________________
XXXXXXXX000000000000000
खावे. भाटे से उचित नथी.
चान्द्रशेखरीया : ननु तथापि भवद्भिः कथिते अर्थे दोषः । तथा हि स्वानिरुपकसाध्यकभिन्नत्वं भवता प्रतियोगिताविशेषणं कथितम् । तथा च प्रमेयाभावस्य यः कालिकेन अभाव:, सोऽपि साध्यान्तर्गतः एव । तथा च प्रमेयाभावनिष्ठा प्रतियोगिता प्रमेयाभावाभावात्मकेन साध्येन निरुपिता । तेन सा प्रतियोगिता अपि स्वनिरुपकसाध्यका एव, स्व-अनिरुपकसाध्यकभिन्ना एव । तस्याः अवच्छेदक: कालिकः इति भवति पूर्ववत् अव्याप्तिः । इति चेत् ।
ચાન્દ્રશેખરીયા ઃ પ્રશ્ન ઃ તમારા લક્ષણમાં પણ વાંધો તો છે જ. “સ્વ-અનિરુપર્ક સાધ્યકભિન્ન” વિશેષણ તમે લો છો. હવે પ્રમેયાભાવનો કાલિકથી અભાવ લઈએ તો પણ પ્રમેયાભાવમાં રહેલી પ્રતિયોગિતા એ પ્રમેયાભાવાભાવરૂપ પ્રમેયથી=સાધ્યથી નિરૂપિત જ છે. એટલે સ્વ-અનિરૂપક સાધ્યથી ભિન્ન તરીકે આ પ્રતિયોગિતા પણ લેવાય. એનો અવચ્છેદક કાલિક મળે. એટલે પૂર્વવત્ અવ્યાપ્તિ આવે.
चान्द्रशेखरीया : न, स्वानिरुपकयावत्साध्यकभिन्नत्वम् एव विशेषणम् । निरुक्तप्रतियोगिता न यावत्साध्यनिरुपिता इति सा स्वानिरुपकयावत् साध्यभिन्ना न भवति । तथा च न भवति अव्याप्तिः ।
यान्द्रशेजरीया : अभे स्व-अनि३पड यावत्-साध्य भिन्न” विशेषण आपशु.
चान्दशेखरीया : ननु असंगतमिदम् । पूर्वमेव यावत्पदनिवेशस्य गौरवं दृष्टवा भवता यावत्साध्यनिरुपितत्वम् विशेषणम् परिहृतम् । साम्प्रतं तदेव यावत्पदं गृह्यते । तर्हि तत् प्रथमविशेषणमेव श्रेयः । नञ्द्वय-अघटिततया लघुभूतत्त्वात् । न च तस्मिन् विशेषणे परिगृह्यमाणे कश्चिदपि दोषः प्रादुर्भवति । ચાન્દ્રશેખરીયા ઃ પ્રશ્ન ઃ આ તો તમે પાછો યાવત્ પદનો નિવેશ કર્યો. તો તો પછી “યાવત્ સાધ્યનિરૂપિતત્વ” લક્ષણ જ શું ખોટું ? આ તો મોટું ગૌરવ તમને જ આવે છે.
चान्द्रशेखरीया : सत्यम्, वस्तुतस्तु न यावत्साध्यनिरुपितत्वविशेषणे गौरवं दृष्ट्वा अन्यः प्रकारः समादृतः । किन्तु किदृशी प्रतियोगिता ग्राह्या इति अत्र अन्वयमुखेन उत्तरदानाय यावत्साध्यनिरुपितत्वम् उक्तम् । यथा यावत्साध्यनिरुपिता एव प्रतियोगिता ग्राह्या । व्यतिरेकमुखेन प्रत्युत्तरदानाय स्वानिरुपकयावत्साध्यकभिन्नत्वम् विशेषणम् उक्तम् । यथा या प्रतियोगिता यावत्साध्यनिरुपिता न भवति सा नैव ग्राह्या इति उचितं मे प्रतिभाति । अत्रत्यं तत्वं तु नैयायिक श्रेष्ठैरेव परिभावनीयम् इति अलं विस्तरेण ।
ચાન્દ્રશેખરીયા : ઉત્તર ઃ તમારી વાત સાચી છે. ખરી વાત એમ લાગે છે કે યાવત્સાધ્યનિરૂપિતત્વનો વ્યતિરેક દ્વારા અર્થ બતાવવા માટે જ “સ્વાનિરૂપક-યાવત્-સાધ્યક-ભિન્નત્યં” અર્થ કરેલો છે. અર્થાત્ જે પ્રતિયોગિતાનો યાવત્સાધ્ય નિરૂપક હોય તે જ લેવાની. એમ અન્વય-વ્યતિરેકથી નિરૂપણ કરવા માટે જ આ બે અર્થ કરવા ઉચિત લાગે છે.
चान्द्रशेखरीया : ननु अत्र प्रतियोगितायाः अवच्छेदकाः संबंधाः स्वरुप- समवाय- कालिकादयः अनेके मलन्ति । ते च अननुगताः । अतः इदं लक्षणं अनन्तस्वरुपादिसंबंधघटितं भवति । तथा च व्याप्तिनिष्ठा या अनुमितिकारणता तस्याः अवच्छेदकः यः व्याप्तित्वधर्मः । स अनंतसंबंधघटिततया गुरुभूतः, गुरुधर्मश्च अवच्छेदको न भवितुमर्हति । तथा च कारणतावच्छेदकधर्मे गौरवज्ञानस्य कारणताज्ञान- प्रतिबंधकत्त्वात्,
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
xxxxxxxxxxxxxxxxxx
xxxx*x*x*x*x*x*x*x*x*x*x*x*x*x*x*x*000000000DOOOOOOOOOX
વ્યાપ્તિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા ૦ ૩૧
xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx000000000000000