Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1132
________________ उवासगपडिमा 1124 - अभिधानराजेन्द्रः - भाग 2 उवासगपडिमा आहारशरीरसत्काराब्रह्मचर्यव्यापारपरिवर्जनेष्विति। तत्रपौषधो-पवासे निरत आसक्तः पौषधोपवासनिरतः स एवंविधस्य श्रावकस्य चतुर्थी प्रतिमेति प्रक्रमः / अयमत्र भावः पूर्वप्रतिमात्रयो पेतोऽष्टमी चतुर्दश्यमावस्यापौर्णमासीष्याहारपौषधादिचतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरो मासान् यावचतुर्थी प्रतिमा भवतीति / तथा पञ्चमीप्रतिमायामष्टम्यादिषु पर्वस्वेकरात्रिकप्रतिमाकारी भवत्येतदर्थं च सूत्रमधिकृतसूत्रपुस्तकेषु न दृश्यते दशादिषु पुनरुपलभ्यते इति तदर्थ उपदर्शितः। तथा शेषदिनेषु दिवा ब्रह्मचारी (रत्तीति) रात्रौ किमत आह / परिमाणं स्त्रीणां तद्भोगानां वा प्रमाणं कृतं येन स परिमाणकृत इति। अयमत्र भावो दर्शनव्रतसामायिकाष्टम्यादिपौषधोपेतस्य पर्वस्वेकरात्रिकप्रतिमाकारिण शेषदिनेषु दिवा ब्रह्मचारिणो रात्रौ ब्रह्मपरिमाणकृतोऽस्नातस्यारात्रिभोजिनः अबद्धकच्छस्य पञ्चमासान् यावत्पञ्चमी प्रतिमा भवतीति। उक्तंच"अट्ठम्मिचउद्दसीसुपडिमट्ठाएगराईय" पश्चार्द्धम्॥ असिणाणवियडभोई, मउलियडो दिवसबंभयारीय। रत्तिं परिमाणकडो, पडिमा वजेदिसुज्जहेसुत्ति // 5 // तथा दिवाऽपि रात्रावपि ब्रह्मचारी (असिणा इत्ति) अस्नायी स्नानपरिवर्जकः क्वचित्पठ्यते (अनिसाइत्ति) न निशायामत्तीत्यनिशादी (वियडभोईत्ति) विकटे प्रटकप्रकाशे दिवा न रात्रावित्यर्थः दिवाऽपि अप्रकाशे देशे न भुङ्क्ते अशनाद्यभ्यवहरतीति विकटभोजी (मउलिकडेत्ति) अबद्धपरिधानकच्छ इत्यर्थः / षष्ठी प्रतिमेति प्रकृतम्। अयमत्र भावः प्रतिमापञ्चकोक्तानुष्ठानयुक्तस्य ब्रह्मचारिणः षण्मासान् यावत्षष्ठी प्रतिमा भवतीति / तथा सचित्त इति सचेत नाहारपरिज्ञातः तत्स्वरूपादिप्रतिज्ञानात्प्रत्याख्यातो येन स सचित्ताहारपरिज्ञातः श्रावकः सप्तमी प्रतिमेति प्रकृतम्। इयमत्र भावनांपूर्वोक्तप्रतिमाषट्कानुष्ठानयुक्तस्य प्रासुकाहारस्य सप्त मासान् यावत्सप्तमी प्रतिमा भवतीति तथा आरम्भः पृथिव्याधुपमर्दनलक्षणः परिज्ञातस्तथैव प्रत्याख्यातो येनासावारम्भपरिज्ञातः श्राद्धोऽष्टमी प्रतिमेति / इह भावना समस्तपूर्वोक्तानुष्ठानायुक्तस्यारम्भवर्जनमष्टौ मासान् यावदष्टमी प्रतिमेति। तथा प्रेष्या आरम्भेषु व्यापारणीयाः परिज्ञातास्तथैव प्रत्याख्याता येन स प्रेष्यपरिज्ञातः श्रावको नवमीति / भावार्थश्वेह पूर्वोक्तानुष्ठायिनः आरम्भं परैरप्यकारयतो नव मासान् यावन्नवमी प्रतिमेति।तथा उद्दिष्ट तमेव श्रावकमुद्दिश्य कृतंभक्तमोदनादि उद्दिष्टभक्तं तत्परिज्ञातं येनासावुद्दिष्टभक्तपरिज्ञातः प्रतिमेति प्रकृतम् / इहायं भावार्थः। पूर्वोदितगुणयुक्तस्याधाकर्मिकभोजनपरिहारवतः क्षुरमुण्डितशिरसः शिखावतो वा केनापि किंचिद् गृहव्यतिकरे पृष्टस्य तज्ज्ञाने सति जानामीत्यज्ञाने च सति न जानामीति ब्रुवाणस्य दश मासान् यावदेवंविधविहारस्य दशमी प्रतिमेति / तथा श्रमणेति निर्ग्रन्थसद्वेद्यस्तदनुष्ठानकरणात् स श्रमणभूतः साधुकल्प इत्यर्थः चकारः समुचये अपिः संभावने भवति श्रावक इति प्रकृतं हे श्रवण ! हेआयुष्मन् ! इति सुधर्मस्वामिना जम्बूस्वामिनमामन्त्रयतोक्तमित्येकादशीति / इह चेयं | भावना