Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ ऊणोयरिया 1212 - अभिधानराजेन्द्रः - भाग 2 ऊणोयरिया द्रव्यतो भावतश्च प्रासादस्य विपरीतवर्तिनः पुनरुभयथापि सिद्धिरिति कृत्वा अन्यौ द्वावपि द्रव्यतो भावतश्च प्रासादस्य साधकौ // सिद्धी पासायवडिं-सगस्स करणं चउट्विहं होइ। दवे खेत्ते काले, भावे य न संकिलेसेइ॥ सिद्धिः प्रासादावतंसकरणं चतुर्विधं भवति तद्यथा द्रव्यतः क्षेत्रतः कालतो भावतश्च / ततो गीतार्थो द्रव्यादिषु साधून न संक्लेशयति।। एवं तु निम्मवंति, ते वि अचिरेण सिद्धिपासाया। तेसिं पिइमो उ विही, आहारेयवए होति।। एवं द्रव्यादिषु संक्लेशाकरणतस्ते साधवोऽचिरेण स्तोकेन कालेन सिद्धिप्रासादं निर्मापयन्ति तेषामपि सिद्धिप्रासादनिर्मापकानामाहारयितव्ये अयं वक्ष्यमाणो विधिस्तमेवाह / / अनुमसणस्स सव्वं, जणस्स कुजा दवस्सदो भागं। वायपवियारणट्ठा, छन्भागं कुणइ यं कुञ्जा। अर्द्धमुदरस्य दधितक्रते मनदिसहितस्याशनस्य योग्यं कुर्यात् द्वौभागौ द्रव्यस्य पानीयस्य योग्यौ षष्ठं तु भागं वातप्रविचरणार्थमूनकं कुर्यात् / इयमत्र भावना। उदरस्य षड् भागाः कल्पन्ते तत्र ये भागा अशनस्य द्वौ भागौ पानीयस्य षष्ठो वातप्रविचरणाय / एतच्च साधारणे प्रावृट्काले चत्वारो भागाः / सव्यञ्जनस्याशनस्य पञ्चमः षष्ठो वातप्रविचरणाय / उष्णकाले द्वौ भागावशनस्य सव्यञ्जनस्य त्रयः पानीयस्य षष्ठो वातप्रविचरणायेति। एसो आहाराविही,जह भणितो सव्वभावदंसीहिं। धम्मवसगाय जोगा, जेण न हीयंति तं कुजा।। एष आहारविधिर्यथा सर्वभावदर्शिभिः सर्वज्ञैर्भणिता येन च प्रकारेण धर्मनिमित्ता अवश्यकर्तव्या योगा न हीयन्ते तं कुर्यान्नान्यदिति / व्य०द्वि०५उ01 अथ क्षेत्रावमौदर्यमाह। गामे नगरे तहा य, रायहाणि निगमे य आगरपल्ली। खेडे कव्वडदोणमुह-पट्टणमडंबसंबाहे // 16 // आसमपए विहारे, सन्निवेसे समायघोसे य। थलसेणाखंधारे, सत्थे संवटकोट्टेय / / 17 // कडेसु य रत्थासु य, घरेसु वा एवमित्तियं खित्तं / कप्पइ उ एवमाइ, एवं खित्तेणओ भवे // 18 // तिसृभिर्गाथाभिः कुलकम्। एवमिति अमुना प्रकरण हदथस्थप्रकारेण एतावन्नियतमानं क्षेत्र पर्यदितुंममवर्तते इति एवमादिहशालादिपरिग्रहः / अद्य एतावत्प्रमाणं भिक्षार्थं भ्रमितव्यमिति निर्धारणं क्षेत्रेण अवमौदर्य भवेत् / तदेव भिक्षाभ्रमणक्षेत्रमाह / कुत्र कुत्र भिक्षार्थं साधुर्धमति ग्रामे गुणान् प्रसतीति ग्रामस्तस्मिन् / अथवा कण्टकवाटकावृतो जनानां निवासो गामस्तमिन् ग्रामे / पुनर्नगरे नाऽत्र कराः सन्ति इति नगरं तस्मिन् / तथा राजधान्यां राजा धीयते यस्यां सा राजधानी सस्यां राजधान्यां राजपीठस्थाने निगमे प्रभूवणि निवासे आकरः स्वर्णाधुत्पत्तिस्थानं तस्मिन् आकरे पल्ली वृक्षवंशादिगहनाश्रिता प्रान्तजनस्थानंतस्यांपल्ल्याम्।