Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1211
________________ उस्सारकप्प 1203 - अमिधानराजेन्द्रः - भाग 2 उस्सारकप्प आयरिया आगया तेहिं ते उबालद्धा गच्छाय अच्छित्ता गच्छेसुय पवेसिया सव्वे जहा एते दोसा तम्हान उस्सारेयव्वा कत्तिया ते भविस्संतिजे एवं निहोडिहिंति / गाथावयस्याप्यक्षरगमनिका इत्येवं क्रियते / यत्र तदिक्षुकरणमिक्षुवादस्तस्य रक्षणार्थम् वराको गताख्यानिकेत्यर्थः साख्यानिका तत्र क्रोष्टुः शृगालस्य पतनं ततो गृहपतिना गलके घण्टा बध्या मुक्तस्य दर्शनंशृगालानां नाशनं ततो वृकादीनां पृच्छा ततः सर्वेऽपि परम्परया नश्यन्ति यावत् सिंहः समा-गतस्तेन प्रतिजागर्य निरूप्य स घण्टाशृगालो हतः। शेषा मृगगणाः शृगालवृकादय आश्वासिताः / अयं दृष्टान्तः / अथ दान्तिकयो-जनामाह" इयकइवयाई इत्यादि " इत्यमुनैव प्रकारेण प्रथमि-ल्लुकोत्सारी शिष्यः कतिपयानि सूत्रालापकरूपाणि किञ्चिन्मा-त्रसूत्रस्पर्शकनियुक्तिमिश्रितानि जानीते अस्य च समीपे योऽन्यो-ऽधीते स कतिपयान् सूत्रालापकान् जानीतेन पुनरर्थ तस्यापि पावें यः पठति स सूत्रालापकानपि नाकर्षति। अन्येन पृष्टः प्रतिभणति अस्ति किमप्येतदङ्गोपाङ्गादिकं श्रुतंतयूयमेतस्य योगमुद्हतेति / एते च दुरधीतविद्यत्वात्प्रायः प्रत्यन्तग्राम एवार्थं लभन्ते। यत उक्तम्।" पाएण खीणदव्या, धणियपरट्ठा कयावए हाय / पञ्चतं सेवंती, पुरिसा दुरहीयवज्ञाया"।अतः प्रत्यन्तंगत्वा सूत्रार्थ-योरुत्सारणं कुर्वन्ति वदन्ति च वयं सूत्रार्थयोरव्यवच्छित्तिं कुर्म इति अन्यदा च यत्र प्रत्यन्तग्रामे गीतार्थानामागमनंतरुत्सारकल्पिकानां खरण्टनं यथा आः किमेवं सूत्रार्थयोः परिपाटिवाचनां परित्यज्य सकलश्रुतधर्मधूमकेतुकल्पमुत्सारकल्पमाचरन्तः आत्मानं च परं च नाशयतेत्यादि / ततश्च गच्छान्नावछिद्यते तेषामपुनःकरणेन प्रतिकान्तानां प्रायश्चित्तं दत्तम् (कित्तिय त्ति) कियन्तएतादृशा गीतार्था भविष्यन्ति य एवं शिक्षयिष्यन्ति तस्मात्प्रथमत एव नोत्सारणीयम् भाविता सप्रपञ्चं योगविराधना। अथात्मा परश्च परित्यक्त इति पदद्वयं भावयति। अप्पत्ताण उदितेण, अप्पओ इह परत्थ वि य चत्ते। सो वि अहु तेण चत्तो,जंन पढइ तेण गवेणं / / अपात्राणामयोग्यानां यद्वा अप्राप्तानां विवक्षितानुयोगभूमिमनुपा-गतानां श्रुतं ददतोत्सारकल्पकृता आत्मा इह परत्रापि चत्यक्तस्तत्रेह तद्वाचनादानसमुद्भूतापयशः वादादिनापरत्र बोधिदुर्लभत्वादिना तथा सोऽपि शिष्यो हु निश्चितं तेना चार्येण परित्यक्तो यत् तेन गणिवाचकत्वादिगणाधिष्ठितः सन्न पठति पठनाभावे हि कुतो यथावच्चरणपरिपालनम्। किं च - अजस्स हीलणाल-जणा य गारविअकारणमणज्जे। आयरिए परिवाओ, वोच्छेदो सुत्तस्स तित्थस्स। आर्यः सुजनः सुमानुष इत्येकोऽर्थः / तस्य यथावदागमार्थबोधविकलस्य वाचकनाम्ना हीलना भवति / अहो हीलेयं मम यदहं वाचकेत्यभिधीये तथा (लज्जणत्ति) वाचकमिश्रा अयमालापकः सिद्धान्ते विद्यते को वा अस्यालापकस्यार्थइति केनापि पृष्टस्य व्याकरणंदातुमशक्नुवतोभृशंलजा भवति ततश्च श्यामवदनकुब्जीकृतकन्धरश्चिन्तया विमनायमानोऽवतिष्ठते अनार्ये अनार्यस्य पुनस्तदेव गौरव्यकारणं गर्वनिबन्धनं जायते अहो वयमेव निस्सीमप्रतिष्ठापात्रं जगति वर्तामहे यदेवं