Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 99
________________ કેમકે પૃથ્વીત્વાભાવવાન્ તરીકે જલ-આકાશાદિ બધા આવશે. આ બધામાં કપિસંયોગાભાવ તો છે જ. જલાદિમાં કપિસંયોગ છે. તેમાં પણ કોઈક ભાગમાં કપિસંયોગાભાવ પણ છે જ. એટલે, અહીં સકલસાધ્યાભાવવવૃત્તિ-એવો કપિસંયોગાભાવ મળી જાય છે. માટે અતિવ્યાપ્તિ આવે. ઉત્તર ઃ સકલસાધ્યાભાવવત્ નિરુપિત એવી વૃત્તિતા પણ નિરવચ્છિન્ન જ લેવાની. અહીં, પૃથ્વીત્વાભાવવાળા એવા જલાદિથી નિરુપિત એવી કપિસંયોગાભાવમાં રહેલી વૃત્તિતા તો, કિચ્ચિદૅશાવચ્છિન્ન જ છે. નિરવચ્છિન્ન નથી, એટલે અહીં નિરવચ્છિન્નવૃત્તિતા ન મળવાથી અતિવ્યાપ્તિ ન આવે. કેમકે તે જલાદિનિરૂપિત-નિરવચ્છિન્ન-વૃત્તિતાવાળો તો ઘટાદિ-અભાવ મળે. અને, તેની પ્રતિયોગિતાનો અવચ્છેદક अपिसंयोगत्व जनतो ४ नथी. माटे, लक्षण घटतुं नथी. माथुरी : न चैवमन्योन्याभावस्य व्याप्यवृत्तितानियमनये द्रव्यत्वभाववान् संयोगवद्भिन्नत्वादित्यादेरपि सद्धेतुतया तत्राव्याप्तिः, संयोगवद्भिन्नत्वाभावस्य संयोगरूपस्य निरवच्छिन्नवृत्तेरप्रसिद्धेरिति वाच्यम् । अन्योन्याभावस्य व्याप्यवृत्तितानियमनयेऽन्योन्याभावस्याभावो न प्रतियोगितावच्छेदकस्वरूपः किन्त्वतिरिको व्याप्यवृत्तिः अन्यथा मूलावच्छेदेन कपिसंयोगिभेदाभावभानानुपपत्तेरिति संयोगवद्भिन्नत्वाभावस्य निरवच्छिन्नवृत्तिमत्त्वात् । चान्द्रशेखरीया : ननु भेदो व्याप्यवृत्तिः इति नियमानुसारेण तु, 'गुणः द्रव्यत्वाभाववान् संयोगवत्भिन्नत्वात्' (संयोगवत् भेदात् ) इति अत्र सर्वाणि द्रव्याणि यत्किंचित्देशावच्छेदेन संयोगवन्ति, यत्किचित्देशावच्छेदेन च संयोगाभाववन्ति । अतो यदि द्रव्ये संयोगवत् भेदो मन्यते, तर्हि स अव्याप्यवृत्तिः मन्तव्यःस्यात्, संयोगदेशावच्छेदेन संयोगवत् भेदाभावात्, संयोगाभावदेशावच्छेदेन च संयोगवत् भेदस्य सत्त्वात्। तथा च भेदो अव्याप्यवृत्तिः प्रसज्येत । तद्वारणाय द्रव्ये संयोगवत्भेदो नाभिमन्यते किन्तु गुणादौ । तथा च यत्र संयोगवत्भेदः तत्र द्रव्यत्वाभावः इति समीचीनं इदं स्थानम् । किन्तु अत्र अव्याप्तिः भवति । तथा हि द्रव्यत्वाभावाभाववति द्रव्ये संयोगवत्भेदाभावः संयोगरूपो हेत्वभावात्मकः किञ्चिद्देशावच्छिन्नो वर्तते । न तु निरविच्छन्नः । तथा च अत्र साध्याभाववत्द्रव्यनिरूपिता । निरवच्छिन्नवृत्तिता हेत्वभावे संयोगे न मीलति । किन्तु द्रव्यवृत्ति यः गुणत्वाभाव:, तस्मिन् द्रव्यनिरूपिता निरवच्छिन्ना वृत्तिता वर्तते । तद्वृत्तितामान् गुणत्वाभावः । तस्य प्रतियोगितावच्छेदकं गुणत्वत्वं न हेतुतावच्छेदकं अतो लक्षणस्य अगमनात् अव्याप्तिः इति चेत् अत्रोच्यते भेदस्य व्याप्यवृत्तितानये भेदाभावो न प्रतियोगितावच्छेदक-संयोगादिरूपः किन्तु सर्वथा भिन्नः, व्याप्यवृत्तिश्च, तथा च संयोगवत्भेदाभावः न संयोगरूपः । यदि स संयोगरूपः मन्यते, तदा महत् सङ्कटं। तथा हि पूर्वमुक्तम् यत् वृक्षादौ कुत्रापि संयोगवत्भेदो न वर्तते । तथा च वृक्षे संयोगवत्भेदाभावः सर्वत्र वर्तते । अतः एव मूलावच्छेदेनाऽपि "वृक्षः संयोगवत्भेदाभाववान्" इति प्रतीतिः भवति । किन्तु संयोगवत्भेदाभावस्य संयोगस्वरूपत्वं यदि अङ्गीक्रियते । तर्हि संयोगवत्भेदाभावः संयोगरूपः एव । वृक्षे च मूलावच्छेदेन संयोगः नास्ति । तर्हि मूलावच्छेदेन "वृक्षः संयोगवत्भेदाभाववान्" इति या प्रतीतिः, सा नोपपद्यते । मूलावच्छेदेन संयोगवत्भेदाभावस्य संयोगरूपस्य असत्त्वात् । एतद्वारणायैव भेदाभावः एतन्मते भिन्नः एव। न संयोगादि વ્યાપ્તિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા ૭ ૯૦ I xxxxxxxxxxxxxx********* ०००००००००००० *********************XXXXXXXXXXXXXXXXXX

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116