Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उवसमणा १०७१-अभिधानराजेन्द्रः- भाग 2 उवसमसेदि अणुभागपएसाणं, सुभाण जा पुय्वमिचइयराणं। उक्कोसियर अरूविय, एगेंदी देससमणाए।। अनुभागप्रदेशोपशमनाय यथाक्रममनुभागसंक्रमप्रदेशसंक्रमतुल्या इयमत्र भावना द्विविधा अनुभागदेशोपशमना तद्यथा जघन्या उत्कृष्टा च तत्र प्रपञ्चितं प्राक्उत्कृष्ानुभागप्रदेशोपशमनाया अपि तत्रशुभप्रकृतीनां सम्यग्दृष्टिनवरं सातवेदनीययशः कीर्युच्चै मगोत्राणान्तूत्कृष्टानुभागे संक्रमस्वामी अपूर्वकरणगुणस्थानकात्परतोऽपि भवति उत्कृष्टानुभागदेशोपशमनायाः पुनरुत्कर्षतोऽप्यपूर्वकरणगुणस्थानपर्यवसानः स्वामी इतरासामशुभानां प्रकृतीनामुत्कृष्टानुभागदेशोपशमना स्वामी च मिथ्यादृष्टिरवसेयः इतरस्या जघन्यानुभागोपशमनायास्तीर्थकरवर्जानां सर्वासामपि प्रकृतीनामभवसिद्धिप्रायोग्यजघन्यस्थितौ वर्तमान एकेन्द्रियस्वामी प्रतिपत्तव्यस्तीर्थकरनाम्नस्तु य एव जघन्यानुभागसंक्रमस्वामी स एव जघन्यानुभागदेशोपशमनाया अपि / प्रदेशोपशमनाऽपि द्विधा उत्कृष्टा जघन्या च। तत्रोत्कृष्टप्रदेशोपशमना उत्कृष्ट प्रदेशसंक्रमतुल्या नवरं यथा कर्मणामपूर्वकरणात्परतोऽपि उत्कृष्ट प्रदेशसंक्रमः प्राप्यते तेषामपूर्वकरणगुणस्थानचरमसमयं यावत् उत्कृष्ट प्रदेशोपशमना वाच्या जघन्या प्रदेशोपशमना अभव्यप्रायोग्यजघन्यस्थिती वर्त्तमानस्यैकेन्द्रियस्येति समाप्तमुपशमनाकरणं तदेवमुक्तमुपशमनाकरणम्। प०स० आचा० (कर्मप्रकृतितोग्रन्थोऽर्थतो नातिरिच्यते शब्दतस्तु भिन्नोऽपि न पृथगवस्थापितोऽभिधेयस्यैवोपादेयत्वात्) उवसमप्पभव त्रि०(उपशमप्रभव) उपशम इन्द्रियनोइन्द्रियजयस्तस्मात्प्रभवो जन्मोत्पत्तिर्यस्याऽसौउपशमयप्रभवः इन्द्रियमनोनिग्रहलभ्ये, पा० “अहिरनसोवणियस्स उवसमप्पभवस्स नवबंभचेरगुत्तस्स" उपशमप्रभवस्येन्द्रियमनोजयोत्पन्नस्य ध०३ अधि०! उवसमलद्धाइकलिय पुं०(उपशमलब्ध्यादिकलित)३ त० उपशमलब्ध्युपकरणलब्धिस्थिरहस्तलब्धियुक्ते, “अविसाई परलोए उवसमलद्धाइकलिओ य" पं० व०। उवसमलद्धाइजुत्त पुं०(उपशमलब्ध्यादियुक्त) उपशमलब्धिः परमुपशमयितुं सामर्थ्यलक्षणाऽऽदिशब्दादुपकरणलब्धिः स्थिरहस्तलब्धिश्च गृह्यते ततस्ताभिश्च संयुक्तः संपन्नः। उपशमलब्ध्यादिकलिते, ध०३ अधि०। उवसमलद्धि स्त्री० (उपशमलब्धि) परमुपशमयितुं सामर्थ्य,ध०३ अधि०। उपशमनाकरणसामर्थ्य , "पज्जत्तो" लद्धितिगजुत्तो लब्धित्रिकयुक्त उपशमलब्ध्युपशमश्रेणिश्रवणकरणलब्धिकरणत्रयहेतुप्रकृष्टयोगलब्धिरूपत्रिकयुक्तः क०प्र०। उवसमसार त्रि० (उपशमसार) उपशमप्रधाने, “से किमाहु भंते ! उवसमसारंखुसामण्णं" कर्म०। उवसमसे दि स्त्री०(उपशमश्रेणि)उपशमनाप्रकारे, उपशमश्रेणिं प्रकटयन्नाह। अणदंसनपुंसत्थी, वेयच्छक्कं च पुरिसवेयं च / दो दो एगंतरिए, सरिसे सरिसं उवसमेइ॥