रीआचाराङ्गवृत्तिः
(शी०) ॥३४३॥
यात् । अत्रैव दोषमाह-केवली ब्रूयात् 'आदान' कर्मादानमेतदिति, तथाहि 'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया तत्रा- श्रुतस्क०२ ग्युपरिव्यवस्थितमाहारम् 'उत्सिञ्चन्' आक्षिपन् 'निःसिञ्चन्' दत्तोद्वरित प्रक्षिपन्, तथा 'आमर्जयन्' सकृद्धस्तादिना||चूलिका १ शोधयन् , तथा प्रकर्षेण मार्जयन्-शोधयन् , तथाऽवतारयन् , तथा 'अपवर्तयन्' तिरश्चीनं कुर्वन्नग्निजीवान् हिंस्या
पिण्डैष०१ दिति । 'अर्थ' अनन्तरं 'भिक्षूणां' साधूनां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकारमग्निसं
उद्देशः ७ बद्धमशनाद्यग्निनिक्षिप्तमप्रासुकमनेषणीयमिति ज्ञात्वा लाभे सति न प्रतिगृह्णीयात् , एतत्खलु भिक्षोः 'सामग्र्यं' समग्रो भिक्षुभाव इति ॥ प्रथमाध्ययनस्य षष्ठ उद्देशकः समाप्तः ॥२-१-१-६॥
पष्ठोद्देशकानन्तरं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके संयमविराधनाऽभिहिता, इह तु संयमात्मदातृविराधना तया च विराधनया प्रवचनकुत्सेत्येतदत्र प्रतिपाद्यत इति
से भिक्खू वा २ से जं. असणं वा ४ खधंसि वा थंभंसि वा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि उवनिक्खित्ते सिया तहप्पगारं मालोहडं असणं वा ४ अफासुयं नो०, केवली बूया आयाणमेयं, अस्संजए भिक्खुपडियाए पीढं वा फलगं वा निस्सेणिं वा उदूहलं वा आहट्ट उस्सविय दुरूहिज्जा, से तत्थ दुरूहमाणे पयलिज वा पवडिज वा, से तत्थ पयलमाणे वा २ हत्थं वा पायं वा बाहुं वा ऊरं वा उदरं वा सीसं
॥३४३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org