SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५६३॥ ७ शतके उद्देशः ६ दुष्षमदुष्पमावर्णनं सू०२८७ परिणतग्रहणं, तथा 'पविरलपरिसडिपदंतसेढी' प्रविरला दन्तविरलत्वेन परिशटिता च दन्तानां केषांश्चित्पतितत्वेन भन्नत्वेन वा दन्तश्रेणिर्येषां ते तथा 'उन्भडघडमुह'त्ति उद्भटं-विकरालं घटकमुखमिव मुख तुच्छदशनच्छदत्वाधेषां ते तथा 'उन्भडघाडामुह|त्ति क्वचित् तत्र उद्भटे-स्पष्टे घाटामुख-शिरोदेशविषयौ येषां ते तथा 'वंकवलीविगयभेसणमुह'त्ति वंक-वनं पाठान्तरेण व्यङ्गसलाञ्छनं वलिभिर्विकृतं च-बीभत्सं भेषण-भयजनकं मुख येषां ते तथा 'कच्छूकसराभिभूया' कच्छ्र:-पामणा(मा)तया कशरैश्चखशरीरभिभूता-व्याप्ता ये ते तथा, अत एव 'खरतिक्खनखकंडूइयविक्खयतणु'त्ति खरतीक्ष्णनखानां कण्डूयितेन विकृता-कृतव्रणा तनु:-शरीरं येषां ते तथा, 'दकिडिभसिंझफुडियफरुसच्छवि'त्ति दकिडिमसिध्मानिः क्षुद्रकुष्ठविशेषास्तत्प्रधाना स्फुटिता परुषा च छविः-शरीरत्वग येषां ते तथा, अत एव 'चित्तलंगति कर्बरावयवाः, 'टोले'त्यादि, टोलगतयः-उष्ट्रादिसमपचाराः पाठान्तरेण टोलाकृतयः-अप्रशस्ताकाराः विषमाणि इस्वदीर्घत्वादिना सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः | उत्कुटु कानि-यथास्थानमनिविष्टानि अस्थिकानि-कीकसानि विभक्तानीव च-दृश्यमानान्तरालानीव येषां ते उत्कुटुकास्थिकविभक्ताः |अथवोत्कुटुकस्थितास्तथास्वभावत्वाद्विभक्ताश्च-भोजनविशेषरहिता ये ते तथा, दुबला-बलहीनाः कुसंहननाः-सेवात्तसंहननाः | कुप्रमाणाः-प्रमाणहीनाः कुसंस्थिताः-दुःसंस्थानाः, तत एषां 'टोलगे'त्यादिपदानां कर्मधारयः, अत एव 'कुरूव'त्ति कुरूपाः | 'कुट्ठाणासणकुसेज कुभोइणों'त्ति कुत्सिताश्रयविष्टरदुःशयनदुर्भोजनाः 'असुइणो'त्ति अशुचयः स्नानब्रह्मचर्यादिवाजतत्वात्, अश्रुतयो वा शास्त्रवर्जिताः, 'खलंतविज्झलगईत्ति खलन्ती-स्खलन्ती विह्वला च-अर्दवितर्दा गतिर्येषां ते तथा अनेकव्याधिरोगपीडितत्वात् 'विगयचेट्टानढतेय'त्ति विकृतचेष्टा नष्टतेजसश्चेत्यर्थः 'सीए'त्यादि शीतोनोष्णेन खरपरुषवातेन च 'विज्झडिय'. . . ॥५६३॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy