Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1186
________________ उसभ 1178- अभिधानराजेन्द्रः - भाग 2 उसम मयाभ्यां चारुभ्यां चित्रकृद्धयां चञ्चलाभ्यामितस्ततश्चलद्भ्यां कुण्डलाभ्यां विलिख्यमानौ गल्लौ यस्य स तथेति (तएणमित्यादि) यथा शक्रः सौधर्मेन्द्रो निजकपरिवारेण सह तथा भणितव्य ईशानेन्द्रः यावत्पर्युपास्तेइत्यन्तंवाच्य इत्यर्थः। (एवंसव्वे इत्यादि) एवं शक्रन्यायेन सर्वदेवेन्द्रा वैमानिकाः अत एव यावदच्युत इत्युत्तरसूत्रं संवदति / निजकपरिवारेणात्मीयात्मीयसामानिकादिपरिवारेण सहानेतव्या भगवच्छरीगन्तिकं प्रापणीया ग्रन्थवाचकेनेत्यर्थः / ग्रन्थापेक्षया चेदं सूत्रं योजनीयमेवं वैमानिकप्रकारेण यावद्भवनवासिनांदक्षिणोत्तरभवनपतीनामिन्द्रा विंशतिरित्यर्थः / अत्र यावच्छब्दो न गर्भगतसंग्रहसूचकः संग्राह्यपदाभावात् किं तु सजातीयभवनपतिसूचकः वानमन्तराणां व्यन्तराणां षोडशेन्द्राः कालादयः। ननुस्थानाङ्गादिषु द्वात्रिंशद्व्यन्तरेन्द्रा अभिहिताः इह तु कथं षोडश उच्यते मूलभेदभूतास्तुषोडश महर्धिकाः कालादय उपात्तास्तदेवान्तरभेदभूतास्तु षोडश अणपन्नीन्द्रादयोऽल्पर्द्धिकत्वान्नेह विवक्षिताः अस्ति होषाऽपि सूत्रकृत्प्रवृत्तिवैचित्री यदन्यत्र प्रसिद्धा अपि भावाः कुतश्विदाशयविशेषात्स्वसूत्रे सूत्रकारोन निबध्नाति यथा प्रतिवासुदेवाः अन्यत्रावश्यकनियुक्त्यादिषूत्तमपुरुषत्वेन प्रसिद्धा अपि चतुर्थाङ्गे चतुःपञ्चाशत्तमसमवाये नोक्ताः।" भरहेर-वएसुणं वासेसु एगमेगाए उस्सप्पिणीए चउवण्णं 2 उप्पजिंसू 3 तं चउवीसं तित्थयरा वारस चक्कयट्टी णव बलदेवा णव वासुदेवा " इतिपरमुपलक्षणात्तेऽपि ग्राह्याः / ज्योतिष्काणां द्वौ चन्द्रसूर्यो जात्याश्रयणात् व्यक्त्या तु तेऽसंख्याता निजकपरिवाराः सहवर्तिस्वपरिकरा नेतव्याः। ततः शक्रः किं करोतीत्याह (तएणमित्यादि) ततःशक्रो देवेन्द्रो देवराजस्तान् बहून भवनपत्यादीन् देवानेवमवादीत् क्षिप्रमेव निर्विलम्बमेव भो ! देवानांप्रिया ! देवान् स्वस्वामिनोऽनुकूलाचरणेनानुप्रीणन्तीति देवानुप्रिया नन्दनवनात् रसानि स्निग्धानि न तु रूक्षाणि गोशीर्ष नाम्ना वरचन्दनंतस्य काष्ठानिसंहरत प्रापयतसंहृत्य च तिस्रश्चितिका रचयते। एकां भगवतस्तीर्थकरस्य एकां गणधराणामेकामवशेषाणामनगाराणामिति (तएण-मित्यादि) स्पष्टम् / अत्रायमावश्यकवृत्त्याद्युक्तश्चितारचनदिग्विभागः। नन्दनवनानीतचन्दनदारुभिर्भगवतः प्राच्या वृत्तां चितां गणधराणामपाच्यांत्र्यस्तां शेषसाधूनां प्रतीच्या चतुरस्रां सुराश्चारिति। नन्वावश्यकादाविरुवाकूणां द्वितीया चितोक्ता इह तु गणधराणां कथमिति उच्यते / अत्र प्रधानतया गणधराणामुपादानेऽप्युपलक्षणाद् गणधरप्रभृतीनामिक्ष्वाकूणां द्वितीया चिता ज्ञेयेतिनकाऽप्याशङ्का। जं० 2 वक्ष०ा अत्रान्तरे च देवाः सर्व एवाष्टापदमागताश्चितिकाकृतिरिति॥