Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1185
________________ उसम 1177 - अभिधानराजेन्द्रः - भाग 2 उसभ रसरीरणं तिक्खुत्तो आयाहीणं पयाहीणं करेइ करेइत्ता णचासणे णाइदूरे सुस्सूसमाणे जाव पजुवासइ तेणं कालेणं तेणं समएणं इसाणे देविंदे देवराया उत्तरडलोगाहिवई अट्ठावीसविमाणसयसहस्साहिवई सूलपाणी वसहवाहणे सुरिंदे अयरं वरवत्थधरे जाव विउलाई भोगभोगाई मुंजमाणे विहरइ / तएणं तस्स ईसाणस्स देविंदस्स देवरण्णो आसणे चलइ / तएणं से ईसाणे जाव देवराया आसणं चलिअं पासइ पासइत्ता ओहिं पउंजइ पउंजइत्ता भगवं तित्थगरं ओहिणा आमोए आभोएता | जहा सक्के निअगपरिवारेणं आणेअव्वा जाव पज्जुवासइ / एवं सवे देविंदा जाव अचुए णिअगपरिवारेणं आणेअव्वो एवं जाव भवणवासीणं इंदा वाणमंतराणं सोलसजोइसिआणं दोणि निअगपरिवारा अव्वा / तएणं सक्के देविंदे देवराया ते बहवे भवणवइवाणमंतरजोइसवेमाणिए देवे एवं वयासी खिप्पामेव भो देवाणुप्पिआ णंदणवणाओ सरसाई गोसीसवरचंदणकट्ठाई साहरइ साहरइत्ता तओ चिइगाइओ रएह एग भगवओ तित्थगरस्स एगं गणधराणं एगं अवसेसाणं अणगाराणं तएणं ते भवणवइ जाव वेमाणिया देवा णंदणवणाओ सरसाइं गोसीसवरचंदणकट्ठाइं साहरंति साहरंतित्ता तओ चिइगाओ रएहति एगं भगवओ तित्थगरस्स एगं गणहराणं अवसेसाणं अणगाराणं से / सक्के देविंदे देवराया आभिओगे देवे सद्दावेइ सद्दावेइत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिआ खीरोदगसमुद्दाओ खीरोदगं साहरत्ति तएणं ते आमिओगा देवा खीरोदगं साहरंति। (जं समयं चणमित्यादि) यस्मिन् समये सप्तम्यर्थे द्वितीया एवं तच्छन्दवाक्येऽपि अवधिना ज्ञानेनाभोगयति उपयुनक्ति शेषं सुगममुपयुज्य एवमवादीत् किमित्याह। परिनिर्वृतः खलुरिति वाक्या-लङ्कारे जम्बूद्वीपे भारत वर्षे ऋषभोऽर्हन् कौशलिकस्तत्तस्माद्धेतोः जीतं कल्पः आचार एतद्वक्ष्यमाणं वर्तते अतीतप्रत्युत्पन्नानागता-नामतीतवर्तमानानागतानां शक्राणामासनविशेषाधिष्ठातॄणां देवानां मध्ये इन्द्राणां परमैश्वर्ययुक्तानां देवेषु राज्ञां कान्त्यादिगुणैरधिकं राजमानानां तीर्थकराणां परिनिर्वाणमहिमां कर्तुं तगच्छामि। णमिति प्राग्वत् अहमपि भगवतस्तीर्थकरस्य परिनिर्वाणमहिमां करोमीति कृत्वा भगवन्तं निवृतं वन्दते स्तुति करोति नमस्यतिप्रणमति। यच जीवरहितमपि तीर्थकरशरीरमिन्द्रवन्यं तदिन्द्रस्य सम्यग्दृष्टित्वेन नामस्थापनाद्रव्यभावार्हता वन्दनीयत्वेन श्रद्धानादिति तत्वम् / वन्दित्वा नत्वा च किं चक्रे इत्याह (चउरासीई इत्यादि) चतुरशीत्या सामानिकानां प्रभुत्वमन्तरेण वपुर्विभवद्युतिस्थित्यादिभिः शक्र तुल्यानां सहस्रेस्त्रयस्त्रिंशता त्रयस्त्रिंशकैर्गुरुस्थानीयै-र्देवैश्चतुर्भिर्लोकपालैः सोमयमवरुणकुवेरसंज्ञैः यावत्पदात्" अट्टहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणिआहिवईहिंति " अत्र व्याख्या अग्रमहिप्योऽष्टौ पद्या 1 शिखा 2 शची 3 अञ्जू 4 अमला 5 अप्सरा 6 नवमिका 7 रोहिणी 8 एताभिः षोडशसहस्रदेवदेवीपरिवारयुताभिः तिसृभिः पर्वद्भिर्बाह्यमध्याभ्यन्तररूपाभिः सप्तभिरनीकैहय 1 गज 2 रथ 3 सुभट 4 वृषभ 5 गन्धर्व 6 नाट्य 7 रूपैः सप्तभिरनीकानामधिपतिभिः चतसृभिश्चतुरशीतिभिश्चतुर्दिशं