________________
CRXXXKAKKKRKXKAKKAKKKKKKAKKKAKKKKKRKAROKIOKRIXXXRKSINOROKAKKKKKAKKKAKERSONAKRKICKSOORKKRKIOKAKRKEKHASOKHAKKAKAKKAKKKRKRKIXXXXKORKSORKKAKKKKKAKKKAKKKOCHIKEKO
चेत्, शोभना प्रज्ञा भवताम्, यद् एतादृशं सूक्ष्मं इक्षणं कृतम् । तत्र इदं प्रतिविधानम् अवधेयम् । यद्यपि वह्निमत् -अत्यन्ताभावः स्वावच्छिन्नभिन्नभेदः च एकस्वरूपः, समव्यापकत्त्वात् । तथापि, वह्निमत् अत्यन्ताभाव: साध्यवत्वावच्छिन्नप्रतियोगिताक-अभावो कथ्यते । स्वावच्छिन्नभिन्नस्तु साध्यवत्पर्वतवान् प्रदेशः । स प्रदेशस्तु न वह्निमान् । अतः स्वावच्छिन्नभिन्नभेदस्तु न वह्निमत्भेदरूपः । अतः स भेदः वह्निमत्वावच्छिन्नप्रतियोगिताक-अभावरूपो नास्ति । अतः स्वावच्छिन्न-भिन्नभेदवान् पर्वतः न साध्यवत्वावच्छिन्नप्रतियोगिताकअभाववान् । अतः तादृशभेदमादाय न पर्वतो साध्यवभिन्नपदेन गृह्यते । किन्तु वह्निमदत्यन्ताभाववान् पर्वतः एव साध्यवत्वावच्छिनप्रतियोगिताक-अभाववान् । अतो वह्निमदत्यन्ताभावमादायैव पर्वतो वह्निमत्भिन्नपदेन गृह्यते । किन्तु वह्निमदत्यन्ताभावस्य प्रतियोगिता न भेदत्वनिरूपिता । अतो भेदत्वानिरूपित-प्रतियोगिताकवह्निमद्-अत्यन्ताभाववान् पर्वत: न साध्यवभिन्नपदेन गृह्यते । इत्थं च भेदत्वनिरूपित-स्वावच्छिन्नभिन्ननिष्ठप्रतियोगिताक-अभाववान् पर्वत: न साध्यवत्वावच्छिन्नप्रतियोगिताक-अभाववान् । साध्यवत्वावच्छिन्नप्रतियोगिताक-वह्निमदत्यन्ताभाववान् पर्वतः भेदत्वानिरूपिततादृश-प्रतियोगिताक-अभाववान्, अतो द्वाभ्यामपि प्रकाराभ्यां पर्वतः न साध्यवभिन्नपदेन ग्रहीतुं शक्यः । इत्यादि प्रतिबोधनार्थं स्वावच्छिन्नभिन्नभेदरूपत्वम् वह्निमदत्यन्ताभावस्य निरूपितं इति तु वयं उत्प्रेक्षामहे । तत्त्वं तु अत्र मथुरानाथाः एव जानन्ति।
यान्द्रशेमरीया : प्रश्न : ५५, “पर्वतमा पनिभत्मत्यन्तामा २ छ. माटे, साध्यवत्वावछिन्न પ્રતિયોગિતાક-અભાવવાળો પર્વત પણ બને. માટે, તે પર્વત સાધ્યવભિન્ન તરીકે લેવાય... આટલું જ કહેવાને બદલે, વનિમઅત્યન્તાભાવ એ સ્વાવચ્છિન્નભિન્નભેદસ્વરૂપ છે. એનું નિરૂપણ કરવાની કોઈ જરૂર જ લાગતી नथी.
ઉત્તર : જુઓ, વહ્નિમતુ-અત્યતાભાવ અને સ્વાવચ્છિન્નભિન્નભેદ એ બે ય એક હોવા છતાં પણ, સાધ્યવભિન્ન તરીકે જો પર્વત લેવો હોય તો, વનિમતુ-અત્યન્તાભાવને લઈને જ લેવાય, કેમકે સ્વાવચ્છિન્નભિન્ન તરીકે તો વહિનમતપર્વતવાનું પ્રદેશ આવે છે. એ પ્રદેશ પોતે સાધ્યવાનું નથી. એટલે તેનો ભેદ પર્વતમાં હોય, તો પણ એને લઈને પર્વત એ સાધ્યવતભેદવાર્ (ભિન્ન) માની ન શકાય. અને અત્યન્તાભાવને લઈને, પર્વત સાધ્યવર્ભદવાનું બને. પણ એ સ્થળે પ્રતિયોગિતા ભેદ–નિરૂપિત ન બનવાથી, પર્વતને સાધ્યવભિન્ન તરીકે ન લઈ શકાય. આવો બોધ કરાવવા માટે ઉપરનું નિરૂપણ કરેલું છે એમ લાગે છે.
माथुरी : साध्यवत्त्वं च साध्यतावच्छेदकसम्बन्धेन बोध्यम्, तेन वह्निमान् धूमादित्यादौ वह्निमत्त्वावच्छिन्नप्रतियोगिकस्य समवायेन वह्निमतोऽन्योन्याभावस्याधिकरणे पर्वतादौ धूमादेर्वृत्तावपि नाव्याप्तिः ।
चान्द्रशेखरीया : ननु तथापि समवायेन वह्निमान् वह्निअवयवः । न तु पर्वतादिः । अत: साध्यवभिन्नः पर्वतादिः । तस्मिन् धूमस्य वृत्तित्त्वात् अव्याप्तिः । इति चेत् न साध्यतावच्छेदकसंबंधेन यावन्तः साध्यवन्तः, तद्भिन्नत्वम् ग्राह्यम् । अत्र साध्यतावच्छेदकसंबंधः संयोगः । न तु समवायः । संयोगेन वह्निमान् तु पर्वतः अपि भवति । अतो, साध्यवभिन्नपदेन न पर्वतादिः । किन्तु भूतलादि एव गृह्यते । तस्मिन्
ORRRRRRORRRRRRRRRRRIARKKKXXXXXXORRRRRRRRRRRRRORRRORRRRRRRRRRRRRIORONOKRKOKARIORKKAKEKOROKAROKARORAKAKIRAKOROROXXXXXXXXOXIXXKARKEKIKRRIXXXRRORKKK)
વ્યાપ્તિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળ ટીકા ૦ ૧૦૦ XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXKARIHMIRIKNOKRKERSONSORXXXXxxxxxxXRROKEKRKSIXXXXKSIKKIRAKOOOKIKOKAXXXXXXXXXXXXXXXXXXXXXXXXXXXXxxxxxxxxx