SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥५६४।। त्ति मिश्रितं व्याप्तमित्यर्थः मलिनं च पांशुरूपेण रजसा द्रव्यरजसेत्यर्थः 'उग्गुडिय'त्ति उद्धूलितं चाङ्ग २ येषां ते तथा 'असुहदुक्खभागि 'त्ति दुःखानुबन्धिदुःखभागिन इत्यर्थः 'ओसणं' ति बाहुल्येन 'धम्मसण्ण' ति धर्म्मश्रद्धाऽवसन्ना - गलिता सम्यक्त्वभ्रष्टा 'रयणिपमाणमेत्त 'ति रत्नेः - हस्तस्य यत्प्रमाणं - अङ्गुलचतुर्विंशतिलक्षणं तेन मात्रा - परिमाणं येषां ते रत्निप्रमाणमात्राः 'सोलसवी सहवासपर माउसो'ति इह कदाचित् पोडश वर्षाणि कदाचिच्च विंशतिर्वपाणि परमायुर्येषां ते तथा 'पुत्तन परियालपणयबहुल' ति पुत्राः सुताः नप्तारः - पौत्रा दौहित्राथ एतल्लक्षणो यः परिवारस्तत्र यः प्रणयः स्नेहः स बहुलो-बहुर्येषां ते तथा पाठान्तरे 'पुत्तन परिवालाणबहुल' त्ति तत्र च पुत्रादीनां परिपालनं बहुलं - बाहुल्येन येषां ते तथा, अनेनाल्पायुकत्वेऽपि बह्रपत्यता तेषामुक्ता अल्पेनापि कालेन यौवनसद्भावादिति, 'निस्साए 'ति निश्राय - निश्रां कृत्वेत्यर्थः 'निओय'त्ति निगोदा: - कुटुस्वानीत्यर्थः 'वीर्य'ति बीजमिव बीजं भविष्यतां जनसमूहानां हेतुत्वात् 'बीयमेत्त'त्ति बीजस्येव मात्रा - परिमाणं येषां ते बीजमात्रा स्वल्पाः स्वरूपत इत्यर्थः ॥ 'रहपह'ति रथपथः - शकटचक्रद्वयप्रमितो मार्गः 'अक्खसोयप्पमाणमेत्तं ति अक्षश्रोतः - चक्रधुरः प्रवेशरन्धं तदेव प्रमाणमक्ष श्रोतः प्रमाणं तेन मात्रा - परिमाणमवगाहतो यस्य तत्तथोक्ता 'वोज्निहिंति, सेवि य णं जले वक्ष्यतः 'आऊ बहुले 'ति बहुपकायमित्यर्थः 'निद्धाहिंति' त्ति 'निर्द्धाविष्यन्ति' निर्गमिष्यन्ति 'गाहेहिंति' ति 'ग्राहयिष्यन्ति' प्रापयिव्यन्ति, स्थलेषु स्थापयिष्यन्तीत्यर्थः 'वित्तिं कप्पेमाणे 'ति जीविकां कुर्वन्तः ॥ 'निस्सील' त्ति महाव्रताणुत्रतविकलाः 'निरगुणत्ति उत्तरगुणविकलाः 'निम्मेर' ति अविद्यमान कुलादिमर्यादा: 'निपच्चक्खाणपोस होववास' त्ति असत्पौरुष्यादिनियमा अविद्यमाना|ष्टम्यादिपर्वोपवासाचेत्यर्थः ' ओसन्नं'ति प्रायो मांसाहाराः, कथम् ? इत्याह-मत्स्याहारा यतः, तथा 'खोद्दाहार' चि मधुभोजिनः ७ शतके प्र०आ०३०८ जोशः ६ दुष्षमदुष्ष मावर्णनं सू० २८७ | ॥५६४॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy