Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
संयोगावच्छिन्नवृत्तिता वह्नौ मीलिता । अतो, अस्याः वृत्तितायाः संयोगावच्छिनवृत्तिताप्रतियोगिकस्वरूपसंबंधेन वह्नौ वृत्तित्वात्, वृत्तितासामान्याभावो न मीलति । तथा च न अतिव्याप्तिः ।
"इदं वह्निमत् समवायेन गगनात्"
इति अत्र गगनत्वावच्छिन्नगगननिरूपित-अधिकरणतायाः एव अप्रसिद्धत्त्वात् न लक्षणसमन्वयः, तेन न भवति अतिव्याप्तिः ।
"सत्तावान् द्रव्यत्त्वात्" इति अत्र
द्रव्यत्वत्वाच्छिन्नद्रव्यत्वनिरूपिता या द्रव्यनिष्ठा अधिकरणता, तन्निरूपिता समवायावच्छिना वृत्तिता द्रव्यत्वे वर्तते । तथा च अत्र समवायावच्छिन्नवृत्तिताप्रतियोगिकस्वरूपसंबंधेन तादृशी वृत्तिता द्रव्यत्वे हेतौ वर्तते।
अथ सत्ता-अभावत्वविशिष्ट-सत्ता-अभावनिरूपिता तादृशी निरवच्छिन्ना अधिकरणता सामान्यादौ । पूर्वं साध्याभावाधिकरणे हेतुतावच्छेदकसंबंधेन वृत्तिता विवक्षिता । अतः एव सत्ता-अभावाधिकरणे हेतुतावच्छेदकसमवायेन वृत्तितायाः अप्रसिद्धत्त्वात् अव्याप्तिः आगता । किन्तु सम्प्रति “साध्याभावाधिकरणे हेतुतावच्छेदकसंबंधेनैव वृत्तिता ग्राह्या" इति न नियमः । केनापि संबंधेन गृह्यताम् न काचित् क्षतिः । तथा च सामान्ये स्वरूपसंबंधेन सामान्यत्वादि वर्तते । अतः, सामान्यनिरूपिता स्वरूपावच्छिन्ना वृत्तिता सामान्यत्वादौ प्रसिद्धा । सा च न समवायावच्छिन्नवृत्तितारूपा, किन्तु तद्भिन्ना एव । अतः इयं स्वरूपावच्छिन्नवृत्तिता स्वरूपावच्छिन्नवृत्तिताप्रतियोगिकसंबंधेनैव, सामान्यत्वादौ वर्तते । एवं च यथा गुणः संयोगेन कुत्रापि नास्ति, अतः संयोगावच्छिन्नप्रतियोगिताको गुणाभावः सर्वत्र वर्तते । एवम् स्वरूपावच्छिन्नवृत्तिता समवायावच्छिन्नवृत्तिताप्रतियोगिकसंबंधेन कुत्रापि नास्ति, अत: तादृशवृत्तिता-अभावः केवलान्वयी । तेन तादृशवृत्तिता-अभावो द्रव्यत्वे हेतौ वर्तते एव । अतो भवति लक्षणसमन्वयः । तथा च न अव्याप्तिः ।
"घट: द्रव्यं सत्त्वात्" इति अत्र
सत्तात्वावच्छिन्नसत्ताधिकरणता द्रव्य-गुण-कर्मादौ । तदधिकरणता-निरूपिता समवायावच्छिन्नवृत्तिता तादृशसमवायावच्छिनवृत्तिता-प्रतियोगिकस्वरूपसंबंधेन सत्तायां वर्तते। ___ तथा द्रव्यात्वाभावनिरूपिता तादृशी अधिकरणता गुणादौ । तस्मिन् गुणे सत्ता समवायेन वर्तते । अतो गुणनिरूपिता समवायावच्छिन्ना वृत्तिता सत्तायां मीलिता । तथा च हेत्वधिकरणनिरूपिता साध्याभावाधिकरणनिरूपिता एका एव वृत्तिता सत्तायां मीलिता । एवं च समवायावच्छिन्न-वृत्तिताप्रतियोगिकस्वरूपसंबंधेन समवायावच्छिन्नायाः साध्याभावाधिकरणगुणनिरूपितायाः वृत्तितायाः सत्तायां सत्त्वात् न भवति अतिव्याप्तिः।
"द्रव्यं विशिष्टसत्त्वात्" इति अत्र
विशिष्टसत्तात्वावच्छिन्ना विशिष्टसत्ता एव, न तु शुद्धसत्ता । तथा च तादृश्याः विशिष्टसत्तायाः अधिकरणता द्रव्ये एव । तदधिकरणतानिरूपिता समवायावच्छिन्ना वृत्तिता तादृशसमवायावच्छित्रवृत्तिताप्रतियोगिक
વ્યાતિપંચક ઉપર ચાજશેખરીયા નામની સરળટીકા ૦ ૫૫ OHORROROOMIKOKAROKKARKIOKEKOKAROKORARKARKIRRRORIRRRRRRRRRRRORORRORROREKKARKIRRORRRIORRRRRIORAKSROKAROORXXXKARKKRKSRXXXKICKASOKRKXKAKNOMORRORS

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116