पूर्वोक्तसमग्रगुणोपेतस्य क्षुरमुण्डस्य कृतलो चस्य वा गृहीतसाधुनेपथ्यस्य ईर्यासमित्यादिकं साधुधर्ममनुपालयतो भिक्षार्थ गृहिकुलप्रवेशे सति श्रमणोपासकाय प्रतिपन्नाय भिक्षा देयेतिभाषमाणस्य कस्त्वमिति कस्मिश्चित्पृच्छति प्रतिपन्नश्रमणोपास-कोऽहमिति ब्रुवाणस्यैकादशमाशन यावदेकादशी प्रतिमा भवतीति / पुस्तकान्तरे त्वेवं वाचना "दंसणसावए प्रथमा। कयवयकम्मे द्वितीया। कयसामाइए तृतीया / पोसहोववासनिरए चतुर्थी। राइभत्तपरिन्नाए पंचमी। सचित्तपरिन्नाए षष्ठी। दिया बंभणयारी राओ परिमाणकडे सप्तमी। दिया वि राओ वि बम्हयारी। असिणाणपयावि भवति वोसट्ठकेसरोमनहे अष्टमी। आरंभपरिन्नाए नवमी। उद्दिट्ठभत्तवज्जए दशमी। समणभूएया वि भवइत्ति ससमणाउसो एकादशीति / क्वचित्तु आरम्भपरिज्ञात इति नवमी। प्रेष्यारम्भपरिज्ञात इति दशमी / उद्दिष्टभक्तवर्जकः श्रमणभूतश्चैकादशीति। समापंचा०॥ तएणं से आणंदे समणस्स भगवओ अंतिअं पढमं उवासगपडिम उवसपञ्जित्ताणं विहरइ / पढम उवासगपडिम अहासुत्त 4 सम्म काएणं फासेइ। जाव आराहएइ / तएणं से आणद समण / दोचं उवासगपडियं चउत्थं पंचमं छटुं सत्तम अट्ठमं नवमं दशमं एक्कारसमं जाव आराहेइ।। (पढमंति) एकादशानामाद्यमुपासकप्रतिमाश्रावकोचिताभिग्रहविशेषरूपामुपसंपद्य विहरति तस्याश्चेदं स्वरूपम् "संकादिसल्लविरहित, सम्मसणजुओ जो जंतू। सेसगुणविप्पमुक्को, एसा खलु होइ पढमाओ।" सम्यग्दर्शनप्रतिपत्तिश्चास्य पूर्वमप्यासीत् केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जित्वेन तथाविधसम्यग्दर्शनचारविशेषपालनाभ्युपगमेन च प्रतिमात्वं संभाव्यते कथमन्यथाऽसावेकमासप्रथमायाः पालनेन द्वौ मासौ द्वितीयायाः पालनेन एवं यावदेकादश मासानेकादश्याः पालनेनपञ्चसार्धाणि वर्षाणि पूरितवानित्यर्थः। ततो वक्ष्यतीति न चायमर्थो दशाश्रुतस्कन्धादावुपलभ्यते श्रद्धामात्रप्ररूपायास्तस्याः प्रतिपादनात् (अहासुत्तंति) सूत्रानतिक्रमेण यथाकल्पप्रतिमाचारानतिक्र मेण यथा मार्ग क्षायोपसमिकभावानतिक्र मेण (अहातचंति) यथातत्वं दर्शनप्रतिमेति शब्दस्यान्वर्थानतिक्रमेण (फासेइत्ति) स्पृशति प्रतिपत्तिकाले विधिना प्रतिपत्तेः (पालेत्ति) सततोपयोगप्रतिजागरेण रक्षति (सोहइत्ति) शोभयति गुरुपूजापुरस्सरं पारणकरणेन शोधयति वा निरतिचारतया (तिरइत्ति) पर्णेऽपि कालावधावनुबन्धात्यागात् (कीर्तयेत्ति) तत्समाप्तावेवमिदं चेहादिमध्यावसानेषु कर्त्तव्यं मया तत् कृतमिति कीर्तनात् आराधयति एभिरेव प्रकारैः संपूर्णः निष्ठां नयतीति उपा०१ उ०। सुयं मे आउसत्तेणं भगवया एवमक्खायं इह खलु थेरेहिं भगवंतेहिं इक्कारस उवासगपडिमा पण्णत्ताओ कतराओ खलु ताओ इमाओ खलु तं जहा अकिरियावादी यावि भवति मो हियवादी णो हियपणे नो हियदिट्ठी नोसमावादी णो णित्तियावादीण संति परलोगवादी णत्थि इहलोएणत्थि परलोए णत्थि माता णत्थि पिता णत्थि अरहंता णस्थि चक वट्टी णत्थि बलदेवा णत्थि वासुदेवा णत्थि णरया णत्थि णेरइया णत्थि सुकडंदुक्कडाणं फलवित्तिविसेसे णो सुचिण्णाकम्मा सुचिन्नफला भवंति णो दुचिण्णा कम्मा दुचिण्णफला भवंति। अफले कल्लाणपावए नो पञ्चायति जीवा णत्थि णिरया नत्थि सिद्धी से एवं वादी एवं पण्णे एवं दिट्ठी एवं छंदरा

Loading...

Page Navigation
1 ... 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224