Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उसुयार 1189 - अभिधानराजेन्द्रः - भाग 2 उसुयार प्राप्तौ प्रत्यक्षत उपलभ्यत इति नास्ति शशिविषाणवदिति भाव इति / सूत्रार्थः / कुमारकावाहतुः। णोइंदियग्गिज्झ अमुत्तभावा, अमुत्तभावो विय होइ नियो। अब्भत्थहेउं नियतस्स बंधो, संसारहेउं च वयंति बंधं / / 16 // नो इति निषेधे इन्द्रियैः श्रोत्रादिभिग्राह्यः सत्व इति प्रक्रमात्सत्वादयमिन्द्रियग्राह्य इत्याशक्याह / अमूर्तभावादिन्द्रियग्राह्यरूपाद्यभावात् अयमाशयः यदिन्द्रियग्राह्य सन्नोपलभ्यते तदसदिति निश्चीयते यथा प्रदेशविशेष घटो यत्तु तद्ग्राह्यमेव न भवति न तस्यानुपलम्भेऽप्यभावनिश्चयः पिशाचादिवत्तद्विषयानुपलम्भस्य संशयहेतुत्वात् / न च साधकप्रमाणाभावात्संशयविषयतैवास्त्विति वाच्यं तत्साधकस्यानुमानस्य सद्भावात् तथा ह्यस्त्यात्मा अहं पश्यामि जिवामीत्याद्यनुगत्य प्रत्ययान्यथानुपपत्तेरात्मा भावे हीन्द्रियाण्येव दृष्टानि स्युस्तेषु च परस्परं भिन्नेष्वहं पश्यामि जिव्रामी-त्यादिरनुगतोऽहमिति प्रत्ययोऽनेकेष्विव प्रतिपन्नेषु न स्यात् / उक्तं हि।" अहं शृणोमि पश्यामि, जिघ्राम्यास्वादयामि च / चेतयाम्यध्यवस्यामि, बुध्यामीत्येवमस्तिसः "॥१॥वृद्धास्तु व्याचक्षते अमूर्तत्वान्नोइन्द्रियग्राह्यो नो इन्द्रियं च मनो मनसश्चात्मैवातः स्वप्रत्यक्ष एवायमात्मा कस्मादुच्यते त्रैकाल्यकार्यव्यपदेशत्वात्तद्यथा // कृतवानहं करोम्यह करिष्याम्यहम् , उक्तवानहं ब्रवीम्यहं वक्ष्याम्यहं, ज्ञातवानहं जानेऽज्ञास्येऽहमिति / योऽयं त्रिकालकार्यव्यपदेशहेतुरहं प्रत्ययो नायमानुमानिको नचागमिकः किं तर्हि प्रत्यक्षकृत एवमने नैव आत्मानं प्रतिपद्यस्वनायमनात्मके घटादादुपलभ्यत इति। तथा अमूर्तभावादपि च भवति नित्यः तथा हि यदव्यत्व सत्यमूर्त तन्नित्यं यथा व्योम अमूर्तश्चायं द्रव्यत्वे सत्यनेन विनाशानवस्थाने प्रत्युक्तो नचैवममूर्तत्वादेव तस्य बन्धासंभवे वा सर्वस्य सर्वदा तत्प्रसङ्ग इति वाच्यं यतः " अज्झप्पहेउं निययस्स बंधे "अध्यात्मशब्देन आत्मस्था मिथ्यात्वादय इहोच्यन्ते ततस्तद्धेतुस्तन्निमित्तः परस्थहेतुकृतत्वेऽतिप्रसङ्गादिदोषसंभवान्नियतो निश्चिता न संदिग्धो जगद्वेचित्र्यान्यथानुपपत्तेरस्य जन्तोर्बन्धः कर्मभिः संश्लेषो यथा ह्यमूर्तस्यापि व्योम्नो मूर्तेरपि घटादिभिः संबन्ध एवम-स्याप्यमूर्तेस्यापि मूर्तेरपि कर्मभिरसौ न विरुध्यते। तथा चाह"अरूपं हि यथाकाशं, रूपद्रव्यादिभाजनम्" तथा रूपी जीवोऽपि कर्मादिभाजनमिति मिथ्यात्वादिहेतुत्वाच न सर्वदा तत्प्रसङ्ग इत्यदोषः। एवं हि येषामेव मिथ्यात्वादितद्धेतुसंभवस्तेषामेवासौ न तु तद्विरहितानां सिद्धानामपि / तथा संसारश्चतुर्गतिपर्यटनरूपस्तद्धेतुं च तत्कारणं वदन्ति बन्धं कर्मबन्धनम् / एतेतामूर्तत्वाद् व्योम्न इव निष्क्रियत्वमपि निराकृतमिति सूत्रार्थः / यत एवमस्त्यात्मा नित्योऽत एव च भवान्तरयायो तस्य च बन्धो बन्धादेव मोक्ष इत्यतः। जहा वयं घम्ममयाणमाणा, पावं पुरा कम्ममकासि माहा। ओरुज्झमाणा परिरक्खयंता, तं नेव