प्रत्येकं चतुरशीतिसहस्राङ्गरक्षकसद्भा-वात् षट्त्रिंशत् सहस्राधिकलक्षत्रयप्रमितैरङ्गरक्षकदेवसहस्रैरन्यैश्च बहुभिः सौ धर्मकल्पवासिभिर्देवैर्देवीभिश्च सार्द्ध सपरिवृतस्तया देव-जनप्रसिद्धया उत्कृष्टया प्रशस्तविहायोगतिषूत्कृष्टतमत्वात् यावत्पदात् " तुरिआए चवलाए चंडाए जयणाए उद्धआए सिग्घाए दिव्वाए देवगईए विईवयमाणे विईवयमाणेत्ति" अत्र व्याख्या त्वरितया मानसौत्सुक्यात् चपलया कायतः चण्डया क्रोधाविष्टयेव भीमसंवेदनात्। जवनया परमोत्कृष्टवेगत्वात्। अत्र च समयप्रसिद्धाश्चण्डा-दिगतयो न ग्राह्याः तासां प्रतिक्रम संख्यातयोजनप्रमाणक्षेत्रातिक्रमणात् तेनैतानि पदानि देवगतिविशेषणतया योज्यानि देवास्तु तथा भवस्वभावादचिन्त्यसामर्थ्यतोऽन्यन्तशीघ्रा एव चलन्तीति अन्यथा जिनजन्मादिषु महिमानिमित्तं तत्रैव झटित्येवात्यन्तदूरकल्पादिभ्यः सुराः कथमागच्छेयुरिति / उद्धतया उद्धतस्य दिगन्तव्यापिनो रजस इव या गतिः सा तया अत एव निरन्तर शीघ्रत्वयोगाच्छीघ्रया दिव्यया देवोचितया देवगत्या व्यतिव्रजन्व्यतिव्रजन् संभ्रमे द्विवचनं तिर्यगसंख्येयानांद्वीपसमुद्राणां मध्यं मध्येन मध्यभागेन यत्रैवाष्टापदः पर्वतः यत्रैव भगवतस्तीर्थकरस्य शरीरकं तत्रैवोपागच्छति। अत्र सर्वत्रातीतनिर्देशे कर्तव्ये वर्तमाननिर्देशस्त्रिकालभाविष्वपि तीर्थकरेष्वेतन्न्यायप्रदर्शनार्थ इति न हि निर्हेतुका ग्रन्थकाराणां प्रवृत्तिरिति। उपागत्य च तत्र यत् करोति तदाह (उ-वागचिछत्ताइत्यादि) उपागत्य विमनाः शोकाकुलमनाः अश्रुपूर्णनयनस्तीर्थकरशरीरकं त्रिःकृ त्वः आदक्षिणप्रदक्षिणं करोतीति प्राग्वत्। नात्यासन्ने नातिदूरे शुश्रूषन्निव तस्मिन्नप्यवसरे भक्त्याविष्टतया भगवद्ववचनश्रवणेच्छाया अनिवृत्तेर्यावत् पदात् ' णमंसमाण अभिमुहे विणएणं पंजलिउडे पज्जवासइत्ति " परिग्रहः / अत्र व्याख्या नमस्यन् पञ्चाङ्गप्रमाणादिना अभि भगवन्तं लक्ष्मीकृत्य मुखं यस्य स तथा। विनयेनान्तरबहुमानेन प्राञ्जलीकृत इति प्राग्वत् / पर्यु-पास्ते सेवते इति। अथ द्वितीयेन्द्रवक्तव्यतामाह (तेणं कालेणमित्यादि) सर्व स्पष्ट नवरम् अरजांसि निर्मलानियान्यम्बरवस्त्राणि स्वच्छतया आकाशकल्पानि वसनानि धरतीति / यावत् करणात्" आलइअमालमउड़े णव हेमचारुचित्तचंचलकुंडलविहिज्जमाणगल्ले महिड्डीए महज्जुईए महाबले महावसे महाणुभावे महासुक्खे भासुरर्वोदीपलंबवणमालधरे ईसाणकप्पे ईसाणवडेंसए विमाणे सुहम्माए सभाए ईसाणं सि सिंहासणंसि से णं अट्ठावीसाए विमाणावाससयसाहस्साणं असीईए सामाणिअसाहस्सीणं तायत्तीसाए तायतीसगाणं चउण्णं लोगपालाणं अट्ठण्हं अग्गमहिसीणं सपरिवाराणं तिण्ह परिसाणं सत्तण्हं अणीआणं सत्तण्ह अणीआहिवईणं चउण्हं असीईणं आयरक्खदेवसाहस्सीणं अण्णेसिंच ईसाणकप्पवासीणं देवाणं देवीण य आहेवचं पोरेवचं सामित्तं भवृित्तं महत्तरगत्तं आणा ईसरसेणवचं कारेमाणे पालेमाणे महया हयनदृगीयवाई अतंतीतलतालतुडिअघणमुअंगपड्पहडवाइअरवेण इति" संग्रहः / सर्वं स्पष्टनवरम् आलिङ्गिती यथास्थानं स्थापितौ मालामुकुटौ येन स तथा। नवाभ्यासिव हेम

Loading...

Page Navigation
1 ... 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224