Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उवहि 1062- अभिधानराजेन्द्रः- भाग 2 उवहि द्विव्यादिखण्डानां मीलनेन निष्पन्नः संघातिमः / इतरस्तद्विपरीतोऽसंघातिमः / अयं च पाशकबद्धः कशाबद्धः तथा यश्चाशुषिरो गृहिसीवनिकारहितः प्रतिग्लानवर्जितो वा यच्चात्र द्रव्यक्षेत्रकालतो वेषेषु संविग्नगीताथैः पूर्वसूरिभिराचीर्ण तत्सर्वमपि ज्ञेयं सम्यगुपादेयतया मन्तव्यम्। ___ अथ जिनकल्पिकादीनामुपधेरुत्कृष्टादिविभागमाह / उकोसओ जिणाणं, चउविहो मज्झिमो विय तहेव / जहन्नो चउव्विहो खलु, पत्तो थेराण वोच्छामि। त्रयः कल्पाःप्रतिग्रहश्चेतिः जिनकल्पिकानामुत्कृष्टतश्चतुर्विधः। एवं मध्यमोऽपि रजोहरणपटलकपात्रकबन्धरजस्त्राणभेदाचतुर्विधो जघन्योऽपि मुखपोत्तिका पादुकेसरिका गोच्छकपात्रकस्थापनक भेदाचतुर्विधः। (7) औपग्रहिकोपधेरुत्कृष्टादिभेदाः / उकोसो थेराणं, चउविहो छविहो य मज्झिमओ। जहण्णो चउविहो खलु, पत्तो अजाण वोच्छामि। उत्कृष्टो जघन्यश्च जिनकल्पिकानामिव द्रष्टव्यो नवरं मध्यमः षट्विध इत्यं रजोहरणं पटलकानि पात्रक बन्धो रजस्त्राणं मात्रक कम्बलपट्टकश्चेति। उकोसो अट्टविहो, मज्झिमओ होइ तेरसविहो उ। जहण्णो चउव्विहो खलु, पत्तो उ उवग्गहं वोच्छं / / आचार्याणामुन्कृष्ट उपधिरष्टविधः त्रयः कल्पा३ प्रतिग्रहः / अम्यन्तरनिवसना 5 बहिर्निवसना 6 संघाटिका 7 स्कन्धरणी 8 चेति। मध्यमस्त्रयोदशविधो भवति तद्यथा रजोहरणं 1 पटलकानि 2 पात्रकबन्धः 3 रजस्त्राणं 4 मात्रकं 5 कमठकम्६अवग्रहानन्तकं 7 पट्टः 8 अर्दोरुकम्। कञ्चुकी १०क्लनिका११ औपकक्षिकी 12 विकक्षिकी 13 चेति। जघन्यश्चतुर्विधो मुखषोत्तिका गोच्छकः पात्रस्थानं चेति। अत ऊर्द्धमतिरिक्तो यः उपधिः स उपग्रहोपधिरुच्यते। तमपि जघन्यादिविभागनिरूपणेनाहं वक्ष्ये। बृ०३ उ०! (8) तावदौपग्रहिकोपधिमाह / पीठगनिसिज्जदंडग-पमजणी घट्टए डगलमाइं। पिप्पलगसूइनहरणि-सोहणगदुर्ग जहण्णो उ॥३४॥ पीठकं काष्ठच्छगणात्मक लोकसिद्धमानं स्नेहवत्यां वसतौ वर्षाकाले वा ध्रियत इत्यौपग्राहिकं संयतीनां त्याग इत्यागतसाधुनिमित्तमिति निषद्या पादपुञ्छनं प्रसिद्धप्रमाणं जिनकल्पिकादीनां न भवति निषीदनाभावात् दण्डकोऽप्येवमेव नवरं निवारणाभावात् एवं प्रमार्जनी वसतेर्दण्डकपुञ्छनाभिधाना एवं घटकः पात्रमुखादिकरणाय पिप्पलक क्षुरप्रःलोहमयः / सूची सीवनादिनिमित्तं वेण्वादिमयी नखहरणी प्रतीता लोहमप्येव शोधनकद्वयं कपर्णशोधनकदन्तशोधनकाभिधानं लोहमयादि जघन्यतस्त्वयं जघन्यः औपग्रहिकः खलूपधिरिति गाथार्थः। एनमेव मध्यममभिधातुमाह। वासत्ताणे पणगं, चि लमिणिपणगं दुगं च संथारे। दंडाई पणगं पुण, मत्तगतिगपायलेहणिआ॥