Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 272
________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५०५ ॥ CLOCKS | विगतमलकल्पसूक्ष्मतरवालाग्रः प्रमार्जनिकाप्रमृष्टकोष्ठागारवत्, तथा 'निट्ठिय'त्ति अपनेयद्रव्यापनयमाश्रित्य निष्ठां गतः विशिष्टप्रयत्नप्रमार्जितकोष्ठागारवत्, तथा 'निल्लेव'त्ति अत्यन्तसंश्लेषात्तन्मय तागत वालाग्रापहारादपनी तभित्त्यादिगतधान्य लेपकोष्ठागारवत्, अथ कस्मान्निर्लेपः ? इत्यत आह- 'अवहडे 'ति निःशेषवालाग्रलेपापहारात्, अत एव 'विसुद्धे 'ति रजोमल कल्पवालाग्रविगमकृतशुद्धत्वापेक्षया लेपकल्पवालाग्रापहरणेन विशेषतः शुद्धो विशुद्धः, एकार्थाश्चैते शब्दाः, व्यावहारिकं चेदमद्वापल्योपमं इदमेव यदाऽसङ्ख्येय| खण्डीकृतैकैक वालाग्रभृतपल्याद्वर्षशते २ खण्डशोऽपोद्धारः क्रियते तदा सूक्ष्ममुच्यते, समये समयेऽपोद्धारे तु द्विधैवोद्धारपल्योपमं भवति, तथा तैरेव वालाग्रेर्ये स्पृष्टाः प्रदेशास्तेषां प्रतिसमयापोद्धारे यः कालस्तद्वयावहारिकं क्षेत्रपल्योपमं, पुनस्तैरेवासङ्ख्ये यखण्डीकृतैः स्पृष्टास्पृष्टानां तथैवापोद्धारे यः कालस्तत्मक्ष्मं क्षेत्रपल्योपमम् ॥ एवं सागरोपममपि विज्ञेयमिति ॥ कालाधिकारादिदमाह'जंबुद्दीवे ण' मित्यादि, 'उत्तमट्ठपत्ताए'ति उत्तमान् - तत्कालापेक्षयोत्कृष्टानर्थान् - आयुष्कादीन् प्राप्ता उत्तमार्थप्राप्ता उत्तमकाष्ठां प्राप्ता वा प्रकृष्टावस्थां गता तस्याम् 'आगार भाव पडोयारे'ति आकारस्य आकृतेर्भावाः - पर्यायाः, अथवाऽऽकाराच भावाच | आकारभावास्तेषां प्रत्यवतारः - अवतरणमाविर्भाव आकारभाव प्रत्यवतारः 'बहुसमरमणिज' ति बहुसमः - अत्यन्तसमोऽत एव रमणीयो यः स तथा, 'आलिंगपुत्रखरेति मुरजमुखपुढं, लाघवाय सूत्रमतिदिशन्नाह – 'एक' मित्यादि, उत्तरकुरुवक्तव्यता च जीवाभिगमोक्तवं दृश्या- 'मुइंगपुक्खरेइ वा सरतलेइ वा' सरस्तलं सर एव 'करतलेइ वा' करतलं कर एवेत्यादीति । एवं भूमिसमताया भूमिभागगततृणमणीनां वर्णपञ्चकस्य सुरभिगन्धस्य मृदुस्पर्शस्य शुभशब्दस्य वाप्यादीनां वाप्याद्यनुगतोत्पात पर्वतादीनामुत्पात पर्वताद्याश्रितानां हंसासनादीनां लतागृहादीनां शिलापट्टकादीनां च वर्णको वाच्यः, तदन्ते चैतद् दृश्यम् -'वत्थ णं बहवे भारहया मणुस्सा मणुस्सीओ ६ शतके उद्देशः ७ पल्योपमादि सू० २४७ प्र०आ०२७७ ॥५०५॥

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367