ते तिनश्चिताः वृत्तत्र्यनचतुम्नाकृतीः कृतवन्त इति / एका पूर्वेण अपरां दक्षिणेन तृतीयामपरेणेति। तत्र पूर्वा तीर्थकृतः दक्षिणा इक्ष्वाकूणामपरा शेषाणामिति / ततोऽग्रिकुमारा वदनैः खल्वग्निं प्रक्षिप्तवन्तः एत तव निबन्धनाल्लोके" अग्निमुखा वैदेवा" इति प्रसिद्धम् / वायुकुमारास्तु वातमुक्तवन्त इति। मांसशोणिते च ध्यामिते सति मेघकुमाराः सुरभिणा क्षीरोदजलेन निर्वापितवन्तः (स कथेति) सकथा हनुमोच्यते / तत्र दक्षिणां हनुमां भगवतः संबन्धिनीं शक्रो जग्राह वामामीशानः अधरख्यदक्षिणां पुनश्चरमः अधस्त्योत्तरांतुबलिः / अवशेषास्तुत्रिदेशाः / शेषाङ्गानि गृहीतवन्तः नरेश्वरादयस्तु भस्म गृहीतवन्तः। शेषालोकास्तु तद्भस्मनापुण्डकाणि चक्रुः ततएव च प्रसद्धिमप्युगतानि स्तूपानि जिनगृह चेति। भरतो भगवन्तमुद्दिश्य वर्द्धकिरत्नेन योजनायाम त्रिगव्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान् निजवर्णप्रमाणयुक्ताश्चतुर्विंशतिजीवाभिगमोक्तपरिवारयुक्तास्तीर्थकरप्रतिमास्तथा भ्रातृशतप्रतिमाः आत्मप्रतिमांच स्तूपशतंच मा कश्चिदाक्रमणं करिष्यतीतितत्रैकं भगवतः शेषाण्येकोनशतस्य भ्रातृणामिति। तथा लोहमयान्यन्त्रपुरुषांस्तद्द्वारपालांश्चकार दण्डरत्नेनाष्टापदंच सर्वत्र छिन्नवान्योजने योजनेऽष्टौ पदानि कृतवान् / सगरसुतैस्तु वंशानुरागाद्यथा परिखां कृत्वा गङ्गाऽवतारिता तथा ग्रन्थान्तरतो विज्ञेयमितिायाचकास्तेनाहिताग्रयः इत्यस्यव्याख्या देवैर्भगवत्सकथादौ गृहीते सतिश्रावका देवानतिशयभक्त्या याचितवन्तः देवा अपि तेषां प्रचुरत्यान्महता यत्नेन याचनाभिहता आहुः। अहो याचका इति / तत एव याचका रूढाः ततः अग्निं गृहीत्वा स्थापितवन्तस्तेन करणेनाहिताग्नयः इति तत एव च प्रसिद्धास्तेषां चाग्नीनां परस्परतः कुण्डसक्रान्तावयं विधिर्भगवतः संबन्धिभूतः सर्वकुण्डेषु सञ्चरति / इक्ष्वाकुकुण्डाग्निस्तु शेषकुण्डाग्नौ सञ्चरति / न भगवत्कुण्डानाविति शेषानगारकुण्डानेस्तु नान्यत्र संक्रम इति गाथार्थः / आ० म०प्र०। (30) ततश्चिताऽनन्तरं शक्रः किं करोतीत्याह। तए णं से सके देविंदे देवराया तित्थगरसरीरंग खीरोदगेणं पहाणेत्ति ण्हणेतित्ता सरसेणं गोसीसवरचंदणेणं अणुलिंपई अणुलिंपइत्ता हंसलक्खणं पडसाडयं णिअंसेइ णिअंसे इत्ता सव्वालंकारविभूसिअं करेंति। तए णं ते भवणवई जाव वेमाणिआ गणहरसरीरगाइं अणगारसरीरगाइं पि खीरोदगेणं ण्हावेंति बहार्वेतित्ता सरसेणं गोसीसवरचंदणेणं अणुलिंपति अणुलिंपतित्ता अह ताई दिव्वाइंदेवदूसजुअलाइंणिअंसंति णिसंतित्तासव्वालंकारविभूसिआइं करेंति तएणं से सक्के देविंदे देवराया ते बहवे भवणवई जाव वेमाणिए देवे एवं वयासी। खिप्पामेव भो देवाणुप्पिआ! ईहामिगउसभतुरयजाववणलयभत्तिचि-त्ताओ तओ सिविआओ विउद्वहइ एमं भगवओ तित्थगरस्स एगं मणहराणं एगं अवसेसाणं अणगाराणं / तए णं बहवे भवणवई जाव वेमाणिआ तओ सिविआओ विउव्वंति एगं भगवओ तित्थगरस्स एगं गणहराणं एगं अवसेसाणं अणगाराणं तए णं से सक्के देविंदे देवराया विमाणे णिराणंदे अंसुपुण्णणयणे भगवओ तित्थगरस्स विणट्ठजम्मजरामरणस्स सरीरगं सीअं आरहेइ आरुहेइत्ता चिइगाए ठवेइतएणं ते बहवे भवणवई जाव वेमाणिआ देवा गणहराणं अणगाराणं य विणट्ठजम्मजरामरणाणं सरीरगाइं सीअं आरुति आरुहें तित्ता चिइगाए ठवेति / तए णं से सके देविंदे देवराया अग्गिकुमारे देवे सदावेइ सद्दावे इत्ता एवं वयासी खिप्पामेव भो देवाणु प्पिआ ! तित्थगरचिइगाए जाव अणगारचिइगाए अ अगणिकायं विउवहइ विउव्वहइत्ता एअमाणत्ति पचप्पिणह। तए णं ते अग्गिकु मारा देवा विमणा णिराणंदा अंसुपुण्णणयणा

Loading...

Page Navigation
1 ... 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224