३५|| वर्षात्राणविषयं पञ्चकं तद्यथा कम्बलमयसूत्रमयतालपत्रमयपलाशपत्रकुटशीर्षकं छत्रकं चेति लोक सिद्धमानानीति / तथा चिलिमिलीपञ्चकं तद्यथा कम्बलमयी सूत्रमयी वालमयी दण्डमयी कडगमयीति प्रमाणमस्याः गच्छापेक्षया सागारिकप्रच्छादनाय तदावरणात्मिकर्ते यमिति संस्तारद्वयं च शुषिराशुषिरभेदभिन्नं तृणादिकृतस्तुशुषिरस्तदन्यकृतस्त्वशुषिर इति। तथा दण्डादिपञ्चकं पुनस्तद्यथा दण्डको विदण्डकः यष्टिर्वियष्टिर्नालिका चेति। मात्रकत्रितयं तद्यथा। कायकमात्रकं संज्ञामात्रकं खेलमात्रकमिति। तथा पादलेखनी काष्ठमयी कर्दमापनयिनीति गाथार्थः / पं०व०। संथारुत्तरपट्टो, अड्डाइजा उ आयया हत्था। दोण्हं पिय वित्थारो, हत्थो चउरंगुलं चेव / / 46|| संस्तारकः तथा उत्तरपट्टकश्च एतौ द्वावपि एकैकमर्द्धतृतीयहस्तौ दैर्येण प्रमाणतो भवति तथा द्वयोरप्यनयोर्विस्तारो हस्तचतुरडलं भवतीति आह किं पुनरेभिः प्रयोजनं संस्तारकादिभिः पट्टकै रुच्यते। पाणाइरेणुसंर-क्खणट्ठया हॉति पट्टगा चउरो। छप्पइयरक्खणहा, तत्थुवरि खोम्मियं कुजा // 47 // प्राणिरेणुसंरक्षणार्थ पट्टका गृह्यन्ते / प्राणिनः पृथिव्यादयो रेणुश्च स्वशरीरे लगति अतस्तद्रक्षणार्थं पट्टकग्रहणं ते चत्वारो भवन्तीति द्वी संस्तारकपट्टकयुक्तावेव तृतीयो रजोहरणबह्यनिषद्यापट्टकः पूर्वोक्त एव चतुर्थः / खोमिय एवाभ्यान्तरःनिषद्यापट्टको वक्ष्यमाण एव एते चत्वारोऽपि प्राणिनः संरक्षणार्थं गृह्यन्ते / तत्र षट्पदासंरक्षणार्थं तस्य कम्बली संस्तारकसंघर्षेण षट्पदा न विराध्यन्ते इति / इदानीं अभ्यन्तरक्षोमनिषद्याप्रमाणप्रतिपादनायाह / रयहरणपट्टमेत्ता, अदसणा किं चि वा समतिरेगा। इक्कगुणा उनिसिञ्जा, हत्थपमाणा सपच्छागा॥४८|| रजोहरणपट्टकोऽभिधीयते यत्र दशिकालग्नाः तत्प्रमाणा दशा दशिका तद्रहिता क्षौमा रजोहरणाभ्यन्तरे निषद्या भवति / (किं चि वासमतिरेगेत्ति) किंचिन्मात्रेण वा समधिका तस्य रजोहरणपट्टकस्य भवतीति (एकगुणत्ति) एकैव सा निषद्या भवति हस्तप्रमाणा च प्रथुत्वेन भवति (सपच्छागत्ति) सह बाह्यया निषद्यया हस्तप्रमाणा भवतीति। एतदुक्तं भवति बाह्याऽपि निषद्या हस्तमात्रैव। वासोवग्गहिओ पुण, दुगणो उवही उवासकप्पाई। आयासंयमहेऊ, एकगुणो सेसओ होइ।।४६।। वर्षासु वर्षाकाले औपग्रहिकः अवधिगुणो भवति कश्चास्यासौ वर्षाकल्पादिः आदिग्रहणात् पटलानि “जो व हिंडं तस्स तिम्मइ सो सो दुगुणो होति एगोति तो पुणो अन्नो घेप्पई स च वर्षाकल्पादिद्विगुणो भवति आत्मसंरक्षणार्थं च तत्रात्मसंरक्षणाद्यदि एकगुणा एव कल्पादयो भवन्ति ततश्च "तेहिंति तेहिं पोट्टसूलेणं मरति संजमरक्खणहें जइएग चेव कप्पं अइमइलो उ ढेउनीसरइ ततो तस्स कप्पस्सज पाणियं पडइत्ति तस्स तेणं आतुक्कोओ विणासिज्जई" शेषस्त्ववधिः एकगुण एव भवतिन द्विगुण इति। किञ्च। जं पुण सपमाणाओ, ईसिंहीणाहियं व लेभेजा। उभयं पि अहाकडयं, न संधणा तस्स छेओ वा // 50|| यत्पुनः कल्पादि उपकरणं स्वप्रमाणादीषद्धीनमधिकं वा लभ्यते उभयमिति "ओघियस्स उवहिस्स उवग्गहियरस वा" यदि

Page Navigation
1 ... 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224