Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1157
________________ उसभ 1146 - अभिधानराजेन्द्रः - भाग 2 उसभ नाभिस्स णं कुलगरस्स मरुदेवाए भारियाए कुच्छंसि एत्थ णं उसहे णामं अरहा कोसलिए पढमराया पढमजिणे पढमकेवली पढमतित्थंकरे पढमधम्मवरचकवट्टी समुप्पजिजेजा।। नाम्मा कोशलायामयोध्यायां भवः कौशलिकः भाविनि भूतपदुपचार इति न्यायादेतद्विशषणम् अयोध्यास्थापनाया ऋषभदेव राज्यस्थापनासमये कृतवात् तद्व्यक्तिस्तु भरतक्षेत्रनामान्वर्थकथनावसरे / "धणवइमनिनिम्माया" एतत्सूत्रव्याख्यायां दर्शयिष्यते / अर्हन्तश्च पार्श्वनाथादय इतः केचिदनङ्गीकृतराजधर्मकाः अपि स्युरित्यसौ केन। क्रमेणाहन्नभूदित्याह प्रथमो राजाइहावसर्पिण्यां नाभिकुलकरादियुग्मिमनुजः शक्रेण च प्रथममभिषिक्तत्वात्। प्रथमजिनः प्रथमो रागादीनां जेता। यद्वा प्रथमो मनःपर्यवज्ञानात्राज्यत्यागादनन्तरं द्रव्यतो भावतश्च साधुववर्तित्येन अत्रावसर्पिण्यामस्यैव भगवतः प्रथमस्तद्भवनात् जिनत्वं चावधिमनःपर्यवकेवलज्ञानिनांस्थानाङ्गे सुप्रसिद्धम्। अवधिजिनत्वेऽनुव्यागयायमानेऽक्रमबद्धसूत्रमिति केवलिजिनत्वे चोत्तरग्रन्थेन सह पौनरुक्तयमिति व्याख्यानासङ्गति / श्रोतृणां प्रतिज्ञा तेन प्रथमकेवली आद्यः सर्वज्ञः। केवलित्वेचतीर्थकृन्ना-मोदयो भवतीत्याह प्रथमतीर्थकरः आद्यश्चतुर्वर्णसङ्घस्थापकः / उदिततीर्थकृन्नामा च कीदृशः स्यादिति प्रथमोधर्मवरोधर्मप्रधानश्चक्रवर्ती यथा चक्रवर्ती सर्वत्राप्रतिहतवीर्येण चक्रेण वर्तते तथा सोऽपीति भावः / समुत्पद्येत समुत्पन्नवानित्यर्थः / जं०२ वक्ष० (जम्बूद्वीपप्रज्ञप्त्युक्तः तित्थयर शब्दे वक्ष्यते) तं चेव सव्वं जाव देवा देवीओ य वसुहारवासिंसु सेसं तहेव चारगसोहणमाणुग्माणबद्धणउस्सुकमाइयं ठिइवडियजूयवजं सव्वं भणिण्यव्वं // 20 // "तंचेव सव्वमित्यादितो ठिइयडिययवजं सव्वंभाणियव्यंति" यावत्। तत्र देवलोकच्युतोद्भुतरूपोऽनेकदेवदेवीपरिवृतः सकलगुणैस्तेभ्यो युगलमनुष्येभ्यः परमोत्कृष्टः क्रमेण प्रवर्द्धमानः सन्नाहाराभिलाषे सुरसंचारितामृतरससरसामङ्गुलिं मुखे प्रक्षिपति। एवमन्येऽपि तीर्थकरा वाल्येऽवगन्तव्याः वाल्यातिक्रमे पुनरग्निपक्वाहारभोजिनः ऋषभस्तु प्रव्रज्यां यावत्सुरानीतोत्तरकुरुकल्पद्रुमफलान्यास्वादितवान् / अथ संजातकिञ्चिदूनवर्षे भगवति प्रथमजिनवंशस्थापनं शक्रः स्वजीतमिति विचिन्त्य कथं रिक्तपाणिःस्वामिसमीपंयामीतिमहतीभिक्षुयष्टिमादायः नाभिकुलकराङ्कस्थस्य प्रभोरगे तस्थौ दृष्टा चेक्षुयष्टि हृष्टवदनेन स्वामिना करे प्रसारिते इक्षु भक्षयसीति भणित्वा तां दत्त्वा इक्ष्वभिलाषात्स्वामिनो वंश इक्ष्वाकुनामाऽभवत् / गोत्रमपि अस्य एतत्पूर्वजानामिस्वभिलाषात्काश्यपनामेति शक्रो वंशस्थापनां कृतवान् / अथ किञ्चिद्युगलं मातापितृभ्यां तालवृक्षाऽधो मुक्तं तस्मादेतत्तालफलेन पुरुषो व्यापादितः / प्रथमोऽयमकालमृत्युः / अथ सा कन्या मातापित्रोः स्वर्गतयोः एकाकिन्येव वने विचचार / दृष्ट्वा च तां सुन्दरी युगलिकनरा नाभिकुलकराय न्यवेदयन्। नाभिरपि शिष्टयं सुनन्दानाम्नी ऋषभपत्नी भविष्यतीति सकललोकज्ञापनपुरस्सरंतांजग्राह। ततः सुनन्दासुमङ्गलाभ्यां सह प्रवर्द्धमानो