Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 36
________________ OORXKOROHORICORRRROORKAKKKKKKRAKAKKORRRRORSCORRESKRSSORROKSKRKHASKHASOKSOK3065 माथुरी : समवायविषयित्वादिसम्बन्धेन प्रमेयादिसाध्यके ज्ञानत्वादिहेतौ साध्यतावच्छेदकसमवायादिसम्बन्धावच्छिन्नप्रमेयाद्यभावस्य कालिकादिसम्बन्धेन योऽभावः सोऽपि प्रमेयतया साध्यान्तर्गतस्तदीयप्रतियोगितावच्छेदककालिकादिसम्बन्धेन साध्याभावाधिकरणे ज्ञाने ज्ञानत्वादेर्वृत्तेरव्याप्तिवारणाय सामान्यपदोपादानम् । चान्द्रशेखरीया : अत्रोच्यते । यदि च साध्यसामान्यनिरुपितप्रतियोगितां विहाय केवलं साध्यनिरुपितप्रतियोगिता एव लक्षणघटकत्वेन गृह्यते । तर्हि भवति अव्याप्तिः । तथा हि - "ज्ञानम् (समवायेन विषयितया वा) प्रमेयवान् ज्ञानत्त्वात्" अत्र ज्ञाने गुणत्वं सत्ता इत्यादयः पदार्थाः समवायेन सर्वदैव वर्तन्ते । एवं सर्वस्मिन् ज्ञाने विषयः विषयितासंबंधेन वर्तते । तथा च यत्र ज्ञानत्वम् तत्र समवायेन विषयितया वा प्रमेयम् इति व्याप्तिः समीचीना अस्ति । अतो अत्र लक्षणसमन्वयः कर्तव्यः । किन्तु सामान्यपदानुपादाने न भवति समन्वयः । ___ तथा हि – अत्र साध्यतावच्छेदकसंबंधः समवायः, धर्मः च प्रमेयत्वम् । तथा च समवायावच्छिनप्रमेयत्वावच्छिनप्रतियोगिताकः प्रमेयाभावः एव साध्याभावः । स च विशेषादिषु वर्तते । यतो विशेषादिषु कश्चिदपि पदार्थः समवायेन नास्ति । अतः तत्र समवायेन प्रमेयसामान्याभावः अस्ति । तस्य कालिकेन अभावः, न प्रमेयात्मकप्रतियोगिरुपः । यतो अभावस्य स्वरुपेण अभावः एव प्रतियोगिरुपो मन्यते । अभावस्य कालिकेन अभावः स्वतन्त्रो मन्यते । तथा च प्रमेयाभावस्य कालिकेन अभावः प्रमेयसामान्यात्मकप्रतियोगिरुपो न भवति । किन्तु तथापि सर्वे पदार्था प्रमेयाः एव । अतः प्रमेयाभावाभावोऽपि स्वतंत्रः प्रमेयः एव । तस्य प्रतियोगी प्रमेयाभावः साध्याभावः, तस्मिन् प्रतियोगिता । सा च प्रमेयाभावाभावात्मकेन प्रमेयविशेषेण निरुपिता एव । अर्थात् यत्किञ्चित्साध्यनिरुपिता भवति । प्रमेयाभावाभावोऽपि प्रमेयत्वेन साध्यभूतः एव । अस्याः प्रतियोगितायाः अवच्छेदकः संबंधः कालिकः, तेन कालिकेन संबंधेन विशेषादिवृत्ति-प्रमेयाभावस्य ज्ञानादौ वृत्तित्त्वात, ज्ञानम् तादशप्रतियोगितावच्छेदककालिकसंबंधेन प्रमेयाभाववत भवति । तस्मिन जानत्वस्य वृत्तित्त्वात् अव्याप्तिः भवति । ___सामान्यपदोपादाने न भवति अव्याप्तिः । यतः प्रमेयाभावनिष्ठाप्रतियोगिता प्रमेयाभावाभावात्मकेन यत्किञ्चित्प्रमेयरुपेण निरुपिता अनन्तरं गृहीता । तथा च सा प्रतियोगिता साध्यसामान्यनिरुपिता न भवति । अतः सा न गृह्यते । यदि च प्रमेयाभावस्य स्वरुपेण अभावो गृह्यते । तदा स अभावः प्रमेयसामान्यात्मकप्रतियोगिरुपो भवति । अतः तन्निरुपिता प्रतियोगिता प्रमेयसामान्यनिरुपिता मीलति । तत्प्रयोगिताअवच्छेदकसंबंधश्च अत्र स्वरुपः, तेन स्वरुपेण संबंधेन प्रमेयाभावस्य अधिकरणं सामान्यविशेषादयः एव । तस्मिन् च ज्ञानत्वस्य अवृत्तित्त्वात् न अव्याप्तिः । एवं साध्यतावच्छेदकविषयितासंबंधं गृहीत्वाऽपि निरुक्तरीत्या स्वयं चिन्तनीयम् । केवलं एतावत् चेतसि ध्यातव्यम् यदुत अभावस्य कालिकेन अभावः प्रतियोगिरुपो न, किन्तु अभावस्य स्वरुपेणैव अभावो प्रतियोगिरुपः इति सूक्ष्मधिया अवधार्यताम् । વ્યાતિપંચક ઉપર ચાજશેખરીયા નામની સરળટીકા ૦ ૨૦. ONOMIRRORAMMARKORRRRORRRRRRR000000000000000ROORKEKORESARIORRRROREMONOKROOMARRRRRRRRRRRRRORRORKSTORRORAREKOROKOOOKIKIRIRIKIMERKom

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116