Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1080
________________ उवसमसेढि १०७२-अभिधानराजेन्द्रः - भाग 2 उवसमसेढि धिरनन्तगुणा एवं जघन्यमुत्कृष्टं च विशोधिस्थानमनन्तगुणया वृद्ध्या तावन्नेयं यावदपूर्वकरणस्य चरमसमये जघन्योत्कृष्टविशुद्धिरनन्तगुणा। स्थापना चेयम्। 250000000026 23000000024 2100000022 160000020 17000018 अस्मिंश्यापूर्वकरणे प्रविशन् स्थितिघातं रसघातं गुणश्रेणिं गुण संक्राममवस्थितिबन्धं च युगपदारभते तत्र स्थितिघातो नामस्थितिसत्कर्मणोऽग्रिमभागादुत्कृष्टतः प्रभूतसागरोपम (शत) पृथक्तवमात्रंजघन्यतःपल्योपमसंख्येयभागमात्रं स्थितिखण्ड खण्डयति तद्दलिकं वाऽधस्ताद्याः स्थितीन खण्डयिष्यति तत्र प्रक्षिपति अन्तर्मुहूर्तेन कालेन तत्र स्थितिखण्डमुत्कीर्यते खण्ड्यत इत्यर्थः ततः पुनरधस्तात्पल्योपमसंख्येयभागमात्रं स्थितिखण्डमन्तर्मुहूर्तेन कालेनोत्किरति पूर्वोक्तप्रकारेणैव च निक्षिपति एवमपूर्वकरणाद्धायां प्रभूतानि स्थितिखण्डसहस्राणि व्यतिक्रामति तथा च सत्यपूर्वकरणस्य प्रथमसमये यत् स्थितिसत्कम्मसिीत्तत्तस्यैव चरमसमये संख्येयगुणहीनम्। जातरसघातो नाम अशुभप्रकृतीनां यदनुभाग सत्कर्म तस्याऽनन्ततमभाग मुक्तवा शेषाननुभागानन्तर्मुहूर्तेन कालेनाशेषानपि विनाशयति ततः पुनरपि तस्य प्रागुक्तस्यानन्ततमभागस्याऽनन्ततमं भागं मुक्तवा शेषाननुभागानन्तर्मुहूर्तेन कालेन विनाशयति एवमनेकान्यनुभागखण्डसहस्राण्येकस्मिन् स्थितिखण्डे व्यतिक्रामन्ति तेषां च स्थितिखण्डानां सहस्रैरपूर्वकरणं परिसमाप्यते / गुणश्रेणीनामन्तर्मुहूर्तप्रमाणानां स्थितीनामुपरि याः स्थितयो वर्तन्ते तन्मध्यावलिकं गृहीत्वा उदयावलिकाया उपरितनीषु प्रतिसमयमसंख्येयगुणतया निक्षिपति तद्यथा प्रथमसमये स्तोकं द्वितीयसमयेऽ-- संख्येयगुणं तृतीयसमयेऽसंख्येयगुणम् / एवं तावन्नेयं यावदन्तमुहूर्त्तचरमसमयस्तच्चान्तर्मुहूर्तमपूर्वकरणानिवृत्तिकरणकालाभ्यां मनागतिरिक्तं वेदितव्यम् / एष प्रथमसमयगृहीतदलिकस्य निक्षेपविधिः / एवं द्वितीयादिसमयगृहीतानामपि दलिकानां निक्षेपो वक्तव्यः अन्यश्च गुणश्रेणिरचनाय प्रथमसमये यद्दलिकं गृह्यतेतत्स्तोकं ततोऽपि द्वितीयसमयेऽसंख्येयगुणं ततोऽपि तृतीयसमये-ऽसंख्येयगुणम् / एवं तावन्नेयं यावद् गुणश्रेणिकरणचरमसमयः अपूर्वकरणसमयेष्वनिवृत्तिकरणसमयेषु चानुभवतः क्रमशः क्षीयमाणेषु गुणश्रेणिदलिकनिक्षेपः शेषे भवति उपरि च न वर्द्धत इति तथा गुणसंक्रमो नाम अपूर्वकरणस्य प्रथमसमये अनन्तानुबन्ध्यादीनामशुभप्रकृतीनां यद्दलिकं परप्रकृतिषु संक्रमयतितत्स्तोकं ततो द्वितीयसमयपरप्रकृतिषु संक्रम्यमाणसमयमसंख्येयगुणं ततोऽपि तृतीयसमयेऽसंख्येयगुणम् एवं तावद् वक्तव्यं यावच्चरमसमयः। तथा अन्यस्थितिबन्धो नाम अपूर्वकरणस्य प्रथमसमयेऽन्य एवापूर्वः स्तोकः स्थितिबन्धः आरभ्यते स्थितिबन्धस्थितिघातौ युगपदेव च निष्ठा यातः एवमेते पञ्च पदार्था अपूर्वकरणे प्रवर्तन्ते व्याख्यातमपूर्वकरणम् / इदानीमनिवृत्तिकरणमुच्यते / अनिवृत्तिकरणं नाम यत्र प्रविष्टानां सर्वेषामपि तुल्यकालानामेवाध्यवसायस्थानम् / तथा हि अनिवृत्तिकरणस्य प्रथमसमये ये वर्तन्ते ये च वृत्ता ये च वर्तिष्यन्ते तेषां सर्वेषामप्येकरूपमेवाध्यवसायस्थान द्वितीयसमयेऽपि ये वर्तन्ते ये च वृता ये च वर्तिष्यन्ते तेषामपि सर्वेषामेकरूपमध्यवसायस्थानं नवरं