Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 111
________________ OOOOOOO 8080KMEROOoxoxo00x8000 अव्यभिचरितत्वं (पक्षः) न साध्याभाववत्-अवृत्तित्वरूपम् न साध्यवभिन्न-साध्याभाववत्-अवृत्तित्वरूपम् न साध्यवत्प्रतियोगिकभेद-असमानाधिकरणत्वरूपम् न सकलसाध्याभाववत्निष्ठ-अभावप्रतियोगित्वरूपम् न साध्यवभिन्न-अवृत्तित्वत्पम् केवलान्वयिसाध्यके अनुमाने एतत्पञ्चानामपि अभावात (हेतुः)। तथाहि इदं वाच्यम् प्रमेयत्त्वात् इति अत्र व्याप्यवृत्तिसाध्यके अनुमाने साध्यतावच्छेदकसंबंधावच्छिन्नप्रतियोगिताकवाच्यत्वाभावस्य अप्रसिद्धय़ा तादृशसाध्याभावघटितानां प्रथम-द्वितीय-चतुर्थलक्षणानां अव्याप्तिः । तथा साध्यतावच्छेदकसंबंधेन साध्यवत्वावच्छिन्नप्रतियोगिताक-वाच्यत्ववत्भेदस्य अप्रसिद्धया तादृशसाध्यवत्भेदघटितानां तृतीयपञ्चमलक्षणानां अव्याप्तिः । वाच्यत्वं सर्वत्र वर्तते । अतो वाच्यत्वाभाव: अप्रसिद्धः । सर्वे च पदार्थाः वाच्यत्ववन्तः । अतो, वाच्यत्ववत्भेदः अपि अप्रसिद्धः इति भावः । 'कपिसंयोगाभाववान् सत्त्वात्' इति अत्र अव्याप्यवृत्तिकेवलान्वयि-साध्यके अनुमाने, यद्यपि साध्याभावः कपिसंयोगरूपः प्रसिद्धः । किन्तु निरवच्छिना साध्याभावस्य-कपिसंयोगात्मकस्य अधिकरणता अप्रसिद्धा । अतः तादृशाधिकरणताघटितं चतुर्थं लक्षणं अव्याप्तं भवति । तथा कपिसंयोगाभावस्य केवलान्वयितया, भेदस्य व्याप्यवृत्तितानियमनये च कपिसंयोगाभावभेदस्य अप्रसिद्धया, द्वितीय-तृतीयपञ्चमलक्षणानां तादृक्भेदघटितानां अव्याप्तत्वम् ज्ञेयम् प्रथमलक्षणं तु यदि 'अन्ये तु' इत्यादिना अभिहितं गृह्यते । तदा तत् लक्षणं न अत्र अव्याप्तं इति तत्रैव भावितम् । यदि तु मूलं प्रथमलक्षणं गृह्यते । तदा तु तदपि साध्याभावस्य निरवच्छिन्नाधिकरणतायाः अप्रसिद्धत्त्वात् अव्याप्तं बोध्यम् । तृतीयलक्षणे यदि साध्यवत्वावच्छिन्नप्रतियोगिकभेदः न गृह्यते । किन्तु यथाश्रुतमेव गृह्यते, तदा वाच्यत्ववत्घटादिप्रतियोगिकः भेदः यद्यपि प्रसिद्धः । तथापि तादृशभेदवति पटादौ ज्ञेयत्वस्य वृत्तित्त्वात् भवति एव अव्याप्तिः । एतच्च तृतीयलक्षणव्याख्यानावसरे प्रपञ्चितमेव । __माथुरी : एतच्चोपलक्षणम् । द्वितीये कपिसंयोगी एतद्वृक्षत्वादित्यादावप्यव्याप्तिः । अधिकरणभेदेन अभावभेदे मानाभावेन कपिसंयोगवद्भिन्नवृत्तिकपिसंयोगाभाववति वृक्षे एतवृक्षत्वस्य वृत्तित्त्वात् । न च साध्यवद्भिन्नवृत्तित्वविशिष्टसाध्याभावदवृत्तित्वं वक्तव्यम् । एवं च वृक्षस्य विशिष्टाधिकरणत्वाभावान्नाव्याप्तिरिति वाच्यम् । साध्याभावपदवैयर्थ्यांपत्तेः, साध्यवद्भिनवृत्तित्वविशिष्टवदवृत्तित्वस्यैव सम्यक्त्वात् । सद्धेतौ हेत्वधिकरणे विशिष्टाधिकरणत्वाभावादेव असम्भवाभावात् । ચાન્દ્રશેખરીયા : અહીં એ ખ્યાલ રાખવો કે, આ ગ્રન્થની શરૂઆતમાં પૂર્વપક્ષે વ્યાપ્તિનું લક્ષણ શું છે? એ પ્રશ્ન કર્યો. એના ઉત્તરમાં મધ્યસ્થી માણસે અવ્યભિચરિતત્વ વ્યાપ્તિ એમ ખુલાસો આપ્યો. પૂર્વપક્ષે પૂછ્યું કે, અવ્યભિચરિતત્વ એટલે શું? એ પછી, એ અવ્યભિચરિતત્વના પાંચ અર્થો પાંચ લક્ષણરૂપે ઉપર બતાવ્યા. એના ઉપર વિસ્તૃત ચર્ચા કરી. પૂર્વપક્ષ કહે છે કે, અવ્યભિચરિતત્વ એ આ પાંચમાંથી એકે ય સ્વરૂપ નથી, કેમકે વ્યાતિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા • ૧૦૨

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116