Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उसुयार 1187- अभिधानराजेन्द्रः - भाग 2 उसुयार जातिर्जन्म जराविश्रसा मृत्युः प्राणत्यागलक्षणस्तेभ्यो भयं सा-ध्वसं तेनाभिभूतौ बाधितौ जातिजरामृत्युभयाभिभूतौ पाठान्तरतश्च जातिजरामृत्युभयाभिभूते सत्यर्थात्संसारिजने बहिः संसाराद्विहारः स चार्थान्मोक्षस्तस्मिन्नभिनिविष्टं वधाग्रहं चित्तमन्तःकरणं ययोस्तौ तथा संसारश्चक्रमिव चक्रं भ्रमणोपलक्षितत्वात्संसारचक्रं तस्य विमोक्षणार्थ - परित्यागनिमित्तं दृष्ट्वा निरीक्ष्य साधूनिति शेषः यद्वा दृष्ट्वेति प्रेक्ष्य मुक्तिपरिपन्थिनोऽमी कामगुणा इति पर्यालोच्य तावनन्तरोक्तो (कामगुणेत्ति) सुब्ब्यत्ययात् कामगुणेभ्यः शब्दादिभ्यो विषयसप्तमी वा विरक्तौ प्रामुखीभूतौ प्रियौ वल्लभौ तौ चतौ पुत्रावेव पुत्रकौ च प्रियपुत्रौ द्वावपि नैक एव इत्यपि शब्दार्थो माहनस्य ब्राह्मणस्य स्वकर्मशीलस्य यजनयाजनादिस्वकीयानुष्ठाननिरतस्य पुराहितस्य शान्तिकर्तुः (सुमरितुत्ति) स्मृत्वा (पाराणयत्ति) सूत्रत्वात् पुराणमेव पौराणिकी चिरंतनी तत्रेति सन्निवेशे कुमारभावे वा वर्तमानाविति शेषः जातिजन्म तथा (सुचिण्णंति) सुचीर्ण सुचरितं वा निदानादिनाऽनुपहतत्वात् तपोऽनशनादि प्राकृतत्वाद्विन्दुलोपः संयमं च तपःसंयममिति समाहारद्वन्द्वो वाऽत्र कामगुणविरक्तिरेव जिनेन्द्रमार्गप्रतिपत्तिरिति सूत्रद्वयार्थः। ततस्तौ किमका मित्याह / / ते कामभोगेसु असज्जमाणा, माणुस्तएसं जे यावि दिव्वा। मोक्खाभिकंखी अमिजायसद्धा,तायं उवागम्म इमं उदाहु॥६॥ तौ पुरोहितपुत्रौ कामभोगेषूक्तरूपेषु (असज्जमाणत्ति) असंयतौ सङ्गमकुर्वन्तौ मानुष्यकेषुमनुजसंबन्धिषु ये चापि दिव्या देवसंब-न्धिनः कामभोगास्तेषु चेति प्रक्रमः मोक्षाभिकाङ्गिणौ मुक्त्यभिलाषिणावभिजातश्रद्धावुत्पन्नतत्वरुची तातं पितरमुपागम्येदं वक्ष्यमाणं (उदाहुत्ति) उदाहरतांतयोर्हि साधुदर्शनान्तरं क्व अस्माभिरित्थंभूतानि रूपाणि पुराऽपि दृष्टानीति चिन्तयतोर्जातिस्मरणमुत्पन्नं ततो जातवेराग्यौ प्रव्रज्याभिमुखावात्ममुत्कलीकरणाय तयोश्च प्रतिबोधोत्पादनाय वक्ष्यमाणमुक्तवन्ताविति सूत्रार्थः / यच्च तावुक्तवन्तौ तदाह। असामयं दट्ठ इमं बिहारं, बहु अंतरायं ण य दीहमाउं। तम्हा गिहम्मी न रहं लहामो, आमंतयामो चरिसामो मोणं // अशास्वतमनित्यं दृष्ट्वेमं प्रत्यक्षं विहरणं विहारं मनुष्यत्वेनावस्थानामत्यर्थः / भण्यते हि (भोगाई भुंजमाणे विहरतित्ति) किमित्येवमत आह / बहवः प्रभूता अन्तराया विघ्ना व्याध्यादयो यस्य तद्ब्रहन्तरायं बह्वन्तरायमपि दीर्घत्वावस्थायि स्यादित्याह 1 न च नैव दीर्घ दीर्घकालस्थित्यायुर्जीवितं संप्रति पल्योपमायुष्कताया अप्यभावात् यत एवं सर्वमनित्यं तस्मात् (गिहम्मित्ति) गृहे वेश्मनि न रतिधृति (लभामोत्ति)लभावहे प्राष्भुवः अतश्चामन्त्रयावः पृच्छाव आवां यथा चरिस्यावः आसेविप्याबहे मौनं मुनिभावं संयममिति सूत्रार्थः। एवं च ताभ्यामुक्ते। अह तायगो तत्थ मुणीण तेसिं, तवस्स वाघायकर वयासी। इमं वयं वेयविदो वयंति, जहाण होई अमुयाण लोगो // 8 // अहिज्जवेएपरिविस्स विप्पे, पुत्ते परिठ्ठप्प गिहंसि