Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 95
________________ જ લખેલો છે, એ જાણવું. माथुरी : न च द्रव्यं सत्त्वादित्यादौ द्रव्यत्वाभाववति गुणादौ सत्त्वादेविशिष्टाभावादिसत्त्वादतिव्याप्तिरिति वाच्यम् । तादृशाभावप्रतियोगितावच्छेदकहेतुतावच्छेदकवत्त्वस्येह विवक्षितत्वात् । प्रतियोगिता च हेतुतावच्छेदकसम्बन्धावच्छिन्ना ग्राह्या । तेन द्रव्यत्वाभाववति गुणादौ सत्तादेः संयोगसम्बन्धावच्छिन्नाभावसत्त्वेपि नातिव्याप्तिः । साध्याभावश्च साध्यतावच्छेदकसम्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताको ग्राह्यः, अन्यथा पर्वतादावपि वक़्यादेविशिष्टाभावादिसत्त्वेन समवायादिसम्बन्धावच्छिन्नवल्य भावादिसत्त्वेन च यावदन्तर्गततया तन्निष्ठाभावप्रतियोगित्वाभावाद् धूमस्यासम्भवः स्यात् । - चान्द्रशेखरीया : ननु "दव्यं सत्त्वात्" इति अत्र द्रव्यत्वाभाववति गुणे विशिष्टसत्तायाः अभावः । तत्प्रतियोगिनी विशिष्टसत्ता । तदभिन्ना शुद्धसत्ताऽपि भवति, सा एव अत्र हेतुः । अतो लक्षणसमन्वयात् अतिव्याप्तिः इति चेत् न सकलसाध्याभाववत्-वृत्तिअभावप्रतियोगितावच्छेदकहेतुतावच्छेदक-धर्मवत्वम् इति परिष्कारः । तथा च गणवत्ति-विशिष्टाभावप्रतियोगितायाः अवच्छेदकं विशिष्टसत्तात्वम्, न तु शुद्धसत्तात्वम् । अतो अत्र शुद्धसत्तात्वम् हेतुतावच्छेदकम् प्रतियोगितावच्छेदकं न भवति इति लक्षण-अगमनात् नातिव्याप्तिः। न च तथापि गुणे संयोगेन सत्तायाः अभावो अस्ति । तथा च द्रव्यत्वाभाववति गुणे संयोगावच्छिनप्रतियोगिताक: यः सत्ता-अभावः, तत्प्रतियोगितावच्छेदकं शुद्धसत्तात्वम् एव अत्र हेतुतावच्छेदकं इति पुनव्याप्तिः इति वाच्यम् । हेतुतावच्छेदकसंबंधावच्छिन्नप्रतियोगिताकः एव अभावः अत्र लक्षणघटको ग्राह्यः । अत्र स्थले समवायः हेतुतावच्छेदकसंबंधः । तथा च गुणवृत्तिः संयोगावच्छिन्नप्रतियोगिताक: सत्ता-अभाव: न ग्रहीतुं शक्यः, तस्य समवायावच्छिन्नप्रतियोगिताकत्वाभावात् । अतो गुणवृत्तिसमवायावच्छिनप्रतियोगिताको द्रव्यत्वादि-अभाव एव गृह्यते । तस्य प्रतियोगितावच्छेदकं द्रव्यत्वत्वम्, न तु शुद्धसत्तात्वम् तथा च नातिव्याप्तिः । ननु पर्वत: महानसीयवह्निमान् नास्ति, अतः साध्याभाववत्पदेन पर्वतोऽपि गृह्यते । तत्र धूमाभावस्य असत्त्वात् अव्याप्तिः इति चेत् न, साध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगिताकः एव साध्याभावो ग्राह्यः । महानसीयवह्निअभावः तु महानसीयवह्नित्वावच्छिन्नप्रतियोगताकः, न तु साध्यतावच्छेदक वह्नित्वावच्छिन्नप्रतियोगिताकः । अतः स न गृह्यते । वह्नित्वावच्छिनप्रतियोगिताको वह्नि-अभावस्तु पर्वते नास्ति । किन्तु भूतलादौ । तत्र च धूमस्य अवृत्तित्त्वात् लक्षणसमन्वयात् न अव्याप्तिः ।। न च पर्वतेऽपि समवायेन वह्नः अभावात् समवायावच्छिन्नवह्नित्वावच्छिन्नप्रतियोगिताको वह्निअभावः पर्वते मीलति । तथा च पर्वतस्य साध्याभाववत्पदेन ग्रहणात् पूर्ववत् अव्याप्तिः इति वाच्यम् साध्याभावः साध्यतावच्छेदकसंबंधावच्छिन्नप्रतियोगिताकोऽपि ग्राह्यः । समवायावच्छिन्नवह्नित्वा MERIKOREKOMARRIORRRRRRRRRRORXXIMORRIMORRHORORORROOMROMORRORIERRAIMIXOXOHORROROMORRIORARIYARORNKIRIKONMIKOKSKIROXERRRRRRORIOR વ્યાતિપંચક ઉપર ચાબરીયા નામની સરળટીકા ૦ ૮૬ XxxxxxxxxxxxxxxxXRNOKARSIKKKARNAKXxxxxxxXRRRRRIORAKAKIRTHIRORIORRRRRORIWORKERIARRIAXXXKAMIRIKAARKAKKKOXxxKRKAKKAKKARORWAROKARIOXKRIRIKARIORITERS

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116