|| तत्र प्रथमतोऽनन्तानुबन्धिनामुपशमनाऽभिधीयते अविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेजः पद्मशुक्ललेश्यानामन्यतमलेश्यायुक्तः साकारोपयोगोपयुक्तोऽतः सागरोपमकोटाकोटी स्थितिसत्कर्मा कार्मणकालात्पूर्वमभ्यन्तर्मुहूर्त्तकालं यावदवदायमानवित्तसन्तत्यपूर्वकरणं | तिष्ठति तथा च तिष्ठमानश्च परावर्तमानाः प्रकृतीः शुभा एव बध्नाति नाशुभाः। अशुभानांच प्रकृतीनामनुभागं चतुःस्थानकं सन्तं द्विस्थानकं करोति शुभानां च द्विस्थानकं सन्तं चतुःस्थानकं स्थितिबन्धेऽपि च पूर्णे सति अन्य स्थितिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पल्योपमासंख्येयभागहीनं करोति / इत्थं करणकालात्पूर्वमन्तर्मुहूर्त कालं यावदवस्थाय ततो यथाक्रमं त्रीणि करणानि प्रत्येकमान्तौहूर्तिकानि करोति तद्यथा यथाप्रवृत्तिकरणम्, अपूर्वकरणम् अनिवृत्तिकरणम् / चतुर्थीतूपशान्ताद्धा / तत्र यथाप्रवृत्तिकरणे प्रविशन् प्रतिसमयमनन्तगुणवृद्ध्या विशुद्ध्या प्रविशतिपूर्वोक्तं च शुभप्रकृतिबन्धादिकं तथैव तत्र कुरुते न च स्थितिघातं रसघातं गुणश्रेणिं गुणसंक्रमं वा करोति तद्योग्यविशुद्ध्यभावात् प्रतिसमयं नानाजीवापेक्षया असंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति षट्स्थानपतितानि च / अन्यच प्रथमसमयापेक्षया द्वितीयसमयेऽध्यवसायस्थानानि विशेषाधिकानि ततोऽपि तृतीयसमये विशेषाधिकानि एवं तावद्वाच्य याव-द्यथाप्रवृत्तकरणसमयः एवमपूर्वकरणेऽपि द्रष्टव्यम्। अत एवैतानि स्थाप्यमानानि विषमचतुरस्र क्षेत्रमास्तृणन्ति स्थापना चेयम्। 120000000000016 10000000000015 500000000014 60000000013 4000000011 30000006 2000007 100005 इह कल्पनया द्वौ पुरुषौ युगपत्करणं प्रतिपन्नौ विवक्ष्येते तत्रैकसर्वजघन्यया विशोधिश्रेण्या प्रतिपन्नः अपरस्तु सर्वोत्कृष्टया विशोधिश्रेण्या तत्र प्रथमजीवस्य प्रथमसमये जघन्या विशोधिः सर्वस्तोका ततो द्वितीयसमये जघन्या विशोधिरनन्तगुणा ततोऽपि तृतीयसमये जघन्या विशोधिरनन्तगुणा एवं तावद्वाच्यं यावद्य-- थाप्रवृत्तकरणाद्धया संख्येयो भागो गतो भवति ततः संख्येये भागे गते सति चरमसमयजधन्यविशुद्धसकाशात्प्रथमसमये द्वितीयस्य जीवस्य उत्कृष्टा विशोधिरनन्तगुणाततोऽपि यतो जघन्यविशुद्धिस्थानान्निवृत्तस्तत उपरितनं जघन्यविशोधिस्थानमनन्तगुणं ततो द्वितीयसमये उत्कृष्टा विशुद्धिरनन्तगुणा तत उपरितनं जघन्यं विशोधिस्थानमनन्तगुणं ततस्तृतीयसमये उत्कृष्टा विशुद्धिरनन्तगुणा / एवमुपर्यधश्च एवैकविशोधिस्थानमनन्तगुणतया द्वयोर्जीवयोस्तवन्नेयं यावद्यथाप्रवृत्तकरणस्य चरमसमये जघन्यं विशुद्धिस्थानंततः शेषाणि उत्कृष्टानि यानि विशोधिस्थानानि अनुक्तानि तिष्ठन्ति तानि निरन्तरमनन्तगुणया वृद्ध्या तावन्नेतव्यानि यावचरमसमये उत्कृष्ट विशोधिस्थानम्। भणितं यथाप्रवृत्तिकरणम् / संप्रत्यपूर्वकरणमुच्यते / तत्रापूर्वकरणे प्रतिसमयमसंख्येय-लोकाकाशप्रमाणानि अध्यवसायस्थानानि भवन्ति प्रतिसमयं च षट् स्थानपतितानि तत्र प्रथमसमये जघन्या विशोधिः सर्वस्तोका सा च यथाप्रवृत्तकरणचरमसमयसत्कोत्कृष्टविशोधिस्थानादनन्तगुणा ततः प्रथमसमय एवोत्कृष्टा विशोधिरनन्तगुणा ततोऽपि द्वितीयसमये जघन्या विशोधिरनन्तगुणा ततोऽपि तस्मिन्नेव द्वितीयसमये उत्कृष्टा विशोधिरन्तगुणा ततोऽपि तृतीयसमये जघन्या विशो

Page Navigation
1 ... 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224