जाया। भुत्ताण भोगे सहइत्थियाहिं, आरणगा होहिमुणी पसत्था / अथानन्तरं तायते सन्तानं कराति पालयति सर्वापदय इति तातः स एव तातकस्तव तस्मिन्निवेशेऽवसर वा मुन्योर्भावतः प्रतिपन्नमुनिभावयोः तयोः कुमारयोस्तपसोऽनशनादेरुपलक्षणत्वा च्छेषसम्मानुष्ठानस्य च व्याघातकरं वाधाविषयिवचनमिति शेषः (घयासित्ति) अवादीत् यदवादीत्तदाहेमां वाचं वेदविदो वदन्ति प्रतिपादयन्ति यथा न भवति जायते असुतानामविद्यमानपुत्राणां लोकः तं विना पिण्डप्रदानाद्यभावे गत्याद्यभावात्तथा वेदयधः अतपत्यस्य लोका नसन्ति तथाऽन्यैरप्युक्तं "पुत्रेण जायते लोक "इत्येषा वैदिकी श्रुतिः। "अथ पुत्रस्यपुत्रेण, स्वर्गलोके महीयते" तथा" अपुत्रस्य गति स्ति, स्वर्गा नैव च नेव च / गहिधर्ममनुष्ठाय,तेन स्वर्गे गमिष्यति"यत एवं तस्मादधीत्य पठित्वा वेदानृग्वेदादीन् परिवेश्य भोजयित्या विप्रान् ब्राह्मणान् तथा पुत्रान् प्रतिष्ठाप्य कलाकलत्रग्रहणादिना गृहस्थधर्मे निवेश्य कीदृशः पुत्रान् गृहे जातान्न तु गृहीतप्रतिपत्रकादीत्पाठान्तरे च पुत्रान्परिष्ठाप्य स्वामित्वे निवे-श्य गृहे (जायत्ति) गृहे जातौ पुत्रौ भुक्त्या णमिति वाक्यालङ्कारे भोगान् शब्दादीन सह स्त्रीभिनीरीभिस्ततोऽरण्ये भवौ आरण्यौ"आरण्याण्णो वक्तव्य इति ण प्रत्ययः " आरण्यावेवारण्यकावा-रण्यकव्रतधारिणौ (होहित्ति) भवतः संपद्येथां युवां मुनी तपस्विनौ प्रशस्तौलाध्यावित्थमेव ब्रह्मचर्याद्याश्रमव्यवस्थानादुक्तं हि "ब्रह्मचारी गृहस्थश्च, वाणप्रस्था यतिस्तथेति" इह चाधीत्य वेदानित्यनेन ब्रह्मचर्याश्रम उक्तः परिवेश्येत्यादिना च गृहाश्रम आरण्यकावित्यनेनच वाणप्रस्थाश्रमः मुनिग्रहणेन च यत्याश्रम इति सूत्र-द्वयार्थः / ___ इत्थं तेनोक्तौ कुमारको यदकार्टा तदाह / सो अग्गिणा आयगुणिंधणेणं, मोहानिला पज्जलणाहिएणं / संतत्तभावं परितप्पमाणं, लोलुप्पमाणं बहुहा बहुं च / / 10 / / पुरोहियं तक्कमसो गुणंतं,णिमंतयंतं च सुए धणेणं / जहक्कम कामगुणेसू चेव, कुमारगा ते पसमिक्ख चक्कं // 11 // वेया अहाया ण हवंति ताणं, मुत्तादिया णिति तमं तमेणं। जाया य पुत्ता ण भवंति ताणं, को णाम ते अणुमन्नेज एयं // 12 // खणमत्तसोक्खा बहुकालदुक्खा, पकामदुक्खा आणकामपोक्खा। संसारमोक्खस्स विवक्खभूया, खाणी अणत्थाण उ काममोगा // 13 // परिय्वयंते अणियत्तकामे, अहो य राओ परितप्पमाणे / अन्नप्पमत्ते धणमेसमाणे, पप्पेति मचुं पुरिसो जरं च // 14 // इमं च मे अस्थि इमं च नत्थि, इमं च मे किब इमं अकिचं। तं एवमेवं लोलुप्पमाणे, हरा हरति त्ति कहं पमाए / / 15 / / सुतवियोगसंभावनाजनितं मनोदुःखमिह शोकः स चाग्निरिव शोकाग्निस्तेन आत्मनो गुणा आत्मगुणाः कर्मक्षयोपशमादिसमुद्भूताः सम्यग्दर्शनादयस्ते इन्धनं दाह्यतया यस्य स तथा त्नादि कालसहचरितत्वेन रागादयो वात्मगुणास्ते इन्धनमुद्दीपकतया यस्य स तथा तेन / मोहो मूढता अज्ञानामति यावत् सोऽनिल इव मोहानिलस्तस्यादधिकं महानगरदाहादिभ्योऽप्यनर्गल प्रज्वलनं प्रकर्षेण दीपनमस्येति अधिक प्रज्वलनो यद्वा प्रज्वलने -

Page Navigation
1 ... 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224