भगवान् यौवनमनुप्राप्तः इन्द्रोऽपि प्रथमजिनविवाहकृत्यमस्माकं जीतमिति अनेकदेवदेवीकोटिपरिवारपरिवृतः समागत्य स्वामिनो वरकृत्यं स्वयमेव कृतवान् बधूकृत्यं च द्वयोरपि कन्ययोर्देव्य इति / ततस्ताभ्यां विषयोपभोगिनो भगवतः षट्लक्षपूर्वेषु गतेषु भरतब्राह्मीरूपं युगलं सुमङ्गला / बाहूवलिसुन्दरीरूपं युगलं, च सुनन्दा प्रसुषुवे / तदनु वैकोनपञ्चाशत्पुत्रयुगलानि क्रमात् सुमङ्गला प्रसूतवती / / 206 / / उसमेणं अरहा कोसलिए तस्संणं पंचनामधेञ्जा एवमाहिजंति तं जहा उसमेइ वा 1 पढमरायाइ वा 2 पढमभिक्खा यरे इवा ३पढमजिणे इ वा पढमतित्थंकरे इ वा 5 // 210 // "उसभेणं अरहा कोसलिए इत्यादितः पढमतित्थंकरेइवेति' पर्यन्तं तत्र इकारः सर्वत्र वाक्यालङ्कारे (पढमरायत्ति) प्रथमराजा चैवम्।२१०। कल्पा तिला आ० चूल। अथ यथा भगवान् वयः प्रतिपन्नवान् तथाऽऽह। तओ णं उसमे अरहा सो कोसलिए दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भदए विणीए। कल्पना (5) इदानीं वृद्धिद्वारमधिकृत्याह। अह वट्टइ सो भयवं, दियजोगचुओ अणुवमसिरीओ। देवगणसंपडिवुडो, नंदाइसुमंगलासहिओ।।११।। असिअसिरोअसुनयणो, बिंवुट्ठो धवलदंतपंतीओ। वरपउमगब्भगोरा, फुल्लुप्पलगंधनीसासो॥१२०।। प्रथमगाथानिगदसिद्धैव द्वितीयगाथागमनिका / न सिता असिताः कृष्णा इत्यर्थः / शिरसि जाताः शिरोजाः केशाः असिताः शिरोजा यस्य स तथाविधः / शोभने नयने यस्यासौ सुनयनः / विम्बं गोहाफलं विम्बवदोष्ठौ यस्यासौ विम्बोष्ठः / धवले दन्तपक्ती यस्य स धवलदन्तपक्तिकः। वरपदागर्भवद्रौरः। फुल्लोत्पलग-न्धवन्निः श्वासो यस्येति गाथार्थः / 120 / आव० १अ०। (6) इदानीं जातिस्मरद्वारावयवार्थ तु विवरीषुराह। जाईसरो अभयवं, अप्परिवडिएहिं तिहिं उनाणेहिं। कंतीइ अबुद्धीइ अ, अन्महिओ तेहिं मणुएहिं // 21 / / गमनिका / जातिस्मरश्च भगवन् / अप्रतिपतितैरेव त्रिभिज्ञनिर्मतिश्रुतावधिभिः। अवधिज्ञानं हि देवलौकिकमेवाप्रच्युते भगवतो भवति तथा च कान्त्या च बुद्ध्या अभ्यधिकस्तेभ्यो मिथुनकमनुष्येभ्य इति गाथार्थः। (7) इदानी विवाहद्वारव्याधिख्यासयेदमाह। पढमो अकालमचू, तहि तालफलेण दारओ पहओ। कन्ना य कुलगरेणं, सिद्धे गहिया उसभपत्ती // 22 // भगवतो देशोनवर्षकाल एव किञ्चिन्मिथुनकं संजातापत्थमिथुनक तालवृक्षाधो विमुच्य नि:संशयं क्रीडागृहकमगमत् तस्माच तालवृक्षात्पवनप्रेरितमेकं तालफलमपतत्तेन दारको व्यापादितः। तदपि मिथुनकं तांदारिकां संवर्द्धयित्वा प्रतनु कषायं मृत्वा सुरलोकमुत्पन्नं सा चोद्यानदेवतेवोत्कृष्टरूपा एकाकिन्येव वने विचचार। दृष्ट्वा च तां त्रिदशवधूसमानरूपां मिथुनकनराः विस्मयोत्फुल्लनयनाः नाभिकुलकरायन्यवेदयन् / शिष्टश्च तैः कन्या कुलकरेण गृहीता ऋषभपत्नी भविष्यतीति कृत्वेति गाथार्थः / / भावार्थः कथातः सा चैयम् प्रगुणीकुरु कल्याणि-भूयिष्ठं भीक्ष्णकुङ्कुमम्। सीमन्तिनीनां सीमान्तं, परिपूर्तिकृते चिरात्॥२५॥ त्वं वयस्ये प्रशस्यानि, पुष्पदामान्युपानय। विचित्ररचनान्मुग्धे! मुकुटान्निकटीकुरु॥२६॥ चतुष्कान् पूरय द्वारि, मुक्ताक्षोदेन सुन्दरि!।

Loading...

Page Navigation
1 ... 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224