Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 107
________________ सम्बन्धावच्छिन्नत्वमेव । चान्द्रशेखरीया : ननु वह्निमान् धूमात् इति अत्र अव्याप्तिः । वह्निमान् महानसः । तद्भिन्नः पर्वतः। तस्मिन् धूमस्य वृत्तित्त्वात्, धूमे साध्यवभिन्ननिरूपितवृत्तिता सामान्याभावो नास्ति, अतो भवति अव्याप्तिः इति चेत् न साध्यवत्वावच्छिनप्रतियोगिताक-अभाववान् यः स एव साध्यवभिन्नपदेन गृह्यते । तथा च 'महानसः पर्वतीयवह्निमान् न' इति अत्र पर्वतीयवह्नित्वावच्छिन्नप्रतियोगिताक-भेद(अभाव)वान् महानसः यद्यपि अस्ति । किन्तु वहिनमत्वावच्छिन्नप्रतियोगिताक-भेद(अभाव)वान् महानस: नास्ति । अतो महानसादिः न साध्यवभिन्नपदेन गृह्यते । किन्तु 'हृदः वह्निमान् न' इति वक्तुं शक्यतया हृदः साध्यवत्वावच्छिनप्रतियोगिताकभेदवान् अस्ति । तस्मिन् धूमस्य अवृत्तित्त्वात् लक्षणसमन्वयः । ननु तथापि 'पर्वतः वह्निमान् अस्ति । किन्तु पर्वते वह्निमान् नास्ति' इति न्यायेन पर्वते वह्निमत्वावच्छिन्नप्रतियोगिताक-अभावो अस्ति । तथा च पर्वत: साध्यवभिन्नपदेन गृह्यते, तस्मिन् धूमस्य वृत्तित्त्वात् तदवस्थैव अव्याप्तिः ।। अत्र इदं अवधेयम् । पर्वते वह्निमत्वावच्छिन्नप्रतियोगिताकवह्निमत्-अत्यन्ताभावो अस्ति । स स्वपदेन वाच्यः । तेन स्वेन अवच्छिनः विशिष्टः पर्वतादि । तथा यत्र प्रदेशे पर्वतः वह्निमान् वर्तते, स प्रदेशस्तु न वह्निमद्-अत्यन्ताभाववान्, किन्तु वह्निमद्वान् । अतः स प्रदेशः न स्वावच्छिन्न-वह्निमद्अत्यन्ताभावविशिष्टः । अतः स प्रदेशः स्वावच्छिनेन भिन्नः वर्तते । पर्वतादिः च न स्वावच्छिन्नभिन्नः, किन्तु स्वावच्छिन्नः । अतः पर्वतादौ स्वावच्छिन्नभिन्नभेदः वर्तते । अत्र द्वयोः समव्यापकत्त्वात् वह्निमद्अत्यन्ताभावः स्वावच्छिन्नभिन्नभेदस्वरूपोऽपि अस्ति इति चेत् अत्रोच्यते । भेदत्वनिरूपिता या साध्यवत्वावच्छिन्ना प्रतियोगिता । तन्निरूपकाभाववान् एव साध्यवभिन्नपदेन वाच्यः इति । तथा च वह्निमद्अत्यन्ताभावस्य वह्निमनिष्ठा प्रतियोगिता अत्यन्ताभावत्वनिरूपिता, न तु भेदत्वनिरूपिता । अतो भेदत्वनिरूपितप्रतियोगिताकवह्निमद्-अत्यन्ताभाववान् पर्वतः न साध्यवभिन्नपदेन गृह्यते । किन्तु हृदो वह्निमत्भेदवान् इति अत्र इदे भेदत्वनिरूपितप्रतियोगिताक-वह्निमत्-अभावः अस्ति । तथा च तादृशाभाववान् हृदः साध्यवभिन्नपदेन गृह्यते, तस्मिन् धूमस्य अवृत्तित्त्वात् भवति लक्षणसमन्वयः । न च यदि वहिनमत्-अत्यन्ताभावः स्वावच्छिन्न भिन्नभेदरूपः, तहि वहिनमन्निष्ठा प्रतियोगिता भेदत्वनिरूपिता अस्ति एव । तत्कथं भेदत्व-अनिरूपिता सा प्रतियोगिता इति उच्यते इति वाच्यम् यतो भेदत्वनिरूपितत्वम् नाम तादात्म्यसंबंधावच्छिन्नत्वम् । वह्निमद्-अत्यन्ता-भावस्य वह्निमनिष्ठा प्रतियोगिता तु संयोगसंबंधावच्छिन्ना अस्ति । नतु तादात्म्यावच्छिन्ना । अतो यद्यपि वह्निमदत्यन्ताभावः स्वावच्छिन्न-भिन्नभेदरूपः । तथा पि न वह्निमत्निष्ठा अत्यन्ताभावीयप्रतियोगिता भेदनिरूपिता इति सा न गृह्यते इति ध्येयम् । ચાન્દ્રશેખરીયા: પ્રશ્નઃ વહ્નિમાનું ધૂમામાં અવ્યાપ્તિ આવશે, કેમકે મહાનસીયવહિનમથી અન્ય તરીકે પર્વત આવે. પર્વતીયવનિમથી અન્ય તરીકે મહાનસ આવે. અને તેમાં ધૂમ રહેલો છે. એટલે સાધ્યવભિન્નથી નિરૂપિત તમામ વૃત્તિતાનો અભાવ ધૂમમાં ન મળવાથી અવ્યાપ્તિ આવે છે. વ્યાપ્તિપંચક ઉપર ચાદ્રશેખરીયા નામની સરળટીકા ૦ ૯૮

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116