Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
घटभेदाभावाभावो न घटभेदरूपः, अपि तु घटभेदनिरुपिता या घटनिष्ठा प्रतियोगिता, तस्याः अवच्छेदको यो घटत्वात्मको धर्मः, तदभावरूपः एव । अर्थात् घटभेदाभावाभावो घटत्वाभावः एव, न घटभेदः इति अस्माकं अभिमतं । एवं च घटत्वे साध्याभावे न घटभेदेन साध्येन निरूपिता प्रतियोगिता । एवं च तादृशप्रतियोगितायाः अप्रसिद्धः अव्याप्तिः भवति इति चेत् ।।
ચાન્દ્રશેખરીયાઃ શંકા : બીજા તમામ પદાર્થોના અભાવોનો અભાવ એ પદાર્થ સ્વરૂપ ભલે બને. પણ, ભેદના અભાવનો અભાવ એ તો ભેદ સ્વરૂપ ન જ બને. એ તો ભેદનિરૂપિતપ્રતિયોગિતાના અવચ્છેદકઘટત્વાદિના અભાવ સ્વરૂપ જ બને. ઘટભેદનો પ્રતિયોગિ, ઘટ, તેમાં રહેલી પ્રતિયોગિતાનો અવચ્છેદક ઘટત્વ બને. એટલે ઘટભેદભાવાભાવ એ ઘટભેદ સ્વરૂપ નથી પણ ઘટતાભાવ સ્વરૂપ જ છે. અને, માટે ઘટત્વમાં સાધ્યનિરૂપિત પ્રતિયોગિતા ન મળેવાથી પૂર્વવત્ અવ્યાપ્તિ આવે. ___ माथुरी : यथाहि घटत्वावच्छिनघटवत्ताग्रहे घटात्यन्ताभावस्याग्रहाद् घटात्यन्ताभावाभावव्यवहाराच्च घटात्यन्ताभावाभावो घटस्वरूपस्तथा घटभेदवत्ताग्रहे घटभेदात्यन्ताभावाऽग्रहाद् घटभेदात्यन्ताभावाभावव्यवहाराच्च घटभेद एव तदत्यन्ताभावत्वावच्छिन्नप्रतियोगिताकाभाव इति तत्सिद्धान्तो न युक्तिसह इति ।।
विनिगमकाभावेऽपि घटत्वत्वावच्छिन्नप्रतियोगिताकाभाववद् घटभेदस्यापि घटभेदात्यन्ताभावाभावत्वसिद्धेरप्रत्यूहत्वाच्च । अत एव तादृशसिद्धान्तो नोपाध्यायसम्मतः । अत एव च 'अभावविरहात्मत्वं वस्तुनः प्रतियोगिता' इत्याचार्याः । अन्यथा घटभेदात्यन्ताभावप्रतियोगिनि घटभेदे तल्लक्षणाव्याप्तेः अन्योन्याभावप्रतियोगितावच्छेदकघटत्वात्यन्ताभावे तल्लक्षणस्यातिव्याप्त्यापत्तेश्च । न चैवं घटत्वत्वावच्छिन्नप्रतियोगिताकघटत्वात्यन्ताभावस्यापि घटभेदस्वरूपत्वापत्तिरिति वाच्यम् । तदत्यन्ताभावत्वावच्छिनप्रतियोगिताकाभावस्यैव तत्स्वरूपत्वाभ्युपगमात्तद्वत्ताग्रहे तादृशतदत्यन्ताभावाभावस्यैव व्यवहारात् । उपाध्यायैर्घटत्वत्वावच्छिनप्रतियोगिताकघटत्वात्यन्ताभावस्यापि घटभेदस्वरूपत्वाभ्युपगमाच्च । ___ चान्द्रशेखरीया : न, घटाभावाभावस्य ज्ञानं घटाभावज्ञानस्य प्रतिबंधं करोति, इति नियमः । अर्थात् घटाभावाभावज्ञानं कारणं, घटाभावज्ञानप्रतिबंध: कार्यम् । यत्र भूतले घटज्ञानं जायते, तत्रापि घटाभावज्ञानप्रतिबंधः भवति । यदि घटो घटाभावाभावात् भिन्नो मन्यते, तर्हि अत्र घटाभावाभावज्ञानं कारणं नास्ति, तथाऽपि घटाभावज्ञानप्रतिबंधः कार्यं अस्ति इति व्यतिरेकव्यभिचारः । तस्य निवारणार्थं घटाभावाभावो घटात्मको मन्यते । एवं च घटज्ञानं घटाभावाभावज्ञानरूपं एव । अर्थात् अत्र कारणं अस्ति, तेन घटाभावज्ञानप्रतिबंधरूपं कार्य भवति । अतो अत्र न व्यतिरेकव्यभिचारः ।
तथा घटभेदाभावाभावज्ञानं कारणं, घटभेदाभावज्ञानप्रतिबंधः कार्यम् । यत्र पटे घटभेदज्ञानं जातम् तत्र
વ્યાતિપંચક ઉપર ચાર્જશોખરીયા નામની સરળટીકા ૦ ૩૫ ARRAONKOKARINEEREMONSKORORKOROTIKOKHREASKSIKOKANERNARRIORRORIORRRRRRRRRR88888888888888KRAMIKRKEKORORSCRIKOKAKKARKIARREARRIORSRIORSROKAROKKAKKARO

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116