Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उवासगपडिमा 1134 - अभिधानराजेन्द्रः - भाग 2 उवासगपडिमा नात् यदापन्नं तदाह कारयति विधापयति प्रेष्यैरादेशकारिभिः / कथमित्याह। पूर्वप्रयोगत एव प्रवृत्तव्यापार एव नापूर्वव्यापारनियोजनत इत्यर्थः किमित्याह / वृत्तिनिमित्तं जीविकार्थम् / किंभूतः सन्नित्याह शिथिलभावः प्रेष्यप्रयोगतोऽप्यारम्भेष्वतीव्रपरिणाम इति गाथार्थः / नन्वारम्भेषु प्रेष्यप्रयोजनेसतिस्वयमप्रवर्तमानस्य को गुणोजीवधातस्य तदवस्थत्वादित्याशङ्कयाह। निग्घिणतेगंतेणं, एवं विहु होइ चेव परिचत्ताए। एबहमेत्तो वि इमो, वञ्जिजंतो हियकरो उ॥२७॥ निघृणता निर्दयता एकान्तेन सर्वथैव स्वयमारम्भण कुर्वतः परैश्च कारयतो या स्यात्सा एवमप्युक्तनीत्याऽपि स्वयं वर्जनमात्रलक्षणा आस्तामुभयवर्जनतः / हुशब्दोऽलंकारे भवति चैव स्यादेव परित्यक्ता परिहृता। नन्वात्मारम्भोऽल्प एकत्वादात्मनः परतस्तु बहुतमः परेषां च बहुत्वात्ततश्च बहुतमारम्भाश्रयणेनाल्पतरारम्भवर्जनं कंगुणंपुष्णातीत्याशङ्कयाह (एबहमेत्तोवित्ति) इयन्मात्रोऽपि स्वयंकरणमात्रत्वेनाल्पोऽप्यास्तां बहुतमः (इमोत्ति) अयमारम्भो वय॑मानस्त्यज्यमानो हितकरः कल्याणकर एव महाव्याधेः स्तोकक्षयवदितिगाथार्थः / कस्य कथमयं भवतीत्याह॥ भध्वस्साणा वीरियसंफासणभावतो णिओगेण। पुटवोइयगुणजुत्तो, नावञ्जति अट्ठजा मासा // 28 // भव्यस्य योगस्य सत्वविशेषस्य आज्ञा चापूर्ववचनमष्टमप्रतिमायां स्वयमारम्भो वर्जनीय इत्येवंरूपम् वीर्य जीवसामर्थ्य स्वयमारम्भपरित्यागविषयं तयोः संस्पर्शनमाराधनं तद्पो यो भावोऽध्यवसायस्तस्य वा यो भावः सत्ता स तथा तस्मादाज्ञावीर्यसंस्पर्शनभावान्नियोगेन नियमेन हितकरो भवतीति पूर्वेण योगः। अथ किंविधः सन् क्रि यन्तं वा कालमष्टम्यां स्वयमारम्भं वर्जयतीत्याह / पूर्वोदितगुणयुक्तः प्रागुक्तदर्शनादिगुणान्वितस्तावद्वर्जयति परिह-रत्यष्टौ यावन्मासानुत्कृष्टत इतिगाथार्थः / उक्ताऽष्टमी प्रतिमा पंचा० 10 विव०॥ उपा० अथ नवमीमुपासकप्रतिमामाह। अहावराणवमा उवासगपडिमा सवधम्मरईया विभवति जाव दिया वा राओ वा बंभचारी सचित्ताहारे से परिण्णाए भवति पेस्सारंभे परिणाए भवति सेणं एयारूवेणं विहारेणं विहरमाणेणं जाव एगाहं वा दुगाहं वा तिगाहं वा उक्कोसेणं नव मासे विहरेज्जा नवमा उदासगपडिमा।। नवम्यां तुकारणारम्भः प्रेष्यादिभ्यः स परिज्ञातो भावति उद्दिष्टभक्तंतु नपरिज्ञातं भवति उद्दिष्टं नाम तदुद्देशेन यत्कृतं तदुद्दिष्टमित्युच्यते इति नवमा / दशा० 6 अ० आ० चू० / (नवमंति) नवमीं भृतकं प्रेष्यारम्भवर्जनप्रतिमा सा चेयं "पेसेहिविआरंभ, सावज्जं कवेरइ णो गरुयं पुव्वो इयगुणजुत्तो, नवमा सा जाव विहिणाओ" उपा० 1 अ०॥ यत्करणान्नवमी भवति तदाह // पेसेहि वि आरंभ, सावलं कारवेइ णो गुरुयं / अत्थी संतुट्ठो वा, सो पुण होति विण्णेओ // 26 // प्रेष्यैरपिकर्मकरैरप्यास्तां स्वयमारम्भं व्यापारं सावधं सपापं कारयति विधापयति नो नैव गुरुकं महत्कृष्यादिकमित्यर्थः / अनेनासनदापना- / दिव्यापाराणामतिलघूनामनिषेधमाह। इह नवमप्रतिमायामित्येष दृश्यः एतद्वर्जनेन च कीदृशः समर्थो भवतीत्याह अर्थी अर्थवानीश्वर इत्यर्थः / सन्तुधे वाऽनीरवरोऽप्यतिसंतोषवान् / वाशब्दो विकल्पार्थः एष प्रेष्यारम्भवर्जकः। पुनः शब्दो विशेषणार्थस्तेन यः कश्चिदपि भवति स्याद्विज्ञेयो ज्ञातव्य इति गाथार्थः / / णिक्खित्तभरो पायं, पुत्तादिसु अहव से सपरिवारे। थोवममत्तो यतहा, सव्वत्थविपरिणओ नवरं॥३०॥ निक्षिप्तभरो न्यस्तकुटुम्बादिकार्यभारः प्रायो बाहुल्येन पुत्रादिषु योगयसुतभ्रातृप्रभृतिषु अथवेति विकल्पार्थः शेषपरिवारे पुत्रादिव्यतिरिक्तपरिजने कर्मकरादौ तथेति वाक्यान्तरत्वद्योतकोऽत्र द्रष्टव्यः स्तोकममत्त्वोऽल्पाभिष्वङ्गश्वशब्दः समुच्चये तथेतियोजितमेव सर्वत्रापि सर्वस्मिन्नपि धनधान्यादिपरिग्रहे न तु क्वचिदेव अयं चैवं भूत उत्तानबुद्धिरपि स्यादत आह परिणतबुद्धिर्नवरं केवलमिति गाथार्थः / लोगववहारविरओ, बहुसो संवेगभावियमई य। पुव्वोदियगुणजुत्तो, णवमासा जाव विहिणा उ॥३१॥ लोकव्यवहारविरतो लोकयात्रानिवृत्तस्तथा बहुशो अनेकशः संवेगभावितमतिश्च मोक्षाभिलाषवासितबुद्धिस्तथा पूर्वोदितगुणयुक्तो दर्शनादिगुणान्वितो नव मासान् यावदुत्कर्षतो विधिना त्वागमविधानेनैवेति गाथार्थः पंचा० 10 विव०ा उपा० अथ दशमीमुपासकप्रतिमामाह। अहावरा दसमा पडिमा सव्वधम्मरुईया वि भवति से णं खुरमुंडए वा सिहाधारए वा तस्सणं आभट्ठस्स वाभट्ठस्स कप्पति दुवि भासतो भासित्ताए जधा जाणं वा जाणं अजाणं वा अजाणं से णं एतारूवेणं विहारेणं विहरमाणे जहन्नेणं एगाहं वा दुयाह वातियाहं उक्कोसेणं दसमास विहरेजा दसमा उवासगपडिमा।। दशम्यां तु उद्दिष्टभक्तं तेन परिज्ञातं भवति स च क्षुरमुण्डो वा शिखाधारको वा भवति यथा परिव्राजकाः शिखामात्रं धरन्ति तथाऽयमपीति तदा तं प्रति पुत्रादयः तन्मुक्तं किंचिद्वस्तु जानानाः पृच्छन्ति किं कृतं तद्वस्तु तदा तेन कथमुत्तरयितव्यास्तदेतदाह / (आभट्ठस्स) आ ईषत् "भट्ठस्सति" देशीवचनात् भाषितस्य प्रत्युत्तरं देयात्तेन पृष्टस्य पुनः पुनर्वा भाषितस्य कल्पेते युज्येते द्वे भाषे भाषितुं वक्तु मिति / तद्यथा यदि जानाति तदा वदति अहं जानामि यतस्तेषामकथेन् अप्रीतिवशादात्मकृतादयोऽपि दोषाः शङ्कादयो वा दोषा यथा ते ज्ञास्यन्ति अनेनैव तद्दव्यादि भक्षितं येन मुखं वस्त्रितं तेन जानामीति वदति। अपरा तु यदि न जानाति तदा वदति नाहं जानामि एते द्वे भाषितुं कल्पेते इति दशमी प्रतिमा। दशा० 6 अ०॥ दशमी उद्दिष्टभक्तवर्जनप्रतिमा सा चैवम्। उहिट्ठकडं भत्तं पि, वज्जती किमु य से समारंभ। सो होइ उ छुरमुंडो, सिंहलि वा धारती कोइ॥३| उद्दिष्टमुद्देशस्तेन कृतं विहितमुद्दिष्टकृतं तदर्थ संस्कृतमित्यर्थः तद्भक्तमपि भोजनमपि वर्जयति परिहरति किमुक्तं भवति किं पुनः सुतरामित्यर्थः। शेषं दुष्परिहार्यभक्तारम्भव्यतिरिक्तमारम्भसावद्ययोगं दशमप्रतिमायां वर्तमानः श्रावकः इति शेषः (सो हो उ त्ति) स पुनर्दशमप्रतिमावर्ती भवति स्यात् क्षुरमुण्डः क्षुरमुण्डित

Page Navigation
1 ... 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224