Book Title: Vyakhyapragnapti Sutra
Author(s): Abhaydevsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 330
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५६३॥ ७ शतके उद्देशः ६ दुष्षमदुष्पमावर्णनं सू०२८७ परिणतग्रहणं, तथा 'पविरलपरिसडिपदंतसेढी' प्रविरला दन्तविरलत्वेन परिशटिता च दन्तानां केषांश्चित्पतितत्वेन भन्नत्वेन वा दन्तश्रेणिर्येषां ते तथा 'उन्भडघडमुह'त्ति उद्भटं-विकरालं घटकमुखमिव मुख तुच्छदशनच्छदत्वाधेषां ते तथा 'उन्भडघाडामुह|त्ति क्वचित् तत्र उद्भटे-स्पष्टे घाटामुख-शिरोदेशविषयौ येषां ते तथा 'वंकवलीविगयभेसणमुह'त्ति वंक-वनं पाठान्तरेण व्यङ्गसलाञ्छनं वलिभिर्विकृतं च-बीभत्सं भेषण-भयजनकं मुख येषां ते तथा 'कच्छूकसराभिभूया' कच्छ्र:-पामणा(मा)तया कशरैश्चखशरीरभिभूता-व्याप्ता ये ते तथा, अत एव 'खरतिक्खनखकंडूइयविक्खयतणु'त्ति खरतीक्ष्णनखानां कण्डूयितेन विकृता-कृतव्रणा तनु:-शरीरं येषां ते तथा, 'दकिडिभसिंझफुडियफरुसच्छवि'त्ति दकिडिमसिध्मानिः क्षुद्रकुष्ठविशेषास्तत्प्रधाना स्फुटिता परुषा च छविः-शरीरत्वग येषां ते तथा, अत एव 'चित्तलंगति कर्बरावयवाः, 'टोले'त्यादि, टोलगतयः-उष्ट्रादिसमपचाराः पाठान्तरेण टोलाकृतयः-अप्रशस्ताकाराः विषमाणि इस्वदीर्घत्वादिना सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः | उत्कुटु कानि-यथास्थानमनिविष्टानि अस्थिकानि-कीकसानि विभक्तानीव च-दृश्यमानान्तरालानीव येषां ते उत्कुटुकास्थिकविभक्ताः |अथवोत्कुटुकस्थितास्तथास्वभावत्वाद्विभक्ताश्च-भोजनविशेषरहिता ये ते तथा, दुबला-बलहीनाः कुसंहननाः-सेवात्तसंहननाः | कुप्रमाणाः-प्रमाणहीनाः कुसंस्थिताः-दुःसंस्थानाः, तत एषां 'टोलगे'त्यादिपदानां कर्मधारयः, अत एव 'कुरूव'त्ति कुरूपाः | 'कुट्ठाणासणकुसेज कुभोइणों'त्ति कुत्सिताश्रयविष्टरदुःशयनदुर्भोजनाः 'असुइणो'त्ति अशुचयः स्नानब्रह्मचर्यादिवाजतत्वात्, अश्रुतयो वा शास्त्रवर्जिताः, 'खलंतविज्झलगईत्ति खलन्ती-स्खलन्ती विह्वला च-अर्दवितर्दा गतिर्येषां ते तथा अनेकव्याधिरोगपीडितत्वात् 'विगयचेट्टानढतेय'त्ति विकृतचेष्टा नष्टतेजसश्चेत्यर्थः 'सीए'त्यादि शीतोनोष्णेन खरपरुषवातेन च 'विज्झडिय'. . . ॥५६३॥

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367