प्रथमसमयभाविविशोधिस्थानापेक्षयाऽनन्तगुणम्। एवं तावदाच्यं यावदनिवृत्तिकरणचरमसमयः अत एवास्मिन् करणे प्रविष्टानां तुल्यकालानामसुमतांसंबन्धिनामध्यवसायस्थानानां परस्परं निवृत्तिावृत्तिर्न विद्यते इत्यनिवृत्तिकरणं नाम अस्मिश्चानिवृत्तिकरणे यावन्तः समयास्तावन्त्यध्यवसायस्थानानि पूर्वस्मादनन्तगुणवृद्धानि एतानि च मुक्तावलीसंस्थानेन स्थापयितव्यानि / अत्रापि प्रथमसमयादेवारभ्य पूर्वोक्ताः पञ्च पदार्थों युगपत्प्रवर्तन्ते अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेषु सत्सु एकस्मिन् भागेप्यवतिष्ठमाने अनन्तानुबन्धिनामधस्तादावलिकामात्रं मुक्तवा अन्तर्मुहूर्तप्रमामन्तरकरणमभिनवस्थितिबन्धाद्धासमेनान्तर्मुहूर्त प्रमाणेन कालेन करोति अन्तरकरणसत्कं च दलिकमुत्कीर्यमाणं प्रकृतिषु वध्यमानासु प्रक्षिपति प्रथमस्थितिगतं दलिकमावलिकामात्र वेद्यमानानामुपरि प्रकृतिषु स्तिवुकसंक्रमेण संक्रमयति अन्तरकरणे कृते सति द्वितीयसमयेऽनन्तानुबन्धिनामुपरितनस्थितिदलिकमुपशमयितुमारभते तद्यथा प्रथमसमये स्तोकमुपशमयति द्वितीयसमये संख्येयगुणं तृतीयसमयेऽसंख्येयगुणम्। एवं यावदन्तर्मुहूर्त्तकालम्तावता च कालेन साकल्यतोऽनन्तानुबन्धिन उपशमिता भवन्ति उपशमितानां यथारेणुनिकरः सलिलविन्दुनिवहैरभिषिच्याभिषिच्य द्रुघणादिभिनिष्कुटितो निःस्त्पन्दो भवति तथा कर्मरेणुनिकरोऽपि विशोधिसलिलप्रवाहेण परिषिच्य परिषिच्यानिवृत्तिकरणरूपद्रुघणनिप्कुटितः संक्रमणोदयोदीरणानिधत्तिनिकाचनकरणानामयोग्यो भवति तदेवमेके षामाचार्याणां मतेनानन्तानुबन्धिनामुप शमनाऽभिहिता। अन्ये त्वाचक्षते अनन्तानुबन्धिनामुपशमना न भवति किंतु विसंयोजनैव विसंयोजना क्षपणा सा चैवम् इह श्रेणिमप्रतिपद्यमाना अपि अविरता विरताश्च चतुर्गतिका अपि / तद्यथा नारका देवा अविरतसम्यग्दृष्टयः तिर्यञ्चोऽविरतसम्यग्दृष्टयो देशविरता वा मनुजा अविरतसम्यग्दृष्ट्यो देशविरताः सर्वविरता वा / अनन्तानुबन्धिनां विसंयोजनार्थ यथाप्रवृत्तादीनि त्रीणि करणानि कुर्वन्ति करणवक्तव्यता सर्वाऽपि प्राग्वत् नवरमिहानिवृत्तिकरणे प्रविष्टः सन् अन्तरकरणं न करोति। उक्तं च कर्मप्रकृतौ। चउगइया पज्जत्ता, तिनि विसंजोयणे विसंजोयें ति। करणेहि तिहिं सहिया, नंतरकरणं उवसमो वा / / अस्याक्षरगमनिका चतुर्गतिका नारकतिर्यड्मनुष्यदेवाः सर्वाभिः पर्याप्तिभिः पर्याप्तालयोऽप्यविरतदेशविरतसर्वविरतास्तत्राविरतसम्यग्दृष्ट-यश्चतुर्गतिकाः देशविरतास्तिर्यञ्चोमनुष्या वा सर्वविरता मनुष्या एव संयोजनामनन्तानुबन्धिनो विसंयोजनयन्ति विनाशयन्ति / किंविशिष्टाः सन्त इत्याह करणैस्त्रिभिर्यथाप्रवृत्ता पूर्वकणानिवृत्तिवादरैः सहिता नवरमिहान्तरकरणं न वक्तव्यम्। उपशमो वा उपशमश्चानन्तानुबन्धिनां न भवतीत्यर्थः / किं तु कर्मप्रकृत्यभिहितस्वरूपेणोद्वलनासंक्रमेणाधस्तादावलिकामात्रं मुक्तवा उपरि निरवशेषानन्नतानुबन्धिनो विनाशयति आवलिकामात्रं तु स्तिवुकसंक्रमेण वेद्यमानासु प्रकृतिषु संक्रमयति तदेवमुक्ता अनन्तानुबन्धिनां विसंयोजना / संप्रति दर्शनत्रिकस्योपशमना भण्यते। तत्र मिथ्यात्वस्योपशमना मिथ्यादृष्टर्वेदकसम्यग्दृष्टश्च सम्यक्तवसम्यग्मिथ्यात्वयोस्तु वेदकसम्यग्दृष्टरेव तत्र मिथ्याद्दष्टे मिथ्यात्वोपशमना प्रथमसम्यक्तवमुत्पादयतः सा चैवं

Loading...

Page Navigation
1 ... 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224