Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1219
________________ ऊणोयरिया 1211 - अभिधानराजेन्द्रः - भाग 2 ऊणोयरिया मित्यर्थः / तेनाप्यसंस्तरणे कवलपरिवृद्धिर्वक्तव्या / सा च तावत् यावदेकत्रिंशत्कवलाः षण्मासामुवासकर्तुमशक्नुवन् एके न दिवसेनोनं षण्मासक्षपणं कृत्वा एवमेव सिक्थकवलपरिवृद्ध्या पारणकं कुर्यात्। एवमेकावहान्या षण्मासक्षपणं तावत् वक्तव्यं यावच्चार्थं कृत्वा पूर्वप्रकारेण सिक्थककवलपरिवर्द्धनेन पारणकं परिभावयेत्। अथ न संस्तरति ततो दिने दिने भुक्त्वा मात्राप्येवमेव सिक्थादारभ्य यावत् द्वात्रिंशत् कवला इति / अत्र चोदकवचनं यद्येवमष्टावित्यादिसूत्रोपनिबद्धं नाममात्र वचनमात्रमाचार्य आह / सिद्धिप्रसादनिर्मापणाय योगानां संधारणनिमित्तमेतन्मध्यमुपात्तं सूत्रेण ततो न कश्चिद्दोषस्तथा चात्र प्रासादो भवति दृष्टान्तः। स चाग्रे भावयिष्यते। संप्रति यदुक्तं "छम्मासा होवते उ वत्तीसा" इति तद्भाव नार्थमाह। छम्मासक्खवणंतम्मि, सित्थमेगादिलंवणं / ततो लंवणमड्डी जा-वेक्कतीसमसंथरे / एक्कमेकं तु हावेत्ता, दिणं पुटवकमेण उ। दिणे दिणे उसित्थादी, पावे जुत्तीमसंथरे / षण्मासक्षपणान्ते सिक्थमेकमादिशब्दात् असंस्तरणे द्वे त्रीणि चत्वारि इत्यादिपरिग्रहोऽश्रान्तभुक्तमवमे संस्तरणे च सिक्थपरिवृद्धिस्तावत्कर्तव्या यावदवमकवलो भवति / तेनाप्यसंस्तरणे द्वात्रिंशदपि / द्रष्टव्याः परमेतत्कस्याऽपि कदाचित् अन्यथा प्रकामभोजित्वदोषप्रसक्तेर्यत आह। "एतो एगेण वि कवलेण ऊणगमाहारेमाणे समणे णिगंथे पगामरसभोइत्ति वत्तव्वं सिया" इह प्रकामग्रहणेन निकाममपि सूचितमतो द्वे अपि व्याख्यानयति। पगाम होइ वत्तीसा, निकामं होइ निचसो। दुयवि जहधा ते उ, गिद्धी हवति वजिया। द्वात्रिंशत्कवलाः प्रकामं भवति त एव यन्नित्यशः सर्वकालं भुज्यते तन्निकामम् / एते द्वे अपि द्वात्रिंशत्कवलेभ्यः एकेनापि कवलेनोनमाहारमहारयतो ऽपरिक्ते गृद्धिश्च वर्जिते भवति / "अधुनावमोयणमिति' व्याख्यानार्थमाह।। अप्पावड्ड दुभागो-मदेसणं नाममेत्तगं नाम। एइ दिणमेयतीसं, आहारेउ त्ति जं भणह॥ यदि नाम प्रतिदिनमेकत्रिंशमपि कवलानाहारापयेदिति भणथ यूयं प्रतिपादयथ तर्हि यत् अल्पार्द्धद्विभागावमौदर्यदेशनं तन्नाम मात्रकमेकत्रिंशतोऽपि कवलानां प्रतिदिवसमाहारानुज्ञानात्। आचार्य आह।। भण्णति अप्पाहारा-दओ समत्यस्स भिग्गहविसेसा। चंदायणादयो विव, सुत्तनिवातोपगामम्मि। भण्यते उत्तरं दीयते अल्पाहारादयः समर्थस्य सतोऽभिग्रहविशेषाश्चान्द्रायणादय इव। सूत्रनिपातः पुनरन्तिमोऽसमर्थस्य प्रकामनिकामनिषेधपर इत्यदोषः / ये चाल्पाहारादयोऽभिग्रहविशेषास्ते बहुना संयतसंयतीनां साधारणार्थ तथा चाह। अप्पाहारगहणं, जेणय आवस्सयाण परिहाणी। न वि जायइ तम्मत्तं, आहारेयव्वं तयं नियमा। अल्पाहाराग्रहणमल्पार्द्धाधुपलक्षणं तत इदमल्पार्द्धाद्याग्रहणमेतत् ज्ञापयति सिद्धिप्रासादनिर्मापणाय व्यापार्यमाणानामावश्यकानां योगानां यावन्मात्रेणाहारेण परिहानिर्नोपजायते तावन्मानंतमभिग्रहविशेषमभिगृह्याहारयितव्यम्। अत्रैव दृष्टान्तमभिधित्सुराह। दिट्ठतो (अ) मच्चेणं, पासदेणं तु रायसंदिटे। दवे खेत्ते काले, भावे ण य संकिलेसेइ॥ इयं गाथाक्षरयोजना। भावार्थस्तु केनापि राज्ञा अमात्य आज्ञप्तः शीघ्र प्रासादः कारयितव्यः स चामात्यो द्रव्ये लुब्धस्तान् कर्मकरान् द्रव्यतः क्षेत्रतः कालतो भावतश्च संक्लेशयति कथमित्याह। अलोणेण य सुक्कयं, सुक्खं नो पगामं दव्वतो। खेत्ताणुचियं उण्हे, काले उस्सरभोयणं / भावे न देति विस्सामं, निढरेहिं य खिंसइ। जेयं वित्तिं च नो देइ, नट्ठा अकयदंभणा / / द्रव्यतोऽलवणसंस्कृतं विशिष्टसंस्काररहितं शुष्कं वातादिना शोषं नीतं वल्लचनकादितदपि न प्रकामं न परिपूर्ण ददाति। क्षेत्रतो यत्तस्मिन् क्षेत्रे अनुचितं भक्तं वा पानं वा तद्ददाति / तथा उष्णे कर्म कारयति काले उत्सूरे भोजनं दापयति भावतो न ददाति विश्रामम् / निष्ठुरैश्ववचनैः खिसयति। जितामपि च कर्मकरतो लभ्यामपि वृत्तिं मूल्यं न ददाति। एवं च सति ते कर्मकराः प्रासादमकृत्वापि नष्टाः पलायिताः / स्थितः प्रासादोऽकृतो राज्ञा चैतज्ज्ञातं ततोऽमात्यस्य दण्डना कृता अमात्यपदाचयावयित्वा तस्य सर्वस्वापहरणं कृतमिति। एष दृष्टान्तः / __ सांप्रतमुपनयमाह // अकरणे य पसायस्स उ, जह सो मच्चो उदंडितो रन्ना। एमेवय आयरिए, उवणयणं होति कायव्वं / / यथा प्रासादस्यकरणे सोऽमात्यो राज्ञा दण्डित एवमेवाचार्य उपनयनं भवति कर्तव्यं तथैव राजस्थानीयेन तीर्थकरेण अमात्य-स्थानीयस्याचार्यस्य सिद्धिप्रासादसाधूनामर्थमादेशोदत्तः। सचकर्मकरस्थानीयानां साधूनां द्रव्यादिषु तत्करोति / यथा ते सर्वे पलायन्ते। तथा चाह। कजम्मि विनो विगति, भत्तं न तं च पञ्जत्तं / खेत्तुं खलु खेत्तादी, कुवसहि उब्भामगे चेव // तइयाए देति काले, ओमे वुस्सग्गवादिगो निचं / संगहउवग्गहे विय, न कुणइ भावे पयंडो य / / द्रव्यतः कार्येऽपि समापतिते विकृतिं घृतादिकां न ददाति / भक्तमपि प्रान्तं दापयति / तदपि च न पर्याप्तम् / क्षेत्रतः खलु क्षेत्रादीन् प्रेषयति खलु क्षेत्र नाम यत्र तु किमपि प्रायोग्यं लभ्यते आदिशब्दाद्यत्र स्वपक्षतः परपक्षतो वाऽपभ्राजना तदादिपरिग्रहः / कुवसतौ वा स्थापयति उद्भ्रामके वा ग्रामे यदा तदा वा प्रेषयति कालतः सदैव तृतीयायां भोजनं ददाति। अवमेऽपि दुभि:ऽप्युत्सर्गेवादिको नित्यं भावतः संग्रहंज्ञानादिभिरूपग्रह वस्त्रपात्रादिभिर्न करोति। प्रचण्डश्च प्रकोपनशीलः॥ लोएलोउत्तरे चेव, दो वि एए असाहगा। विवरीयत्ति व णो सिद्धी, अन्ने दो वि व माहगा / / लोके लोकोत्तरेऽपि च एतायनत्तरोक्तौ द्वावग्यसाधको

Loading...

Page Navigation
1 ... 1217 1218 1219 1220 1221 1222 1223 1224