खेटंधूलिप्रकारपरिक्षिप्तं तस्मिन् खेटे। पुनः खर्वट कुनगरंद्रोणमुखंजलस्थलनिर्गमप्रवेशंतत्भृगुकच्छादिकम्।। पत्तनं तुयत्र सर्वदिग्भ्यो जनाः पतति आगच्छन्ति इति पत्तनम्। अथवा पत्तनं रत्नखानिरिति लक्षणं तदपि द्विविधं जलमध्यवर्ति स्थलमध्यवर्ति च। मटम्बं यस्य सर्वदिक्षु सार्द्धतृतीययोजनान्तमो न स्यात्तत्र। तथा संबाधः प्रभूतचातुर्वर्ण्यनिवासःखटशब्दादारभ्य संबाधशब्दयावद्द्वन्दः समासः कर्तव्यः / खर्वटश्च द्रोणमुखं च पत्तनं च मटम्बं च संबाधश्च खर्वटद्रोणमुखपतनमटम्बसंबाधास्तेषां समाहारः खर्वटद्रोणमुखपत्तनमटम्बसंबाधं तस्मिन् खर्वटद्रोणमुखपत्तनमटम्बसंबाधे एतेषु स्थानेषु इत्यर्थः (16) पुनः कुत्र कुत्र इत्याह / आश्रमपदे तापसाश्रमोपलक्षिते स्थाने विहारे देवगृहे पुनः सन्निवे से यात्राद्यर्थसमागतजनावासे समाजः परिषत् घोषः आभीरपल्ली समाजश्च घोषश्च समाजघोषं तस्मिन् समाजघोष। स्थलं च सेना च स्कन्धावारश्च स्थलसेनास्कन्धावारं तस्मिन् स्थलसेनास्कन्धावारे। तत्र स्थलं उच्चभूमिभागः सेना चतुरङ्गकटकसमूहः स्कन्धावारः कटकोत्तरणनिवासः सार्थक्र याणकभृतां समूहः प्रतीत एव तत्र संवर्गों भयत्रस्तजनसमवायः कोट्टो दुर्गः संवर्तश्च कोट्टश्च संवर्तकोट्ट तस्मिन् संवर्तको?(१७) पुनवटिषु वृत्त्यादिपरिक्षिप्तगृहसमूहेषु रथ्यासुसेरिकासु च गृहेषुप्रसिद्धेषु च एतेषु च स्थानेषु अवमोदर्थ कृतं क्षेत्रतो भवति। अथ पुनः प्रकारान्तरेण क्षेत्रावमोदर्यमाह। पेडा य अद्धपेडा, गोमुत्तियपतंगबीहिया चेव। संवुकावट्टा य, गंतुं पञ्चागमा छट्ठा / / 19 // षड्विधा क्षेत्रावमोदरिका वर्तते पेटा पेटाकारा चतुष्कोणा पेटाकारण गोचर्या कृत्वा अवमोदरीकरणमेवमर्द्धपेटाकारेण गोचरीकरणं गोमूत्रिकाकारेण पतङ्गवीथिका पतङ्गशलभस्तस्य वीथिका उड्डयन पतङ्गवीथिका अनियता निश्चयरहिता शलभोड्डयनसदृशीत्यर्थः / पुनः शम्बूकावर्तः शम्बूकः शङ्खस्तद्धतआवर्तो भ्रमणं यस्यां सा शम्बूकावर्ता साऽपि द्विविधा अभ्यन्तरशम्बूका बहिःशम्बूका च / शङ्खनाभिरूपक्षेत्रे मध्यावहिर्गम्यते सा अभ्यन्तरशम्बूकावर्ता विपरीता बाह्यात् मध्ये आगमनरूपा बहिःशम्बूकावर्ता पञ्चमी / पुनः षष्ठी आयतं गन्तुं प्रत्यागमाज्ज्ञेया आदित एव आयतं सरलं गत्वा यस्यां प्रत्यागमो भवति सा षष्ठी ज्ञेया इत्यर्थः। एतासां भिक्षाचर्याणामपि अवमोदर्यत्वं ज्ञेयं यतो हि अवमोदर्यार्थमेव ईदृक् प्रकारेणैव साधुराहारार्थं भ्रमति तस्मान्नात्र दोषः // 16 // दिवसस्स पोरिसीणं, चउण्हं पिजत्तिओ भवे कालो। एवं चरमाणो खलु, कालोमाणं मुणेयय्वो // 20 // दिवसस्य चतसृणां पौरुषीणं प्रहराणां यावद् घटिकाचतुष्टयादिकोऽभिग्रहविषयः कालो भवति एवममुना प्रकारेण कालेन चरमाण इति गोचर्यां चरतः साधोः खलु निश्चयेन कालावम इति कालेन अवमं कालावमं मन्तव्यः॥ पुनः कालावमोदर्यमेव प्रकारान्तरेणाह / / अहव तइयपोरिसीए, ऊणाए घासमेसंते। चउभागूणाए वा, एवं कालेणओ भवे // 21 // अथवा तृतीयायां पौरुष्यामूनायां किञ्चिद्धीनायां ग्रासमाहारमेषयन् गवेषणां कुर्वन् वा अथवा चतुर्भागन ऊनायां तृतीपौरु

Page Navigation
1 ... 1218 1219 1220 1221 1222 1223 1224