मुजो वि समायरामो // यथा येन प्रकारेण वयं धर्म सम्यग्दर्शनादिकमजानाना अनुवबुध्यमाना पापं पापहेतुं पुरा पूर्वं कर्म क्रियाम् (अकासित्ति) अकार्म कृतवन्तो मोहात्तत्वानवबोधात् अवरुध्यमाना गृहानिर्गममलभमानाः / परिरक्षमाणा अनुजीविभिरनुपाल्यमानाः (तदिति) पापकर्म (नेवत्ति) | नैव भूयोऽपि पुनरपि समाचरामोऽनुतिष्ठामो यतः संप्रत्युपलब्धमेवास्माभिर्वस्तुतत्वमिति भावः / सर्वत्र च / अस्मदोद्वयोश्च 1 / 2 / 56 / इति द्वित्वेऽपि बहुवचनमिति सूत्रार्थः॥ अन्माइयम्मिा लोगम्मि, सव्वओ परियारिए। अमोहाहिं पडतीहिं, गिर्हसि न रइं लभे // 21 // अभ्याहते आभिमुख्येन पीडिते लोके जने सर्वतः सासु दिक्षु परिवारिते परिवेष्टितेऽमोघाभिरबन्ध्यप्रहरणोपमाभिः पतन्नीभिरागच्छन्तीभिः (गिहंसित्ति) गृहं तस्य चोपलक्षणत्वात् गृहवासे न रतिमाशक्तिं लभामिलभावहे। यथा हि वागुरया वरिवेष्टितो मृगोऽमोधैश्च प्रहरणैयधेिनाभ्याहतो न रतिं लभते एवमावामपीति सूत्रार्थः / भृगुराह। केण अब्भाहतो लोगो, केण वा परियारिओ। को वा अमोहो वात्ता, जाया चिंतावरो हुमि / / 22 / / केन व्याधतुल्येनाभ्याहतो लोकः केन वा वागुरास्थानीयेन परिवारितः का वा अमोघा अमोधप्रहरणापमा अभ्याहतिः क्रियां प्रति करणतयोक्ता जातौ ! पुत्रौ ! चिन्तापगे (हुमिति) भवामि ततो ममावेद्यतामयमर्थ इति भाव इति सूत्रार्थः। तावाहतुः मच्चुणाब्भाहतो लोगो, जराए परियारिओ। अमोहा रयणी वोत्ता, एवं ताव विजाणह / / 23 // मृत्युनावृतान्तेनाभ्याहतो लोकरतस्य सर्वत्राप्रतिहतप्रसरत्वात्वात् जरया परिवारितः तस्या एव तदभिघातयोग्यतापादनपटीयस्त्वात् (अमोघारयण्णित्ति) रजन्य उक्ता दिवसाविनाभावित्वात्तासां दिवसाश्च तत्पतने ह्यवश्यंभावीजनस्याभिघातः एवं तात! विजानीतावगच्छतेति सूत्रार्थः / किं च। जाजा वनइ रयणी, ण सा पडि नियत्तई। अधम्म कुणमाणस्स, अफला होति राइओ॥ 24 // जा जा वच्चइ रयणी,ण सा पडिणियत्तइ। धम्म च कुणमाणस्स, सफला जति राइओ॥ 25 // या या (वचइत्ति) व्रजति रजनी रात्रिरुपलक्षणत्वाद्दिनं च न सा प्रतिनिवर्तते पुनरागच्छतितदागमने हिसर्वदा सैवैका जन्मरात्रिः स्यात्ततो न द्वितीया मरणरात्रिः कदाचित्प्रादुःस्यात्ताश्वधर्म्म कुर्वतो जन्तोरिति गम्यते अपला सन्ति रात्रयोऽधम्मे निबन्धनं च गृहस्थतेत्यायुषोऽनित्यत्वादधर्मकरणे तस्य निष्फलत्वात्तत्परित्याग एव श्रेयानिति भावः / इत्थं व्यतिरेकद्वारेण प्रव्रज्याप्रतिपत्तिहेतुत्वमभिधाय तमेवान्वयमुखेनाह। (जाजेत्यादि) पूर्ववत नवरं (धम्मंचत्ति) चशब्दः पुनरर्थे धर्म पुनः कुर्चत सफला धम्मलक्षणफलो-पार्जनतो न च व्रतप्रतिपत्तिं विनाधर्म्म इत्यतो व्रतं प्रतिपत्स्यावहि इत्यभिप्राय इति सूत्रद्वयार्थः / इत्थं कुमारवचनादाविर्भूतसम्यक्त्वस्तद्वचनमेव पुरस्कुर्वन् भृगुराह।। एगओ संवसित्ताणं, दुहओ सम्मत्तसंजुया। पच्छा जाया गमिस्सामो, मिक्खमाणा कुले कुले // 26 / / एकत एक स्मिन् स्थाने सडुष्य सहे वो सित्वा (दुहउत्ति) द्वय

Page Navigation
1 ... 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224