Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1075
________________ उवसमणा 1067 - अभिधानराजेन्द्रः - भाग 2 उवसमणा परिभ्रमता न कदाचनापि बन्धमाश्रित्य ईदृशानि स्पर्द्धकानि कृतानि किं तु संप्रत्येव विशुद्धवशात्करोतीत्यर्थः / पूर्वाणि (सज्झंति) तथा रूपाणि वा पूर्वाणि स्पर्द्धकानि कुर्वतः संख्येयेषु स्थितिबन्धेषु गतेषु सत्सु अश्वकर्णकरणाद्धा व्यतिक्रामति ततो मध्यमा द्वितीयाद्धा प्रवर्तते तदानीं च संज्वलनलोभस्य स्थितिबन्धो दिनपृथक्त्वप्रमाणः शेषकर्मणां तु वर्णपृथक्त्वमानः किट्टिकरसाद्धायांच पूर्वस्पर्द्धकेभ्यश्च दलिकं गृहीत्वा प्रतिसमयमनन्ताः किट्टीः करोति। संप्रति किट्टिस्वरूपं प्रथमसमयोदये यावतीः किट्टीःकरोति तदेव प्रतिपादयति। अप्पुय्वविसोहीए, अणुभागो णुणविभजणं किट्टी। पढमसमयम्मि रसफुडवग्गणा तं भागसमा / / अपूर्वया विशुद्ध्या अनुभागस्य जस्य एकोत्तरवृद्धस्यापनयनेन हीनतरस्य यत् विभजनं सा किट्टिः किमुक्तं भवति पूर्वस्पर्द्धकेभ्यो ऽपूर्वस्पर्द्धकभ्यश्च वर्गणा गृहीत्वा तासामनन्तगुणां हीनरसतामापाद्य वृहत्तरलतया यदपस्थानं यथाऽऽसां वर्गणानामसंकल्पनया अनुभागरसभागानां शतंत्र्युत्तरं व्युत्तरमेकोत्तरमासीत् तासामनुभागानां यथाक्रमं पञ्चविंशति पञ्चदशकं पञ्चकमितिताः किट्टयस्ता एकस्मिन् रसस्पर्द्धके अनुभागस्पर्द्धक या अनन्ता वर्गणास्तासामनन्ततमे भागे यावत्यो वर्गणास्तावत्प्रमाणाः प्रथमसमये करोति ताश्चानन्तानुबन्धाः किं तु सर्वजघन्यानु-भागस्पर्द्धकानुभागेन सदृशाः करोति न तु ततोऽपिहीनाः उच्यन्ते ततोऽपि हीनास्तथा चाह। सव्वजहन्नए फड्डग, अणंतगुणहाणिया उ सारसओ। पयसमयमसंखंसो, आइमसमया उजायत्तो।। यत् सर्वजघन्यं रसस्पर्द्धकं ततोऽपि रसमधिकृत्य ताः किट्टीरनन्तगुणहानिका अनन्तगुणहीनाः करोति ता आदिमसमयात्परतः प्रतिसमयमसंख्येयांशान् प्रतिसमयं पूर्वस्मात् असंख्येयभागमात्राः किट्टीस्तावत्करोति यावदक्किट्टिकरणाद्धाचरमसमयः इयमत्र भावना प्रथमसमये प्रभूताः किट्टीः करोति द्वितीयसमये असंख्येयगुणहीना एवं तावद्वाच्यं यावत् किट्टिकरणाद्धायाश्चरमसमयः। अणुसमयसंखगुणं, दलियमणंतं स उ अणूभागो। सव्वेसु मंदरसमाइयाण दलयंति सेसूणं / / अनुसमयं प्रतिसमयं दलिकसंख्येयगुणं तद्यथा प्रथमसमये सकलकिट्टिगतं दलिकं सर्वस्तोकं ततोऽपि द्वितीयसमये कृतासु किट्टिष्वनन्तगुणहीनं ततोऽपि तृतीयसमये कृतासु किट्टिष्वनन्तगुणहीनम् एवं तावदाच्ययावत्किट्टिकरणाद्धाचरमसमयः। तथा सर्वेषु मन्दरसादिकानांजधन्यरसप्रभृतीनां किट्टीनांदलिकं विशेषो न वक्तव्यं यावत्सर्वोत्कृष्टरसकिट्टिः / इयमत्र भावना सर्वेषु या निवर्तिताः किट्टयस्तासां मध्ये या मन्दरसास्तानसां दलिकं सर्वप्रभूतं ततोऽनन्तरेणानुभागेनानन्तगुणेनाधिकायां द्वितीयायां किट्टौ दलिक विशेषहीनं ततोऽप्यनन्तरेणानुभागेनानन्तगुणेनाधिकायां तृतीयस्यां किट्टौ विशेषहीनमेवमनन्तरानुभागाधिकासु किट्टिषु विशेषहीनं तावदवसेयं यावत् प्रथमसमयकृतानां किट्टिनां मध्ये सर्वोत्कृष्टरसा किट्टिरिति एवं सर्वेष्वपि समयेषु प्रत्येकं भावयितव्यम्। आइमसमयकयाणं, मंदाईणं रसो अणंतगुणो। सव्वुकस्स गा वि हु, उवरिमसमयस्स णंतंसे / / आदिमसमयकृतानां प्रथमसमयकृतानां मन्दादीनां जघन्यरसादीनां रसो यथोत्तरमनन्तगुणो वक्तव्यस्तद्यथा प्रथमसमयकृतानां