वाचकपदवीमध्यारोहाम इति इत्थं परः परित्यक्तो मन्तव्य एव / आचार्ये च परिवादो भवति तथाहि सा बहुश्रुताचार्यपादुित्सारकल्पं | कारयित्वा गतः क्वापि नगरादौ पृष्ठश्च कैश्चिन्निष्णातैः किमर्पय पदं यावत् न किंचित् अयं जानीते ततस्ते ब्रुवते यैरेष सूत्रार्थमण्डलीमध्यलब्धिरेष आचार्यपदभाजनमाकरि तेऽप्याथार्या एवं विधा भविष्यन्तीत्यात्मा परित्यक्तः / तथा प्रवचनमपि तेनाचार्येण परित्यक्तं कथमित्याह श्रुतस्योत्सारकल्पवशादनधीयमानस्य व्यवच्छेदः प्राप्नोति श्रुते च व्यवच्छिद्यमाने ज्ञानाभावेच दर्शनचारित्रयोरप्यभावात्तीर्थस्यापि व्यवच्छेदः प्राप्नोति। यदि नाम तीर्थ व्यवच्छिद्यते ततः को दोष इत्याह / पवयणवोच्छेयवट्ट-माणो जिणवयणबाहिरमईओ। वंधइ कम्मरयमलं, जरमरणमणंतयं घोरं / / प्रवचनं तीर्थं तस्य व्यवच्छेदे हेतुरूपतया वर्तमानः कथंभूतोऽ सावित्याह 1 जिनवचनबाह्यमतिकः सर्वज्ञशासनबहिर्मुखशेमुषीको न खल्वनीदृशस्य प्रवचनव्यवच्छेदं कर्तुं मतिरुत्सहते स एवंभूतो बध्नाति कर्मरजोमलं रजःशब्देन बद्धावस्थं मलशब्देन निकाचितावस्थं कर्म परिग्टह्यते रजश्च मलश्चेति रजोमलं कर्मेव रजोमलं कर्मरजोमलं निकाचिताऽनिकाचितावस्थं कर्म यथाध्यवसायस्थानमनुबध्नातीत्यर्थः / कथंभूतमनन्तानि जरामरणानि यस्मात् तदनन्तजरामरणं गाथायां प्राकृतत्वादनन्तशब्दस्य परनिपातः / घोरं रौद्रं शारीरमानसदुःखोपनिपातनिबन्धनत्वात् इति / तथा षड्जीवनिकायानप्यगीतार्थतयाऽसौ विराधयतीति जीवनिकाया अपितेनोत्सारकेण परित्यक्ता अवसातव्याः। यत एते दोषास्ततो नोत्सारणीयम्॥ अथ क्रमेणैवाधीयमाने सूत्रे के गुणा उच्यन्ते। आणा विकोवणाणुओगबुज्झण उवओगनिजरागहणं / गुरुवासजोगसुस्सूसणा य कमसो अहिजते / / क्रमशः क्रमेणाधीयमाने अध्याप्यमानेच सन्ति एतेगुणास्तद्यथा आज्ञा तीर्थकृतां शिष्येणाचार्येण चाराधिता भवति (विकोवणत्ति) योगोदहनविधौ गच्छसामाचार्यां च विकोपना युत्पादना च शिष्यस्य कृता भवति ततश्च स्वयं सामाचारीवैतथ्यं न करोति अपरान् कुर्वतो निवारयति / तथा गच्छमध्ये द्वितीयपौरुष्यामनुयोगः प्रवर्तते तदाकर्णनान्मन्दबुद्धेरपि बोधनं जीवाजीवादितत्वेषु प्रबुद्धता संपद्यते बुद्ध्यमानस्य च श्रुते निरन्तरमुपगोगो जायते निरन्तरोपयुक्तस्यच महती निर्जरा प्रतिसमयसंख्येयभवोपात्तकर्मपरमाणुपटलापगमादुक्तं च।" कम्ममसंखेज्जभवं, वेइ अणुसमयमेव आउत्तो / अन्नयरम्मि वि जोगे सज्झायं मा विसेसेणं " नित्योपयुक्तस्य च शीघ्रं सूत्रार्थयोर्ग्रहणं भवति तथा हि गुरुवासेन गुरुकुलवासेन सार्द्ध योगः संबन्धो भवति अन्यथा क्रमेण सूत्रार्थाध्ययनायोगात्। यद्वा पदद्वयमिदं पार्थक्येन व्याख्यायते गुरूणामन्तिके वासो गुरुवासः स सेवितो भवति योगाश्च विधिवदाराधिता भवन्ति / आचार्यादीनां शुश्रूषा विनयवैयावृत्त्यादिना कृता भवति / यत एते गुणास्ततः क्रमेणैवाध्येतव्यः। उपसंहरन्नाह - इअदोसगुणे नाउं, उक्कमकमओ अहिज्जमाणाणं / उभयविसेसविहिन्नू , को वचणमन्मुवेजाहि॥ इतिशब्दः एवमर्थे एवमुत्क्रमतः क्र मतश्चाधीयानानामुपलक्षणत्वादध्यापयतां च यथाक्रमं दोषान् गुणांश्च ज्ञात्वोभयविशे

Loading...

Page Navigation
1 ... 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224