Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
XXXXXXXXXXXXXXXXXXXXXXG
प्रतियोगिताको यः साध्याभाव:, तस्मिन् वृत्तिः या साध्याभावाभावनिरुपिता अर्थात् साध्यसामान्यनिरुपिता प्रतियोगिता, तस्याः अवच्छेदकः यः संबंध:, तेन संबंधेन साध्यतावच्छेदक-संबंधावच्छिन्न-साध्यतावच्छेदकधर्मावच्छिन्न प्रतियोगिताकः अभावः यत्र वर्तते, तस्मिन् हेतोः अवृत्तित्वम् व्याप्तिः ।
न च अत्र साध्यतावच्छेदकसंबंधावच्छिन्न-साध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगितायाः सकृत् एव ग्रहणमुचितम् किं पुनरुक्त्या इति शङ्कयम् अग्रे तस्याः प्रयोजनं वक्ष्यते ।
अत्र दृष्टान्तद्वारा लक्षणसमन्वयः क्रियताम् ।
यथा पर्वतो वह्निमान् धूमात् ।
अत्र साध्यतावच्छेदकसंबंधः संयोगः, धर्मः च वह्नित्वम् । तथा च संयोगावच्छिन्नवह्नित्वावच्छिन्नप्रतियोगिताको यः वहिन - अभाव:, तस्य स्वरुपेण अभाव:, वहिन - अभावाभाव:, वहिनरुपः । तस्य प्रतियोगिता वह्नि-अभावे वर्तते । सा प्रतियोगिता वह्नि - अभावाभावात्मकेन वह्निरुपेण साध्येन निरुपिता । तथा च तादृशप्रतियोगितावच्छेदक संबंध: अत्र स्वरुपः तेन वह्नि - अभावो भूतलादौ वर्तते । तत्र च धूमस्य अवृत्तित्त्वात् लक्षणसमन्वयः ।
...............
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
पटः घटत्वाभाववान् पटत्त्वात् इति अत्र,
समवायावच्छ्न्निप्रतियोगिताको घटत्वाभावः स्वरुपेण साध्यः, तथा च साध्यतावच्छेदक संबंध: स्वरुपः, धर्मो घटत्वाभावत्वम् । तथा च स्वरुपसंबंधावच्छिन्नघटत्वाभावत्वावच्छिन्नप्रतियोगिताको यः घटत्वाभावाभावः घटत्वरुपो साध्याभाव: । तस्य अभावो घटत्वाभावात्मको घटत्वाभावाभावाभावः भवति । तस्य प्रतियोगिता घटत्वे वर्तते । सा प्रतियोगिता घटत्वाभावेन साध्येन निरुपिताः । एवं च मीलिता यथोक्तप्रतियोगिता । अस्याः प्रतियोगितायाः अवच्छेदक संबंध: समवायः एव । यतो घटत्वस्य समवायेनैव अभावः अत्र साध्यरुपो वर्तते । अतः साध्याभावस्य घटत्वरुपस्य समवायेनैव अभावो गृह्यते । येन घटत्वनिष्ठा प्रतियोगिता साध्येन निरुपिता भवति ।
तथा च तादृशप्रतियोगितावच्छेदकः समवायः भवति । तेन संबंधेन स्वरुपसंबंधावच्छिन्नघटत्वाभावत्वावच्छिन्नप्रतियोगिताकस्य घटत्वाभावाभावस्य घटत्वरुपस्य अधिकरणं घटः, तस्मिन् पटत्वस्य अवृत्तित्त्वात् भवति लक्षणसमन्वयः ।
यदि च, साध्याभावस्य घटत्वस्य कालिकादिना अभावो गृह्यते, तदा स साध्यात्मको न भवति । तथा च तत्र घटत्वनिष्ठा प्रतियोगिता साध्यनिरुपिता न मीलति । अतः समवायेनैव घटत्वस्य अभावो गृहीतः इति ध्येयम् ।
अत्र इदं स्वमनसि स्थिरीकर्तव्यम् ।
घटत्वाभावः=साध्यम्
XXXXXXXXXXXXXXXXXXXXXXXX
0000000000XXXXXXG
વ્યાપ્તિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા ૭ ૨૫
xxxxxxxxxxxxxxxxxxxxxxxxxx
0000000000000∞∞∞xxxxxxx

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116