Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown
View full book text
________________
4
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५२७॥
| ७ शतके
उद्देशः१ सामायिकवतयोःक्रिया दानफलं सू० २६१ २६२-२६३
-
%ARC-24
'समणेत्यादि, 'सामाइयकडस्मति कृतसामायिकस्य, तथा 'श्रमणोपाश्रये साधुवसतावासीनस्य-तिष्ठतः 'तस्स ण'|न्ति यो यथार्थस्तस्य श्रमणोपासकस्यैवेति, किलाकृतसामायिकस्य तथा साध्वाश्रयेऽनवतिष्ठमानस्य भवति साम्परायिकी क्रिया, विशेषणद्वययोगे पुनर्यापथिकी युक्ता, निरुद्धकषायत्वादित्याशङ्का, अतोऽयं प्रश्नः, उत्तरं तु 'आयाहिकरणी भवति त्ति आत्मा-जीवः अधिकरणानि-हलशकटादीनि कषायाश्रयभूतानि यस्य सन्ति सोऽधिकरणी, ततश्च 'आयाहिकरणवत्तियं च णं'ति आत्मनोऽधिकरणानि आत्माधिकरणानि तान्येव प्रत्ययः-कारणं यत्र क्रियाकरणे तदात्माधिकरणप्रत्ययं साम्परायिकी क्रिया क्रियत इति योगः ॥ श्रमणोपासकाधिकारादेव 'समणोवासगे'त्यादि प्रकरणम्, तत्र च 'तसपाणसमारंभेति सवधः 'नो खलु से तस्स अतिवायाए आउट्टइत्ति न खलु असौ 'तस्य' त्रसप्राणस्य 'अतिपाताय'वधाय 'आवर्तते' प्रवर्तते इति न सङ्कल्पवधोऽसौ, सङ्कल्पवधादेव च निवृत्तोऽसौ, न चैप तस्य संपन्न इति नासावतिचरति व्रतं, 'किं चयइत्ति किं ददातीत्यर्थः, 'जीवियं चयइत्ति जीवितमिव ददाति, अन्नादि द्रव्यं यच्छन् जीवितस्यैव त्यागं करोतीत्यर्थः, जीवितस्येवान्नादिदव्यस्य दुस्त्यजत्वात्, एतदेवाह-'दुच्चयं चयइत्ति दुस्त्यजमेतत, त्यागस्य दुष्करत्वात्, एतदेवाह-दुकरं करोतीति, अथवा किं त्यजति-किं विरहयति ?, उच्यते, जीवितमिव जीवितं-कर्मणो दीर्घा स्थिति 'दुच्चयंति दुष्टं कर्मद्रव्यसञ्चयं 'दुकरं ति दुष्करमपूर्वकरणतो ग्रन्थिभेद, ततश्च 'दुल्लंभं लभईत्ति अनिवृत्तिकरणं लभते, ततश्च 'बोहिं बुज्झइति 'बोधि' सम्यग्दर्शनं 'वुध्यते' अनुभवति, इह च श्रमणोपासकः साधूपासनामात्रकारी ग्राह्यः, तदपेक्षयवास्य मूत्रार्थस्य घटमानत्वात्, 'तओ पच्छ'त्ति तदनन्तरं सिद्धथतीत्यादि प्राग्वत्, अन्यत्राप्युक्तं दानविशेषस्य | बोधिगुणत्वं, यदाह-"अणुकंपऽकामणि जरबालतवे दाणविणए" त्यादि, तद्यथा-"केई तेणेव भवेण निव्वुया सबकम्मओ मुक्का । केई
A4%A-CA
॥५२७॥

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367