किट्टीनांमध्ये सर्वा मन्दानुभागा किट्टिः सा सर्वस्तोकानुभागा ततो द्वितीया अनन्तगुणानुभागा ततोऽपि तृतीया अनन्तगुणनुभागा एवं तावद्वाच्यं यावत्प्रथमसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टानुभागा किट्टिरिति / एवं द्वितीयादिष्वपि समयेषु किट्टीनां प्ररूपणा कर्त्तव्या / तथा सर्वोत्कृष्टरसाऽपि सर्वोत्कृष्टानुभागाऽपि हु निश्चितमुपरितनसमयस्य सत्का पश्चात्समयभाविसर्वमन्दानुभागकिट्यपेक्षयाऽनन्ततमे भागेवर्तते तद्यथा प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वमन्दानुभागा किट्टीसा सर्वप्रभूतानुभागा ततो द्वितीयसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टानुभागा किट्टिः साऽनन्तगुणहीना। तथा द्वितीयसमयकृतानां मध्ये या सर्वमन्दानुभागा किट्टिस्तदपेक्षया तृतीयसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टानुभागाऽनन्तगुणहीना एवं तावद्वक्तव्यं यावचरमसमयः। संप्रत्यासामेव किट्टीनां परस्परं प्रदेशाल्पबहुत्वमुच्यते प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वा बहुप्रदेशा किट्टिः सा स्तोकप्रदेशा ततो द्वितीयसमयकृतानां किट्टीनां मध्ये सा सर्वाल्पप्रदेशा किट्टिः सा असंख्येयगुणप्रदेशा ततस्तृतीयसमयकृतानां किट्टीनां मध्ये या सर्वाल्पप्रदेशा सा असंख्येयगुणप्रदेशा एवं तावद्वक्तव्यं यावचरमसमयः / / किट्टीकरणद्धाए, तिसु आवलियासु समयहीणासु। ते पडिगहिया दोण्ह वि, सड्डीणे उवसमज्झंति / / किट्टिकरणाद्धायास्तिसृष्वावलिकासुसमयहीनासु पतद्ग्रहता न भवति अप्रत्याख्यानप्रत्याख्यानावरणे लोभदलिकं संज्वलनलोभे संक्रमयतीति भावः किं तु तयोर्द्वयोरप्यप्रत्याख्यानप्रत्याख्यानावरणलोभयोर्दलिकं स्वस्थान एव स्थितमुपशमं नयते व्यावलिकाशेषायां पुनः किट्टिकरणाद्धायां वादरसंज्वलनलोभस्यागालो न भवति किं तूदीरणैव साऽपि तावत् यावदावलिका / तथा किट्टिकरणाद्वायाः संख्येयेषु भागेषु गतेषु सत्सुसंज्वलनलोभस्य स्थितिबन्धोऽन्तर्मुहूर्तप्रमाणो ज्ञानावरणदर्शनावरणान्तरायाणां दिनपृथक्त्वप्रमाणानां नामगोत्रयोर्वेदनीयानां प्रभूतवर्षसहसमानस्ततः किट्टिकरणाद्धायाश्चरमसमये संज्वलनलोभस्य स्थितिबन्धोर्मुहूर्तप्रमाणः केवलमिदमन्तर्मुहूर्त स्तोकचरममवसेयं ज्ञानावरणदर्शनावरणान्तरायाणामन्तरहोरात्रस्य नामगोत्रवेदनीयानां किं चिदूनवर्षद्वयप्रमाणः आगालव्यवच्छेदानन्तरखण्डा या उदीरणावलिका तस्याश्चरमसमये किट्टिकरणाद्धाचरमसमयस्तस्मिश्च किट्टिकरणाद्धाचरमसमये यदभूत् तद् दिदृक्षुराह। लोभस्य अणुवसंतं, किट्टी उदयावली य पुष्वत्तं / वायरगुणाण समगं, दोण्ह वि लोभसमुवसंता॥ किट्टिकरणाद्धायाश्चरमसमये संज्वलनलोभस्य तूपशान्तमहूर्ते यद् द्वितीयस्थितिगतं किट्टीकृतं दलिकं या च उदयावलिका किट्टीकृतं दलिकं या च उदयावलिका किट्टीकरणाद्धायाः शेषीभूता यच पूर्वोक्तसमयोनावलिकाद्विकबद्धमत्यर्थः / शेषं सर्वमप्युपशान्ते तथा तस्मिन्नेव समये बादरगुणेन अनिवृत्तिवादरसंपरायगुणस्थानकेन समकं द्वावप्यप्रत्याख्यानप्रत्याख्यानावरणलोभावुपशान्तौ किमुक्तं भवति। यस्मिन्नेव समये द्वावप्यप्रत्याख्यानप्रत्याख्यानलो भावुपशान्तौ तस्मिन्नेव समयेऽनिवृत्तिबादरसंपरायगुणस्थानकं व्यवच्छेद्यम्

Loading...

Page Navigation
1 ... 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224