Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 93
________________ वह्नि-अभावस्य प्रतियोगितायाः वहनौ सत्त्वात् लक्षणसमन्वयात् अतिव्याप्तिः । तत्प्रक्षेपे च सकलानि साध्याभाववन्ति ग्राह्याणि । अतो भूतलादिवत् अयोगोलकं अपि साध्याभाववत्वेन गृह्यते । तस्मिन् वह्निअभावो नास्ति । तथा च वह्नौ सकलसाध्याभाववत्वृत्ति-अभावप्रतियोगितायाः अभावात् नातिव्याप्तिः इति ध्येयम् । ચાન્દ્રશેખરીયા અન્વયવ્યાપ્તિ જેમ અવ્યભિચરિત–શબ્દથી પ્રતિપાદ્ય બની શકે છે તેમ, વ્યતિરેકવ્યાપ્તિ પણ બની શકે છે. એ જણાવવા માટે, અહીં વ્યતિરેકવ્યાપ્તિ બોધક ચોથું લક્ષણ કહે છે. સકલસાધ્યાભાવવનિષ્ઠાભાવપ્રતિયોગિતમ્ આખા જગતમાં જેટલા સાધ્યાભાવવાળા છે. તે તમામમાં રહેલો જે અભાવ હોય તેની પ્રતિયોગિતા હેતુમાં રહેલી વ્યાપ્તિ ગણાય. જાડીભાષામાં કહીએ તો, જ્યાં જ્યાં સાધ્યાભાવ ત્યાં ત્યાં હેતુ-અભાવ એવો અર્થ થાય. અહીં, સકલ શબ્દને સાધ્યાભાવવાના વિશેષણ તરીકે ન લો. તો “ધૂમવાનું વહુનેઃ”માં ધૂમાભાવવહૃદમાં વૃત્તિ વહિન-અભાવની પ્રતિયોગિતા વહિન-હેતુમાં હોવાથી અતિવ્યાપ્તિ આવે. પણ, “સકલ મુકવાથી વાંધો ન આવે. કેમકે તમામે તમામ ધૂમાભાવવાળામાં તો અયોગોલક પણ આવે. અને તેમાં તો વહિન-અભાવ નથી. એટલે વહિન એ સકલ સાધાભાવવત્ નિષ્ઠ-અભાવનો પ્રતિયોગી ન બનવાથી અવ્યાપ્તિ ન આવે. माथुरी : साध्याभावविशेषणत्वे तत्तद्हुदावृत्तित्वेन रूपेण यो वह्नयाद्यभावस्तस्यापि सकलसाध्याभावत्वेन प्रवेशात्तावदधिकरणाप्रसिद्धयाऽसंभवापत्तेः । चान्द्रशेखरीया : ननु सकलपदं साध्याभावविशेषणं क्रियते, तदापि अतिव्याप्तिनिरास: भवति । तथा हि 'धूमवान् वह्नः' इति अत्र पूर्वं अतिव्याप्तिः उक्ता । तन्निरासाय सकलपदं साध्याभाववत्विशेषणं भवता कृतम् । किन्तु साध्याभावविशेषणं सकलपदं क्रियते, तदापि नातिव्याप्तिः । यतो, हृदे अयोगोलक-अवृत्तिः नास्ति, इति वक्तुं न शक्यते । अयोगोलके अवृत्ति जलादि हृदे वर्तते इति हेतोः । तस्मात् हृदे अयोगोलकअवृत्तिनः अभावः न शक्यते वक्तुम् । अयोगोलक-अवृत्ति च यथा जलादि, तथा धूमोऽपि । अतः अयोगोलक-अवृत्तिअभावः धूमाभावरूपोऽपि मन्यते । अर्थात् स साध्याभावात्मकः । स च हृदे नास्ति । अतो हुदे सकलानां साध्याभावानां अवृत्तित्त्वात् सकलानां साध्याभावानां अधिकरणं हृदः न शक्यः भवितुम् । एवं अयोगोलकेऽपि हृद-अवृत्ति-अभावः साध्याभावरूपो नास्ति । यतो अयोगोलके हुद-अवृत्ति-वह्निः वर्तते । अतः, अयोगोलकमपि सकलानां साध्याभावानां अधिकरणं न भवति । एवं अत्र सकलसाध्याभावानां अधिकरणं एव अप्रसिद्धं । अतो लक्षणस्य समन्वयाभावात् नातिव्याप्तिः इति चेत् तर्हि लाभमिच्छतो मूलक्षतिः आयाता । यतो अतिव्याप्तिनिरासो भवदुक्तरीत्या भविष्यति । किन्तु एवंकरणे 'हृदे भूतल-अवृत्तिः नास्ति' इति न शक्यते वक्तुं । भूतल-अवृत्ति च जलादिवत् वहिनरपि । तथा च भूतल-अवृत्ति-अभाव: साध्याभावरूपोऽपि भवति, तस्य च अधिकरणं हृदः न भवति । अतो हृदः सकलानां साध्याभावानां अधिकरणं न भवति । एवंरीत्या अत्र सर्वत्र च सकलानां साध्याभावानां अधिकरणस्य अप्रसिद्ध्या, कुत्रापि लक्षण વ્યાતિપંચક ઉપર ચાદ્રશેખરીયા નામની સરળટીકા ૦ ૮૪ Chung Thanh PhonơionGuuuuuuuuuuuuuuƯƠhơnữ GUUUUuhuhuhuhuhờUTTON

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116